| YouTube Channel

वनिता-त्री (vanitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वन शब्दे”@} 2 ‘--संभक्तिशब्दयोः’ इति वोपदेवः।
‘याचने वनुते, शब्दे संभक्तौ वनेदिति।।’ 3 इति देवः।
वानकः-निका, वानकः-निका, विवनिषकः-षिका, वंवनकः-निका
वनिता-त्री, वानयिता-त्री, विवनिषिता-त्री, वंवनिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककणतिवत् 4 ज्ञेयानि।
अचि-वनम्, वन्या, 5 वनिः-वनी, वन्यम्, ल्यपि- 6 प्रवत्य, 7 वन्तिः, - 8 वतिः, 9 10 ब्रह्मवनं त्वा क्षत्रवनिम्, 11 वनिष्ठुः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५५०)
02
=>
(१-भ्वादिः-४६२। अक। सेट्। पर।)
03
=>
(श्लो। १२४)
04
=>
(१५७)
05
=>
[[८। ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति स्त्रियां वा ङीष् भवति। तेन रूपद्वयमिति बोध्यम्।]]
06
=>
[[९। ‘वा ल्यपि’ (६-४-३८) इत्यनेन अनुदात्तोपदेशादीनां विधीयमानोऽनुनासिक- लोपविकल्पः, व्यवस्थितविभाषाविज्ञानात् नान्तेषु नित्यः। तेन प्रवत्य इत्येकमेव रूपम्, नित्यत्वात्।]]
07
=>
[[१०। क्तिचि, ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घानुनासिकलोपयोर्निषेधः।]]
08
=>
[[११। क्तिनि-- ‘तितुत्र--’ (७-२-९) इत्यादिना इण्निषेधात् ‘अनुदात्तोपदेश- वनति--’ (६-४-३७) इत्यनुनासिकलोपे रूपमेवम्।]]
09
=>
[पृष्ठम्११९५+ २६]
10
=>
[[१। ‘छन्दसि वनसनरक्षिमथाम्’ (३-२-२७) इति कर्मण्युपपदे छन्दसि विषये ब्रह्म वनति, क्षत्रं वनतीत्यर्थविवक्षायाम्, इन्प्रत्यये रूपमेवम्।]]
11
=>
[[२। ‘ऋतन्यञ्चिवनि--’ (द। उ। १०-१२) इत्यादिना इष्ठुच्प्रत्यये रूपमेवम्। ‘वनिष्ठुः = अपानं मांसविशेषश्च’ इति मा। धा। वृत्तिः। दशपाद्युणादिवृत्तौ तु (१०-१२) ‘ऋतन्यञ्जि’ इत्यत्र इष्णुच्प्रत्यये वनिष्णुः इत्युक्तम्। अपानोपरि- स्थानमित्यर्थः।]]
1 {@“वन संभक्तौ”@} 2 ‘…संभक्तौ वनेदिति।।’ 3 इति देवः।
‘-- भक्तौ।
भक्तिः भजनम्’ इति क्षीरस्वामी।
‘वनेरर्थभेदात् पुनः पाठः’ इति मैत्रेयरक्षितः।
वानकः-निका, वानकः-निका, विवनिषकः-षिका, वंवनकः-निका
वनिता-त्री, वानयिता-त्री, विवनिषिता-त्री, वंवनिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककणतिवत् 4 बोध्यानि।
5 वानरः।
प्रासङ्गिक्यः
01
=>
(१५५१)
02
=>
(१-भ्वादिः-४६३ सक। सेट्। पर।)
03
=>
(श्लो। १२४)
04
=>
(१५७)
05
=>
[[३। वनशब्दात् वने भव इत्यर्थे ‘तत्र भवः’ (४-३-५३) इति अण्प्रत्यये वान इति सिद्धम्। तत औणादिके (द। उ। १०-१२) रक्प्रत्यये वानर इति रूपम्। वा = किंचित् मरो वा वानरः।]]
1 {@“वनु नोच्यते”@} 2 घटादिः।
‘च’ कारात् हिंसायामपि।
‘वनु स्मरणे’ इति काशकृत्स्नः।
‘-- व्यापृतौ’ इति वोपदेवः।
अस्यायमर्थः इति विशिष्य नोच्यते
क्रियासामान्यार्थवाचित्वात्।
‘अनेकार्थत्वादित्यन्ये’ इति सि।
कौमुदी।
“यदि तानादिकस्यैवाऽत्रानुवादः स्यात्, तर्हि तनादिगणे ‘वनु’ इति कृतेन उदित्करणेनैव ‘उदितो वा’ 3 इत्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनः 4 उदित्करणमनर्थकं स्यात्।
अतस्तानादिकस्य नात्रानुवादः
किं तु अपूर्व एवायं वनुधातुः” इति बालमनोरमायामुक्तम्।
“उदित्करणसामर्थ्यादयमन्यो धातुः, तानादिकस्यायमनुवादः।
क्रियासामान्ये मित्त्वमात्रार्थे ह्यनुवादे तानादिक एवानुवाद्यः, पुनः शब्दार्थः सम्भक्त्यर्थो वा” इति मा।
धा।
वृत्तिः इहानुसन्धेया।
‘धनपालस्तु वनोतिमेव प्रस्तुत्याह-- “वनुं घटादिषु पठन्ति द्रमिडाः।
तेषां 5 मित्संज्ञा।
वनयति।
आर्यास्तु विभाषा मित्त्व- मिच्छन्ति।
तेषां वानयति” इति पुरुषकारः 6।
‘याचने वनुते शब्दे संभक्तौ वनेदिति।।’ 7 इति देवः।
वानकः-निका, वनकः- 8 वानकः-निका, विवनिषकः-षिका, वंवनकः-निका
वनिता-त्री, वनयिता-वानयिता-त्री, विवनिषिता-त्री, वंवनिता-त्री
निष्ठायाम्-वान्तम्, क्त्वायाम्-वत्वा- 9 वनित्वा
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकचनतिवत् 10 ज्ञेयानि।
अनुपसृष्टे वनयन्-वानयन् इति मित्त्व- विकल्पेन रूपद्वयं भवति।
उपसृष्टे तु प्रवनयन् इत्येव।
प्रासङ्गिक्यः
01
=>
(१५५२)
02
=>
(१-भ्वादिः-८०३। सक। सेट्। पर।)
03
=>
(७-२-५६)
04
=>
[पृष्ठम्११९६+ २९]
05
=>
(नित्यं)
06
=>
(श्लो। १२५)
07
=>
(श्लो। १२४)
08
=>
[[१। ‘ग्लास्नावनुवमां च’ (गणसूत्रं भ्वादिः) इत्यनेनानुपसृष्टस्य धातोः मित्त्वं विकल्पेन भवति। मित्त्वपक्षे ‘मितां ह्रस्वः’ (६-४-९२) इति उपधाह्रस्वः। तेन सर्वत्र णिजन्ते रूपद्वयमिति ज्ञेयम्।]]
09
=>
[[२। अस्य धातोः उदित्त्वात् ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पनात् रूपद्वयमिति बोध्यम्। इडभावपक्षे ‘अनुदात्तोपदेशवनति--’ (६-४-३७) इत्यनुनासिकलोपः।]]
10
=>
(४९४)
1 {@“वनु याचने”@} 2 ‘याचने वनुते, शब्दे संभक्तौ वनेदिति।।’ 3 इति देवः।
चान्द्रास्तु इमं परस्मैपदिनमाहुः।
‘उभयपदी’ इति कातन्त्र-शाकटायन- हेमचन्द्रादयः।
वानकः-निका, वानकः- 4 5 निका, विवनिषकः-षिका, वंवनकः-निका
वनिता-त्री, वानयिता-त्री, विवनिषिता-त्री, वंवनिता-त्री
6 इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकमन्यतिवत् 7 ज्ञेयानि।
8 वतम्-तः-तवान्, 9 वनीयकः-वनीपकः, 10 वतिः, 11 वन्तिः, 12 प्रवत्य, 13 वनित्वा- वत्वा, 14 वण्डः, 15 वठरः, 16 वनिष्णुः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति बोध्यम्।
प्रासङ्गिक्यः
01
=>
(१५५३)
02
=>
(८-तनादिः-१४७०। सक। सेट्। आत्म।)
03
=>
(श्लो। १२४)
04
=>
[[३। ‘ग्लास्नावनुवमां च’ (ग। सू। भ्वादिः) इति अनुपसृष्टानां मित्त्वविकल्पे “‘वनु नोच्यते’ इति घाटादिकस्यास्य ग्रहः-इत्येके” इति मा। धा। वृत्तावुक्त- त्वात् पक्षे रूपमेवमिति ज्ञेयम्। अन्ये ‘अनन्तरस्य विधिः--’ (परि-६२) इति न्यायेन घाटादिकस्यैव इति वदन्ति।]]
05
=>
[वनकः]
06
=>
[पृष्ठम्११९७+ २९]
07
=>
(१२१७)
08
=>
[[१। निष्ठायाम् ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इत्यनुनासि- कलोपे रूपमेवम्।]]
09
=>
[[२। वनी = याच्ञा, तामिच्छतीति क्यजन्तात् ण्वुलि-वनीयकः इति रूपम्। ‘वनीयको याचनको मार्गणो याचकार्थिनौ’ इत्यमरः। वनीयकः = अर्थिपर्यायः। अन्ये वनीपकः इति पकारान्तं पठन्ति। तेषां वनीं पातीति वनीपः, ततः संज्ञायां कन्प्रत्यये रूपमेवम्।]]
10
=>
[[३। क्तिनि अनुनासिकलोपे रूपमेवम्।]]
11
=>
[[४। क्तिचि-- ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घानुनासिकलोपनिषेधे रूपमेवम्।]]
12
=>
[[५। ल्यपि ‘वा ल्यपि’ (६-४-३८) इति अनुदात्तोपदेशादीनां विधीयमानोऽनुनासि- कलोपविकल्पो, व्यवस्थितविभाषाश्रयणात् नान्तेषु नित्यः, तेन रूपमेवम्।]]
13
=>
[[६। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पो भवति। इट्पक्षे वनित्वा, इडभावपक्षे अनुनासिकलोपे वत्वा इति रूपद्वयं बोध्यम्।]]
14
=>
[[७। औणादिके (द। उ। ५-७) डप्रत्यये वण्डः इति रूपम्। अल्पशेष इत्यर्थः।]]
15
=>
[[८। ‘वनिमनिभ्यां--’ (द। उ। ८-९९) इत्यरप्रत्यये ठकारे चान्तादेशे रूपमेवम्। वनति वनुते वा वठरः = बृहद्द्रोही, मूर्खश्च।]]
16
=>
[[९। ‘ऋतन्यञ्चिवनु--’ (द। उ। १०-१२) इत्यादिना इष्णुच्प्रत्यये रूपमेवम्। वनिष्णुः = अपानोपरिस्थानम् इत्यर्थः।]]