| YouTube Channel

वधी (vadhI)

 
शब्दकल्पद्रुमः
Sanskrit
वधी, [न्] त्रि, (प्राणवियोगफलकव्यापारोवधः निष्पाद्यत्वनिरूपितनिष्पादकत्वेना-स्त्यस्येति बध + इनिः ।) वधकर्त्ता प्राण-वियोगफलकव्यापारो वधः तन्निष्पादकत्वञ्चसाक्षात् परम्परोदासीनं स्मृतिकारपरिगणितंवधित्वम् तच्च पञ्चविधं स्मृतिस्वरसात् कर्त्ताप्रयोजकोऽनुमन्तानुग्राहको निमित्ती चेति ।नरान्तरव्यापारव्यवधानेन वधनिव्यादकः कर्त्ता ।१ यः कर्त्तारं कारयति प्रयोजकः ।स द्विविधः एकः स्वतोऽप्रवृत्तमेव पदातिंवेतनादिना प्रेरयति अपरः स्वतः प्रवृत्तमेवमन्त्रोपायोपदेशादिना प्रोत्साहयति अनु-मतिदातानुमन्ता अनु मतिश्च द्विविधाएका यद्विरोधाद्धननं भवति तस्य विरो-धिनो मया निरोधः कर्त्तव्य इति प्रयुक्तिरनु-मतिः अपरा एवं हन्मीति वचने शक्तस्या-प्रतिषेध एव अनुग्राहकोऽपि द्बिविधः एकोवध्यप्रतिरोधकः अपरः स्वस्त्पप्रहर्त्ता ।उद्देश्यत्वे सति हन्तुर्मन्यूत्पादको निमित्ती ।अत्र प्रयोजकस्य कर्त्तृप्रयुक्तिद्वारेण वधकार-णत्वम् अनुमन्तुश्च हन्तुर्निर्भयत्वेन दृढतर-प्रहारोत्पत्तिद्बारेण अनुग्राहकस्य पलायना-द्यसम्भवेन हननीयस्थैर्य्यं कुर्व्वतः प्रहारस्वरू-पोत्पत्तिद्बारेण वा कारणत्वम् निमित्तिनोहन्तुर्मन्यूत्पादनद्वारेणेति प्रयोजकादीनांचतुर्णां व्यवहितहननकारणानामवान्तरभेदा-द्भेदः अतः पञ्चविधं वधित्वम् इति प्राय-श्चित्तविवेकः