| YouTube Channel

वदरं (vadaraM)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)दरं,
क्ली,
(बदति स्थिरीभवति छिन्नेऽपि पुनःप्ररोहतीति बद + अर ।) सेविफलम् इतिराजनिर्घण्टः
(पर्य्यायोऽस्य यथा, --“मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)कार्पासफलम् कोलिफलम् इति हेमचन्द्रः
शृगालकोलिः शेयाकुल इति भाषा बदतिस्थिरीभवति छिन्नस्यापि पुनःप्ररोहणात् बदरंवृक्षफलेऽपि क्लीवम् इति भरतः
तत्-पर्य्यायः घोण्टा इत्यमरः
गोपघोण्टा३ इति सुभूतिः
हस्तिकोलिः गोपघण्टी५ बदरीच्छदा शृगालकोलिः कर्कन्धुः८ इति रत्नकोषः
बादिरम् इतिशब्दरत्नावली
अस्य विवरणं कोलशब्दे द्रष्ट-व्यम्
*
बृहत्कोलिः तत्पर्य्यायः सौवीरम्२ इति रत्नमाला
*
कोलिमात्रम् तत्प-र्य्यायः कर्कन्धुः वदरी कोलम् फेनिलम्५ कुवलम् घोण्टा सौवीरम् अजाप्रिया९ कुहा १० कोलिः ११ विषमः १२ भयकण्टकः१३ इति भावप्रकाशः
सौवीरकः १४ गुड-फलः १५ बालेष्टः १६ फलशैशिरः १७ दृढ-बीजः १८ वृत्तफलः १९ कण्टकी २० वक्र-कष्टकः २१ सुरसः २२ सुफलः २३ स्वच्छः२४ कर्कन्धूः २५ बदरः २६ कोला २७ कोली२८ कुवली २९ स्वादुफला ३० गृध्रनखी ३१पिच्छिला ३२ कुवलः ३३ इति शब्दरत्ना-वली
(यथा, भागवते ७२ ।“त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशबः ।आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम्
”)अस्य गुणाः मधुरत्वम् कषायत्वम् अम्ल-त्वञ्च
परिपक्वस्य तस्य गुणाः मधुराम्लत्वम् ।उष्णत्वम् कफकारित्वम् पवनातिसाररक्त-श्रमदोषार्त्तिविनाशित्वम् रुच्यत्वञ्च इति राज-निर्घण्टः
राजबदरभूबदरलघुबदराणां पर्य्याय-गुणास्तत्तच्छब्दे द्रष्टव्याः
*
अथ बदरविशे-षाणां लक्षणानि गुणाश्च ।“पच्यमानं सुमधुरं सौवीरं बदरं महत् ।सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम्
बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् * ।सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते
कोलन्तु बदरं दाहि रुच्यमुष्णञ्च वातहृत् ।कफपित्तकरञ्चापि गुरु सारकमीरितम्
*
कर्कन्धुः क्षुद्रबदरं कथितं पूर्व्वसूरिभिः ।अम्लं स्यात् क्षुद्रबदरं कषायं मधुरं मनाक्
स्निग्धं गुरु तिक्तञ्च वातपित्तापहं स्मृतम् ।शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित्
”इति भावप्रकाशः