वद (vada)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishवद r. 1st and 10th cls. (वदति-ते वदयति-ते)
1 To inform, to speak to or tell, to declare.
2 To speak articulately.
3 To abide.
With अनु, (अनुवदते) To speak similarly or subsequent.
With अप prefixed, (अपवदति-ते) To reprove, to censure.
With अभि, To salute respectfully or by name.
With उप, (उपवदते) To explain.
With निर्, To speak out or
With परि, (परिवदति) To speak against.
With प्र, To rumour, to slander.
With प्रति, (प्रतिवदति) To reply to or answer.
With वि, (विवदते) To dispute.
With वि and प्र, (विप्रवदति or -ते) To wrangle or dispute together.
With वि and सं, To break a promise.
With सम and प्र, (सष्प्रवदते) To speak articulately in concert
(सष्प्रवदति) To utter or articulate sounds together. (इ, ) वदि (वंदते)
1 To salute with reverence or respect.
2 To praise, to eulogize.
Apte
Englishवद [vada], Speaking, talking, speaking well.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishHindi
Hindiबताओ कृपया
Apte Hindi
Hindiवद
वि* - वद् + अच्
"बोलने वाला, बातें करने वाला, अच्छा बोलने वाला"
धातुपाठः (Krishnacharya)
Sanskrit वद्
वद
व्यक्तायां वाचि
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
वदति
वद्
वद
सन्देशवचने
चुरादिः
सकर्मकः
सेट्
उभयपदी
वादयति-ते
आधृषीयः
धातुप्रदीपः
Sanskritवदँ वद व्यक्तायां_वाचि
- वदति । उद्यते । उवाद, ऊदतुः । वदिता । उदित्वा । उदितम् । अवद्यम् । अनुद्यम् । अनुवाद्यम् । अपवाद्यम् । ब्रह्मवादी । वदनम् । वावदूको वाचालः । वदान्यः ।। 1017 ।।
वदँ वद सन्देशने
- वादयति वदते वदति अन्यत्र वदति 285
अभिधानचिन्तामणिः
Sanskritवागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् ।
समुखो वावदूकोऽथ वदो वक्ता वदावदः ॥ ३४६ ॥
वागीश (पुं), वाक्पति (पुं), वाग्मिन् (पुं), वाचोयुक्तिपटु (पुं), प्रवाच् (पुं), समुख (पुं), वावदूक (पुं), वद (पुं), वक्तृ (पुं), वदावद (पुं)
शब्दकल्पद्रुमः
Sanskritव(ब)द, इ ङ नुत्यभिवादयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) अभिवादो नम-स्कारः । इ, वन्द्यते । ङ, वन्दते गुरुं लोकः ।नमस्करोति स्तौति वा इत्यर्थः । इति दुर्गादासः ॥
व(ब)द, ऐ वाचि । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) ऐ, उद्यात् । इति दुर्गा-दासः ॥
(“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु-नासिको वकारः सँव्वत् यस्तु मन्यते नायंसंप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्यइत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपिसम्बदिति वर्णदेशना ।” इति मनोरमा ॥
)
वद, क वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥
(चुरा०-पर०-सक०-आत्म०-इत्येके-सेट् ।) क, वादयति । सन्देशो वचनविशेषः । अयमात्मने-पदीत्येके । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritवद वाचि सेट् यजा० । वदति अवादीत्उवाद ऊदतुः उदितः ।भासने उपसान्त्वते आत्म० शास्त्रे वादते भासमानोवदतीत्यर्थः भृत्यानुपवदते सान्तयतीत्यर्थः । ज्ञानाद्युपाधौच आत्म० । तत्र ज्ञाने शास्त्रे वदते । यत्रे क्षेत्रे वदते ।विमतौ क्षेत्रे विवदन्ते । उपच्छन्दने उपवदते प्रार्थयतेइत्यर्थः सि० कौ० । व्यक्तवाचां सम्भूयोच्चारणे आत्म०प्रवदन्ते विप्राः । अति + मर्य्यादातिक्रमेणोक्तौ प०अतिवदति । अनु + उक्तस्य पर्य्यायान्तरेण कथने अनुवादःअकर्मकात् व्यक्तवाचामनुवादे तु आत्म० अनुवदते कठः-प्रलापस्य” सि० कौ० अव्यक्तवाचि तु प० अनुवदति वीणासकर्मकात्तु उक्तमनुवदति । विरुद्धोक्तौ व्यक्तायांवाचि वा आत्म० विप्रवदन्ते न्ति वैद्याः ।अप + निन्दायाम् । अपवादः । विशेषविधाने च अपवादः विशेषविधिःपरि + निन्दात्रां मिथ्यादूषणे च । परिवदति वरिवादः ।प्रति + विरुद्धतयोक्तौ प्रतिवदति प्रतिवादः प्रतिवादीप्रत्युत्तरोक्तौ च ।वि + विरुद्धोक्तौ पक्षप्रतिपक्षग्रहणेनोक्तौ आत्म० वि-वदन्ते पण्डिताः वादिप्रतिवादिनश्च ।
क्षीरतरङ्गिणी
Sanskritवदँ वद व्यक्तायां_वाचि
- 740। वदति वदिता भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (1347) तङ्-वदते चार्वी लोकायते, भातीत्यर्थः, गेहे वदते, यतत इत्यर्थः, क्षेत्रे विवदन्ते, नाना वदन्तीत्यर्थः, परदारानुपवदते, रहस्युपच्छन्दयतीत्यर्थः व्यक्तवाचां समुच्चारणे (1348) सम्प्रवदन्ते द्विजाः विभाषा विप्रलापे (1350) विप्रवदन्ते मौहूर्तिकाः, विप्रवदन्ति वा अनोरकर्मकात् (1349) अनुवदते कठः कलापस्य अपाद्वदः (1373) अकर्त्रभिप्राये क्रियाफले-अपवदते, अपवदति उद्यते वदव्रज (723) इति वृद्धिः-अवादीत् न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः (1389) आत्मनेपदं णिचि - वादयते वीणाम् अवद्यपण्यवर्यागर्ह्य (31101) इत्यवद्यं गर्ह्यो साधु राजसूयसूर्य (31144) इति मृषोद्यम् वदः सुपि क्यप् च (31106) ब्रह्मोद्यम्, ब्रह्मवद्यम् प्रियवशे वदः खच् (3238) प्रियंवदः, वशंवदः यजजपदशां यङः (32166) वदेरपीष्यते वावदूकः उत्तिः- तितु (729) इति नेट्, इडपीष्यते- उदितिः मृडमृद (127) इति क्त्वा कित्-उदित्वा अच्छगत्यर्थवदेषु (1469) गति संज्ञः-अच्छोद्य वृतॄवदि (उ0 362) इति सः वत्सः वदेरान्यः (उ0 3104) वदान्यो दाता वदन्योऽपीष्टः वसिवपिवदि (द0 उ0 143) इतीञ्-वादिः भूवादिगृभ्यो णित्रन् (उ0 4177 श्वेत0) वादित्रम् 979
वदँ वद संदेशने
- वादयति, वदति, वद्यते भ्वादौ (1739) वदति, वदते, यजादित्त्वात् (6115) संप्रसारणम्-उद्यते चन्द्रो वचेत्यपाठीत् 284
धातुवृत्तिः
Sanskritवदँ वद (अर्थः) व्यक्तायां_वाचि
( वदति उवाद ऊदतुः ऊदुः उवदिथ उवाद उवद ऊदिव ) यजादित्वात्किति संप्रसारणम् पिति "लिट्यभ्यासस्य'' इत्याभ्यासस्य ( वदिता वदिष्यति वदतु अवदत। वदेत् ) अशिषि ( उद्यात् अवादीत् ) "वदव्रज'' इति वृद्धिः ( विवदिषति वावद्यते वावदीति वावत्ति वादयति अवीवदत् वादयते अवीवदत ) वदेःकर्म्माविवक्षायाम् "अणावकर्मकात्'' इति प्राप्तं परस्मैपदं "न पादमि'' इत्यादिना निषिध्यते अभिवदति गुरं देवदत्तः अभिवादयते गुरुं देवदत्तं देवदत्तेन वा, [ अभिवादिदृशोरात्मनेपदे उपसंख्यानम् ] इति पक्षे प्रयोज्यस्य कर्म्मत्वं परस्मैपदे तु कर्त्तृत्वात्तृतीयैव वदते व्याकरणे यज्ञनारायणः भासमानस्तत्र सूत्रार्थं वक्तीत्यर्थः कर्म्मकरानुपवदते उपसान्त्वयतीत्यर्थः वदते यज्ञनारायणाचार्यः जानाति वदितुमित्यर्थः गेहे वदते, तद्विषयमुत्साहमाविष्करोतीत्यर्थः (गेहे विवदन्ते) विमतिपतिता विचित्रं भाषन्तइत्यर्थः कुलभार्यामुपवदते उपच्छन्दयतीत्यर्थः "भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः'' इति तङ् भासनं दीप्तिः, उपसम्भाषणमुपसान्त्वनं, ज्ञानं सम्यगवबोधः यत्नउत्स हः, विमतिर्नानामतिः उपमन्त्रणं रहस्युपच्छन्दनम् उपसान्त्वनमुपच्छन्दनं च धातोरर्थतया विशेषणम्, अन्यत्र धात्वर्थस्य, संप्रवदन्ते राजानः सन्भूयोच्चारयन्तीत्यर्थः ( सूत्रम्) व्यक्तवाचां समुच्चारणे (इति सूत्रम्) इति तङ् व्यक्तवाचो मनुष्याः समुच्चारणं सम्भूयोच्चारणम्, अर्थस्वभावादुपसर्गयोगः अव्यक्तवाक्षु पर्यायोच्चारणे च परस्मैपदमेव संप्रवदन्ति कुक्कुटाः ब्राह्मणो वदति, क्षत्रियो वदति अनुवदते कठः कलापकस्य अनुः सादृश्ये, यथा कालापोऽधीयानो वदति तथा कठ इत्यर्थः "अनोरकर्म्मकात्'' इति अनुवदतेस्तङ् अत्रानुः सादृश्ये इति सादृश्यप्रतिपादनपरत्वादकर्म्मकत्वम् अयमपि योगो व्याक्तवाग्विषये एव अनुवदति वीणा गायकस्येत्यत्र न तङ्, अकर्मकादित्युक्तेः पूर्वोक्तमनुवदतीत्यत्र च न भवती विप्रवदन्ते मौहूर्त्तिकाः युगपद्विरुद्धं भाषन्त इत्यर्थः "विभाष विप्रलापे'' इति तङ्विकल्पः विप्रलापो विरुद्धभाषणम् "व्यक्तवाचां समुच्चारणे'' इति प्राप्ते इयं विभाषेत्यव्यक्तवाक्कर्तृके विरुद्धभाषणे तङ् न भवति विप्रवदन्ति शकुनीयाः तथा त्यक्तवाक्कर्तृकत विरुद्धभाषणे क्रमिकेऽपि न तङ्, मौहूर्त्तिकाः क्रमेण विप्रवदन्तीति धनकामो न्यायमपवदते धनार्थो न्यायं नाद्रियतइत्यर्थः "अपाद्वदः'' इति कर्त्रभिप्राये तङ् अवद्यं पापम् "अवद्यपण्य'' इत्यादिना यति गर्ह्ये निपात्यते ब्रह्मोद्यं, ब्रह्मणो वदनमित्यर्थः "वदः सुपि क्यप् च'' इत्यनुपसर्गे सुप्युपपदे क्यपि प्रसारणं चकाराद्यति ब्रह्मवद्यम् अनुपसर्गादुपसृष्टाच्च णे यति वाद्यं प्रवाद्यमिति ( मृषोद्यम् ) "राजसूय''इत्यादिना भावकर्मणोः क्यपि निपात्यते ( अवादी ) ग्रहादिषु "यावयाहू''इत्यादिसूत्रेण नञ्पूर्वाण्णिनिः ( वदः वदावदः ) पचाद्यचि "चलिपतिवदि'' इत्यादिना द्विर्वचनमभ्यासस्य त्वागागमः (प्रियंवदःवशंवदः) "प्रियवशे वदःखच्'' इति खच् ( परिवादी ) सम्पृचादित्वाद् घिनुण् ( प्रवादी ) "प्रे लप'' इत्यादिना घिनुण् (परिवादकः) "निन्दहिंस'' इत्यादिना ण्यन्ताद्वुञ् वावदूकस्यापत्यं वावदूक्यः"कुर्व्वादिभ्यो ण्यः'' इति, ण्यः कुर्वादिपाठादेव यङन्ताद्वदेरूकप्रत्ययः प्रवादूकादयः प्रयोगाश्चिन्त्याः, उदित्त्वात्. "मृडमृद'' इत्यादिना सेटः क्त्वः कित्त्वात्प्रसारणम् (अच्छोद्य)"अच्छ गत्यर्थवदेषु'' इति अच्छशब्दस्य गतित्वात्समासे सत्यपि प्रसारणम् ( वादिः ) "वदिवपि''इत्यादिना इञ्पूत्ययः ( वत्सः ) "वृतृवदि''इत्यादिना सप्रत्ययः (वत्सलः कामवान् ) "वत्सांसाभ्यां कामबले''इति लच्प्रत्ययो मत्वर्थीयः कामबलशब्दावर्शआद्यजन्तौ तद्वति वर्तते वृत्तौ कामबलार्थौ (वत्सतरः) प्रथमवयोऽतिक्रान्त इत्यर्थः "वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे'' इति प्रवृत्तिनिमित्ततनुत्वोपाधिकार्थादस्माद्वत्सादेः स्वार्थे ष्टरच् वत्सशब्दस्य प्रवृत्तिनिमित्तं प्रथमवयः संम्बन्धः षित्त्वान् ङीष् स्त्रियां वत्सतरी वत्सानां समूहो समूहो वात्सकम् "गोत्रोक्ष'' इत्यादिना वुञ् (वादित्रम्) "अशित्रादिभ्य इत्रोत्रौ'' इति ण्यन्तादित्रः अण्यन्ताद्वाहुलकाद्वृद्धिः (वदान्यः) "वदेरान्य'' इत्यान्यप्रत्ययः अयमाधृषीयश्च 989
वदँ वद (अर्थः) सन्देशवचने
स्वरितेत्, शाकटायनस्य त्वात्मनेपदी ( वादयति वदति वदते ) व्यक्तवाचि शपि वदति 299
कृदन्तरूपमाला
Sanskrit1 {@“वद व्यक्तायां वाचि”@} 2 यजादिः।
‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 3 इति देवः।
वादकः-दिका, वादकः-परिवादकः-दिका, विवदिषकः-षिका, वावदकः-दिका
वदिता-त्री, वादयिता-त्री, विवदिषिता-त्री, वावदिता-त्री
वदन्-न्ती, 4 5 वादयन्-न्ती, विवदिषन्-न्ती
-- वदिष्यन्-न्ती-ती, वादयिष्यन्-न्ती-ती, विवदिषिष्यन्-न्ती-ती
-- 6 शास्त्रे 7 वदमानः, 8 कर्मकरान् उपवदमानः, 9 न्यायम् अपवदमानः, क्षेत्रे विवद- मानः, 10 विप्रवदन्तः-विप्रवदमाना वा मौहूर्तिकाः वैद्याः वा, कुलभार्यामुपवदमानः, 11 अनुवदमानः कठः कालापस्य, 12 सम्प्रवदमानः, गेहे विवदमानः, वादयमानः, 13 अभिवादयमानो गुरुं देवदत्तं देवदत्तेन वा, 14 वादयमानो वीणाम्, विप्रविवदिषमाणः, वावद्यमानः
शास्त्रे वदिष्यमाणः, वादयिष्यमाणः, विवदिषिष्यमाणः, वावदिष्यमाणः
15 उदितम्- 16 तः-तवान्, वादितः, विवदिषितः, वावदितः-तवान्
मधुरोद्-मधुरोदौ-मधुरोदः
-- -- -- 17 वदः, 18 अवादी, 19 वदावदः, 20 वावदूकः, प्रवावदूकः, 21 कद्वदः 22, 23 साधुवादी, 24 परिवादिनी, 25 प्रियंवदः-प्रियंवदा 26, वशंवदः 27, 28 प्रवादी, 29 ब्रह्मवादी, 30 परि- वादकः, वादः, विवदिषुः, वावदः
वदितव्यम्, वादयितव्यम्, विवदिषितव्यम्, वावदितव्यम्
वदनीयम्, वादनीयम्, विवदिषणीयम्, वावदनीयम्
31 अवद्यम्, 32 ब्रह्मोद्यम्-ब्रह्मवद्यम्, 33 मृषोद्यम्, सत्यवद्यः 34, अनृतोद्यम्, 35 36 वाद्यम्-प्रवाद्यम्, वाद्यम्, विवदिष्यम्, वावद्यम्
उद्यमानः, वाद्यमानः, विवदिष्यमाणः, वावद्यमानः
ईषद्वदः-दुर्वदः-सुवदः
-- -- -- वादः, वादः, विवदिषः, वावदः
वदितुम्, वादयितुम्, विवदिषितुम्, वावदितुम्
37 उदितिः, उत्तिः, वादना, विवदिषा, वावदा
वदनम्, वादनम्, विवदिषणम्, वावदनम्
38 उदित्वा 39, वादयित्वा, विवदिषित्वा, वावदित्वा
प्रोद्य, 40 अच्छोद्य, अनुवाद्य, प्रविवदिष्य, प्रवावद्य
वादम् २, उदित्वा २, वादम् २, वादयित्वा २, विवदिषम् २, विवदिषित्वा २, वावदम् २
वावदित्वा २
41 इतीञ्प्रत्ययः।
वदति तस्यामिति वादिः वीणा।]] वादिः, 42 इत्यान्यप्रत्ययः।
वदान्यो दाता।]] वदान्यः, 43 44 इति णिजन्तात् णित्रन्प्रत्ययः।
वाद्यते इति वादित्रम् मृदङ्गपणवादिकम्।]] वादित्रम्, 45 इति सप्रत्ययः।
‘तितुत्रस--’ 46 इतीण्निषेधः।
वत्सः = कुमारः, गोबालश्च।]] वत्सः 47
01 (१५४७)
02 (१-भ्वादिः-१००९। सक। सेट्। पर।)
03 (श्लो। १०९)
04 [[आ। ‘मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः।’ भ। का। ५ ६०।]]
05 [[B। ‘… शैलस्य दर्दुरपुटानिव वादयन्तः।’ शि। व। ५। ९।]]
06 [पृष्ठम्११९०+ २८]
07 [[१। अत्र ‘भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः’ (१-३-४७) इति वदतेस्तङ्। औत्सर्गिकस्य परस्मैपदस्यापवादः। अत्र भासनम् = दीप्तिः। शास्त्रे वदमानः, दीप्यमानः सन् पदार्थान् व्यक्तीकरोतीत्यर्थः। उपसम्भाषणम् = उपसान्त्वनम्। कर्मकरान् उपवदमानः उपसान्त्वयन् इत्यर्थः। ज्ञानम् = सम्यक् अवबोधः। वदमानश्चार्वी लोकायते इत्युदाहरणम्। सम्यग्वक्तुं जानातीत्यर्थः। यत्नः = उत्साहः। क्षेत्रे वदमानः। क्षेत्रविषयकमुत्साहमाविष्करोतीत्यर्थः। विमतिः = नानामतिः। गेहे विवदमानः। विमतिपतिताः विचित्रं भाषन्ते इत्यर्थः। उपमन्त्रणम् = रहसि उपच्छन्दनम्। कुलभार्यामुपवदमानः। उपच्छन्दय- तीत्यर्थः।]]
08 [[आ। ‘मासे सुतं वैजननेऽथ सूतम् आदाय शौरिः वदमानमद्यौत्।’ वा। वि। २-१४।]]
09 [[२। ‘अपाद् वदः’ (१-३-७३) इति तङ्। न्यायापवादेन धनाद्यार्जनं करोति इत्यर्थः।]]
10 [[३। ‘विभाषा विप्रलापे’ (१-३-५०) इति व्यक्तवाचां समुच्चारणेऽपि वदते- स्तङ्विकल्पः।]]
11 [[४। ‘अनोरकर्मकात्’ (१-३-४९) इति तङ्। एतदपि व्यक्तवाग्विषयकमेव।]]
12 [[५। ‘व्यक्तवाचां समुच्चारणे’ (१-३-४८) इति तङ्। व्यक्तवाचो मनुष्याः। तेन ‘वरतनु संप्रवदन्ति कुक्कुटाः’ इत्यत्र न तङ्।]]
13 [[६। ‘अभिवादिदृशोः--’ (वा। १-४-५३) इति वचनात् आत्मनेपदे प्रयोज्यस्य पाक्षिकं कर्मत्वम्।]]
14 [[७। ‘न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवद-’ (१-३-८९) इति परस्मैपदनिषेधः। ‘अणावकर्मकात्--’ (१-३-८८) इत्यस्यापवादोऽयम्।]]
15 [[८। निष्ठायाम्, ‘वचिस्वपियजादीनाम्-’ (६-१-१५) इति सम्प्रसारणम्। तेन पूर्वरूपम्।]]
16 [[B। ‘सकलैः सकलैः परितः करुणैरुदितैः रुदितैरिव खं निचितम्।।’ भ। का। १०। ४।]]
17 [पृष्ठम्११९१+ २९]
18 [[१। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति नञि उपपदे ग्रह्यादित्वात् कर्तरि णिनिः।]]
19 [[२। ‘चरिचलिपतिवदीनां द्वित्वम् अचि आक् च अभ्यासस्य’ (वा। ६-१-१२) इति वचनेन पचाद्यचि द्वित्वम्, अभ्यासस्य आक् च भवतः।]]
20 [[३। ‘कुर्वादिभ्यो ण्यः’ (४-१-१५१) इत्यत्र वावदूकशब्दपाठात् वदतेरपि यङन्तात् ऊकप्रत्ययः इति माधवाचार्याः। एवं प्रवावदूकादयोऽपि शब्दा बोध्याः।]]
21 [[४। पचाद्यचि ‘रथवदयोश्च’ (६-३-१०२) इति वदशब्दे परे कोः कत् आदेशः।]]
22 [[आ। ‘येन जातं प्रियापाये कद्वदं हंसकोकिलम्।’ भ। का। ६-७६।]]
23 [[५। अताच्छील्येऽपि ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
24 [[६। ‘सुप्यजातौ णिनिः--’ (३-२-७८) इति णिनिः। तद्धर्मेऽयं प्रत्ययः। ‘सप्तभिः परिवादिनी’ इति वीणाविशेषः।]]
25 [[७। ‘प्रियवशे वदः खच्’ (३-२-३८) इति खच्। खित्त्वात् मुम्।]]
26 [[B। ‘अनुका प्रार्थयांचक्रे प्रियाकर्तु प्रियंवदा।’ भ। का। ४-१९।]]
27 [[C। ‘सौमित्रे मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम्।’ भ। का। ४। २०।]]
28 [[८। तच्छीलादिषु कर्तृषु ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।]]
29 [[९। ‘ब्रह्मणि वदः’ (वा। ३-२-७८) इति णिनिप्रत्ययः। अताच्छीलिकोऽयम्।]]
30 [[१०। तच्छीलादिषु कर्तृषु ‘निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि--’ (३-२-१४६) इत्यादिना वुञ्प्रत्ययः।]]
31 [[११। गर्ह्यमित्यर्थे ‘अवद्यपण्यवर्याः--’ (३-१-१०१) इत्यनेन वदतेर्नञ्युपपदे यत् निपात्यते। अन्यत्र अनुद्यम् इत्येव। अत्र नञ्युपपदे वदतेः क्यप्। कित्त्वात् सम्प्रसारणम्।]]
32 [[१२। ‘वदः सुपि क्यप् च’ (३-१-१०६) इति अनुपसर्गे सुपि उपपदे क्यव्विकल्पः। पक्षे यत्। क्यपि ब्रह्मोद्यम्। यति ब्रह्मवद्यम्।]]
33 [[१३। अत्र ‘राजसूयसूर्यमृषोद्य--’ (३-१-११४) इति निपातनात् नित्यं क्यप्।]]
34 [[ड्। ‘अनृतोद्यं न तत्रास्ति सत्यवद्यं ब्रवीम्यहम्।’ भ। का। ६-५५।]]
35 [पृष्ठम्११९२+ २५]
36 [[१। ‘वदः सुपि--’ (३-१-१०६) इत्यत्र ‘सुपि’ इत्युक्तत्वात् सोपसर्गात्, निरुपसृष्टाच्च ण्यदेव। तेन वाद्यम्, प्रवाद्यम् इति सिद्ध्यतः।]]
37 [[२। स्त्रियां क्तिनि ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति वचनादिटि उदिति। क्षीरस्वामी तु उत्तिः इतीडागमाभावपक्षे मुख्यं रूपं साधयित्वा ‘इडपीष्यते उदितिः’ इत्याह।]]
38 [[३। ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति सेटः क्त्वायाः कित्त्वात् सम्प्रसारणम्।]]
39 [[आ। ‘उदित्वाऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता।।’ भ। का। ७। ८६।]]
40 [[४। ‘अच्छ गत्यर्थवदेषु’ (१-४-६९) इति अच्छशब्दस्य गतिसंज्ञा। तेन ‘कुगतिप्रादयः’ (२-२-१८) इति समासे ल्यप्। कित्त्वात् प्रसारणम्।]]
41 [[५। ‘वसिवपिवदि--’ [द। उ। १-५३]
42 [[६। ‘वदेरान्यः’ [द। उ। ८-९]
43 [[B। ‘वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेः…।’ प्रतापरुद्रीयं, ना। प्र। १६। श्लो।]]
44 [[७। ‘भूवादि--’ [द। उ। ८-९१]
45 [[८। ‘वृतॄवदि--’ [द। उ। ९-२१]
46 (७-२-९)
47 [पृष्ठम्११९३+ २५]
1 {@“वद सन्देशवचने”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘--भाषणे’ इति हेमचन्द्र-जैन-कातन्त्रादयः।
‘--वाक्सन्देशयोः’ इति वोपदेवः।
‘-- वचने च’ इति द्रुमे इति धा।
का।
3।
‘व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत्।’ 4 इति देवः।
अयं धातुः आत्मनेपदी इति शाकटायनः इति मा।
धा।
वृत्तिः।
वादकः-दिका, विवादयिषकः-षिका
वादकः-दिका, विवदिषकः-षिका, वावदकः-दिका
वादयिता-त्री, विवादयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तात् सननन्तं विना पूर्वलिखितभौवादिकवदतिवत् 5 ऊह्यानि।
ण्यन्तात् सन्नन्ते इमानि रूपाणीति ज्ञेयम् -- विवादयिषिता-त्री, विवादयिषन्-न्ती, विवादयिषिष्यन्-न्ती-ती, विवा- दयिषमाणः, विवादयिषिष्यमाणः, विवादयिट्-यिषौ-यिषः
विवादयिषितम्-तः- तवान्
विवादयिषुः, विवादयिषितव्यम्, विवादयिषणीयम्, विवादयिष्यम्, ईषद्विवादयिषः-दुर्विवादयिषः-सुविवादयिषः
विवादयिष्यमाणः, विवादयिषः, विवादयिषितुम्, विवादयिषा, विवादयिषणम्, विवादयिषित्वा, प्रविवादयिष्य, विवादयिषम् २, विवादयिषित्वा २ इति।
01 (१५४८)
02 (१०-चुरादिः-१८४२। सक। सेट्। उभ।)
03 (३-५१)
04 (श्लो। १०९)
05 (१५४७)
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
