| YouTube Channel

वत्सरः (vatsaraH)

 
Apte
English
वत्सरः [vatsarḥ], [वस्-सरन्
Uṇ.*
3.71]
A year
दातास्याः स्वर्ग- माप्नोति वत्सरान् रोमसंमितान्
Y.*
1.25.
N.
of Viṣṇu.Comp. -अन्तकः the month, Phālguna. -आदिः the month of Mārgaśīrṣa
cf.
मासानां मार्गशीर्षो$हम्. -ऋणम् a debt to be paid by the end of a year.
Apte 1890
English
वत्सरः [वस्-सरन् Uṇ. 3. 71] 1 A year
Y. 1. 205.
2 N. of Viṣṇu.
Comp.
अंतकः the month Phālguna.
आदिः the month of Mārgaśīrṣa.
ऋणं a debt to be paid by the end of a year.
Apte Hindi
Hindi
वत्सरः
पुं*
- वस् + सरन्
वर्ष
वत्सरः
पुं*
- -
विष्णु का नाम
Wordnet
Sanskrit
Synonyms:
वत्सरः, वर्षः, संवत्सरः, परिवत्सरः, अब्दः, समा, समाः, संवद्, हायनः, वरिषम्, कालग्रन्थिः, ऋतुवृत्तिः, मासमानः, युगांशकः, शरद्, शरदा
noun
सर्वेषाम् ऋतुनां परिवर्तः द्वादश-मासयुक्तः युगस्य अंशभूतः कालः।
"अग्रिमे वत्सरे भारते वैश्विक-क्रीडा-महोत्सवः भविष्यति।"
Tamil
Tamil
வத்ஸர: : ஆண்டு, வருடம்.
अमरकोशः
Sanskrit
Word: वत्सरः
Root: वत्सरः
Gender: undefined
Number: undefined
Meaning(s):
year
cloud
giving water
coco-grass [Cyperus Rotundus - Bot.]
Shloka(s):
3|3|88|3 अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥ (नानार्थवर्गः)
3|3|93|1 धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्। (नानार्थवर्गः)
3|3|225|1 स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्। (नानार्थवर्गः)
Synonym(s):
3|3|88|3 अब्दः (अब्द) (पुं) year, cloud, giving water, coco-grass [Cyperus Rotundus - Bot.]
3|3|93|1 शरत् (शरद्) (स्त्री)
3|3|225|1 वर्षः (वर्ष) (पुं) day, cloud, rains, shower, division of the earth as separated off by certain mountain ranges [e.g. bhAratavarSa]
3|3|225|1 वर्षम् (वर्ष) (नपुं) day, cloud, rains, shower, division of the earth as separated off by certain mountain ranges [e.g. bhAratavarSa]
Related word(s):
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
वत्सरः,
पुं,
(वसन्त्यस्मिन् अयनर्त्तुमासपक्षवारा-दय इति वस निवासे + “वसेश्च ।” उणा०३ ७१ इति सरन् “सः स्यार्द्धधातुके ।”७ ४९ इति सस्य तः ।) द्वादशमासा-त्मककालः अयनद्बयात्मकश्च तत्पर्य्यायः ।संवत्सरः अब्दः हायनः शरत् समा६ इत्यमरः २०
शरदा वर्षम्८ वरिषम् संवत् १० इति शब्दरत्नावली
*
“व्रतबन्धविवाहे वत्सरपरिकल्पनमाहुरा-चार्य्याः ।आधानपूर्व्वमेके प्रसूतिपूर्व्वं सदान्ये तु
”सौरसावननाक्षत्रचान्द्रभेदेन चतुर्व्विधो वत्सरः ।यथा चूडोपनयनादिषु वर्षगणना सावनेनशुभाशुभगणनन्तु सौरेणेति सिद्धम् सावनसंवत्-सरेण एकदिनाधिकवत्सरो नाक्षत्रो भवती-त्यनयोर्भेदः सौरस्तु पञ्चषष्ट्यधिकत्रिशत-दिनैर्भवति यथा, --“मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् १८७ ।तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत्ततः
१७८
चान्द्रवत्सरोऽपि द्बादशमासैर्भवति मलमास-पाते तु त्रयोदशमासैर्भवति तथा श्रुतिः ।द्वादशमासाः संवत्सरः क्वचित्त्रयोदशमासाःमंवत्सर इति त्रयोदशेत्यधिमासे स्मृतिः ।यस्मिन्नब्दे द्बादशैकश्च यव्य इति यव्यो मासइति यव्या मासाः स्वमेकः संवत्सर इतिशतपथश्रुत्या यव्य-स्वमेक-शब्दयोर्मासवर्षपर्य्याय-तोक्ता इति मलमासतत्त्वम्
*
अथ षष्टिसंव-त्सरगणना ।“शकेन्द्रकालः पृथगाकृति-२२ घ्नःशशाङ्कनन्दाश्वियुगैः ४०९१ समेतः ।शराद्रिवस्विन्दु-१८७५ हृतः सलब्घःषष्ट्यावशिष्टाः प्रभवादयोऽब्दाः
वर्षवर्जन्तु यच्छेषं सूर्य्यैः संपूर्य्य खोर्म्मिभिः ६० ।हृतव्युत्क्रमतः खाग्निहृतेऽंशे मासकादयः
”अस्यार्थः शकेन्द्रकालः शकराजाब्दकालः ।पृथक् आकृतिघ्नः २२ द्बाविंशत्या पूरितः ।शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्बयाधिक-चतुःसहस्रैः समेतोऽङ्कः शराद्रिवस्विन्दुहृतःपञ्चसप्तत्यधिकाष्टादशशतैर्यावत्संख्यं हर्त्तुंशक्रोति तावता हृतः कर्त्तव्यः सलब्धः पूर्व्व-शकाब्दः शरेत्यादिना लब्धसंख्यया युतःकार्य्यः षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्व्ववत्षष्ट्याहृतलब्धस्यावशिष्टे प्रभवादयः एकाव-शेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः वर्ष-वर्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृता-वशिष्टं तत् सूर्य्यैर्द्बादशभिः संपूर्य्य खोर्म्मिभिःषष्ट्या हृते व्युत्क्रमत इत्यनेन षष्टिहृताव-शिष्टा अङ्का दण्डाः षष्टिहृतलब्धांशके खाग्नि-हृते त्रिशता हृतेऽवशिष्टा अंशका लब्धामासाः स्युरिति प्रभवादिवर्षाण्युपक्रम्य ।“आद्या तु विंशतिर्ब्राह्मी द्बितीया वैष्णवीस्मृता ।तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्
”भविष्यपुराणे ।भैरव उवाच ।“षष्ट्यब्दं कथयाम्यत्र क्रूराः सौम्याश्च ये प्रिये ! ।संवत्सरफलं मुख्यं प्रभवादौ वरानने !
बहुतोयास्तथा मेघा बहुशस्या मेदिनी ।बहुक्षीरास्तथा गावो व्याधिरोगविवर्ज्जिताः
प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिताः ।सुभिक्षं क्षेममारोग्यं सर्व्वे व्याधिविवर्ज्जिताः
प्रशान्ता मानवास्तत्र बहुशस्या बसुन्धरा ।हृष्टास्तुष्टा जनाः सर्व्वे विभवे वरानने !
रोगा बहुविधाश्चैव मनुष्या वाजिकुञ्जराः ।सर्व्व एव प्रणश्यन्ति शुक्रे वर्षे वरानने !
उन्मत्तञ्च जगत् सर्व्वं धनधान्यसमाकुलम् ।नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये
नीरोगाश्च निरावाधा मानवा विगतद्बिषः ।बहुक्षीरास्तथा गावः प्राजापत्ये वरानने
निरातङ्कं जगत् सर्व्वं धनयौवनगर्वितम् ।अङ्गिरसि प्रजाः सर्व्वा नित्योत्साहा वरानने
सुभिक्षं क्षेममारोग्यं वर्षाकालं सुशोभनम् ।शस्यवृद्धिं विजानीयात् श्रीमुखे सुरवन्दिते
बहुक्षीरास्तथा गावो धान्यञ्च बलवत्तरम् ।जायन्ते सर्व्वशस्यानि भावे वर्षे वरानने
महार्घं जायते सर्व्वं घृततैलरसादिकम् ।प्रजानाञ्च भवेद्वृद्धिर्यूनि संवत्सरे शुभे
निष्पत्तिः सर्व्वशस्यानां मध्या धातरि कीर्त्तिता ।इक्षुक्षीरगुडादीनां प्रवलत्वं वरानने
१०
सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता ।लवणं मधु गव्यञ्च ईश्वरे दुर्लभं प्रिये
११
सुभिक्षं क्षेममारोग्यं प्रशान्ताः पार्थिवाः प्रिये ।तस्करोपहतं वित्तं बहुधान्ये वरानने
१२
राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैश्चोपपीडनम् ।जानीयाद्विग्रहं घोरं प्रमाथिनि वरानने
१३
जायन्ते सर्व्वशस्यानि मेदिनी निरुपद्रवा ।लवणं मधु गव्यञ्च महार्घं विक्रमे प्रिये
१४
कोद्रवाः शालिमुद्गाश्च शक्तुमाषास्तथैव ।महार्घं जायते सर्व्वं वृषे सुरवन्दिते
१५
चणका मुद्गमाषाश्च अन्यच्च विदलं प्रिये ।महार्घं जायते सर्व्वं चित्रभानौ वरानमे
१६
सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् ।व्यवहारो भवेत् हृष्टः स्वर्भानौ देवपूजिते
१७
अतिवृष्टिश्च जायेत ध्यान्यस्याथ प्रपीडनम् ।शस्यं भवति मामान्यं दारुणे सुरवन्दिते
१८
बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने ।सौराष्ट्रे नाटदेशे पार्थिवे नात्र संशयः
१९
दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् ।अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये
२०
उद्यतो वर्षणे मेघो जलं नैवोपजायते ।महार्घं सर्व्वजिद्वर्षे सर्व्वमेव वरानने
२१
कोद्रवाः शालिमुद्गाश्च कङ्गुमाषास्तथैव ।सुलभं जायते सुस्थं जगद्वै सर्व्वधारिणि
२२
अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् ।जायते मानुषे कष्टं विरोधिनि संशयः
२३
सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते ।शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृतेजनाः
२४
उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः ।पीडिताश्च प्रजाः सर्व्वा देशभङ्गाः खरे ।प्रिये
२५
सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् ।बहुक्षीरास्तथा गावो नन्दनं नन्दने प्रिये
२६
अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्डले ।नश्यन्ति सर्व्वशस्यानि विजये नात्र संशयः
२७
क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः ।पीडितास्ते वरारोहे जये सर्व्वे संशयः
२८
सरोगञ्च तथा देवि दाहज्वरसमन्वितम् ।अभिभूतं जगत् सर्व्वं मन्मथे सुरवन्दिते
२९
तुषधान्यक्षयो देवि सर्व्वशस्यमहार्घता ।व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः
३०
पीड्यभ्ते सर्व्वशस्यानि देशे देशे शुचिस्मिते ।हेमलखे प्रजाः सर्व्वाः क्षीयन्ते नात्र संशयः
३१
तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् ।अर्घो भवति सामान्यो विलम्बे तु भयं महत्
३२
विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् ।विकारी सर्व्वतोऽपायो मम वाक्यन्तुनान्यथा
३३
क्वचिद्वर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः ।दुर्भिक्षं शर्व्वरीवर्षे व्यवहारो विपर्य्ययः
३४
दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ।प्लवे प्लवन्ति तोयानि पीडिता मानवाभुवि
३५
सुवर्णरूप्यधान्यानि जगत् सर्व्वं सुशोभनम् ।ब्राह्मणा बणिजस्तुष्टाः सुभिक्षे शुभकृत्प्रिये
३६
सुभिक्षं क्षेममारोग्यं तृप्ता गोब्राह्मणाः प्रिये ।सुस्थिताः शोभने वर्षे प्रजाः सर्व्वाः सुलो-चने
३७
विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् ।जनानां जायते भद्रे क्रोधे क्रोधः परस्परम्
३८
सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता ।विश्वावसौ वरारोहे कार्पासस्य महार्घता
३९
पार्थिवैर्नृपसैन्यैश्च समस्तैः खण्डमण्डले ।प्रपीड्यन्ते जनाः सर्व्वे भयभीताः पराभवे
४०
तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः ।प्लवङ्गे पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते
४१
जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।सौम्यदृष्टिर्भवेद्राजा कालिके शुभं वदेत्
४२
सुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् ।सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकी-र्त्तितम्
४३
तोयपूर्णो भवेन्मेघो वर्षते दिने दिने ।निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये
४४
वासवो वर्षते देवि देशे चाखण्डमण्डले ।अहिच्छत्रे कान्यकुब्जे विरोधी कृषिनाश-कृत्
४५
अभिभूतं जगत् सर्व्वं क्लेशैर्व्वहुविधैः प्रिये ।मारुतैः फलदाहैश्च परिवारिणि शोभने
४६
निष्पत्तिः सर्व्वशस्यानां सुभिक्षं भवति प्रिये ।प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा
४७
निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यमहार्घता ।घृतं तैलसमं याति आनन्दे नन्दति प्रजा
४८
कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्णिनि ।सर्व्वौषधानि धान्यानि राक्षसे निष्ठुराःप्रजाः
४९
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।अनले समाख्यातं नात्र कार्य्या विचा-रणा
५०
देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् ।पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्मदातटे
५१
गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः ।वासवो वर्षते देवि शस्यञ्च नहि जायते
तिलसर्षपमाषादिकार्पासानां महार्घता ।गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः
तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ।तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्द्दिनम् ।पार्थिवा मोषका दीनाः कालयुक्ते प्रपी-डिताः
५२
तोयपूर्णाः स्मृता मेधा बहुशस्या मेदिनी ।निष्ठुराः पार्थिवा देवि ! सिद्धार्थे वरा-नने !
५३
अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः ।विरुद्धाः पार्थिवा देवि रौद्रे संवत्सरे प्रिये !
५४
दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो वर्त्तते ।भवेद्बै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते
५५
सुभिक्षं जायते लोकः सर्व्वोपद्रववर्ज्जितः ।प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि
५६
महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः ।तत् सर्व्वं देवि ! विक्रीय कर्त्तव्यो धान्यसञ्चयः
रक्ते संवत्सरे देवि ! क्रूरबुद्धिर्नराधिपः ।मानवाः क्रूरचेष्टाश्च संग्रामे जयो भवेत्
५७दुर्भिक्षं मरणं रोगो धान्यौषधिप्रपीडनम् ।पापरोगो भवेद्देवि ! रक्ताक्षेऽमरवन्दिते
५८
रोगो मरणदुर्भिक्षं विरोधो बहुसंकुलः ।क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये !
५९मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् ।देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये !
कौमुदीचर्म्मनद्योश्च यमुनानर्म्मदातटे ।विन्ध्यायां सैन्धवे चापि विनश्यति संशयः
सिंहलं मध्यदेशश्च कालञ्जरं तथैव ।क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि
”६०
*
कार्त्तिकादिद्बादशवर्षाणि यथा वराहसंहि-तायाम् ।“नक्षत्रेण सहोदयमस्तं वा येन याति सुर-राजमन्त्री
”तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव
वर्षाणि कार्त्तिकादीनि आग्नेयाद्भद्वयानु-योगीनि ।क्रमशस्त्रिभञ्च पञ्चममन्त्यमुपान्त्यञ्च विज्ञेयम्
”नक्षत्रेण गुरुभुज्यमाननक्षत्रेण आग्नेयंकृत्तिका पञ्चमं फाल्गुनं वर्षम् अन्त्य-माश्विनम् उपान्त्यं भाद्रम् ।“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभोमतः ।शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया
द्वे द्वे चित्रादिताराणां पूर्णपर्व्वेन्दुसङ्गते ।मासाश्चैत्रादयो ज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः
”इति सङ्कर्षणकाण्डाच्च
पूर्णपर्व्वेन्दुसङ्गते पौर्णमासीयुते द्वे द्बे तारेतदेकवाक्यतया पूर्व्ववचने पौर्णमासीलाभः ।यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात्कार्त्तिकादित्वं तथा वर्षाणामपि गुरोः कृत्ति-कादावस्तोदयसम्बन्धात् कार्त्तिकादित्वं तेनकृत्तिकारोहिण्योरेकतरस्मिन् गुरोरस्तोदये-ऽन्यतरलाभे कार्त्तिकं वर्षम् एवं मार्ग-शीर्षादि अत्र वर्षद्वयघटकयोर्नक्षत्रयोरेक-तरस्मिन् अस्तं गतो गुरुरन्यतरस्मिन्नुदेति तत्रका गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षंततः पौषमित्यादिक्रमाद्गतिरिति फलानि ।“शकटानलोपजीविकगोपीडाव्याधिशोकश्च ।वृद्धिस्तु रक्तपीतकुसुमानां कार्त्तिके वर्षे
सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च शस्य-नाशः ।व्याधिभयं मित्रैरपि भूपानां जायते वैरम्
शुभकृज्जातः पौषो निवृत्तवैराः परस्परंभूपाः ।द्वित्रिगुणो धान्यार्घः पौष्टिककर्म्मप्रसिद्धिश्च
पितृपूजा परिवृद्धिर्म्माघे हार्द्दञ्च सर्व्वभूता-नाम् ।आरोग्यवृष्टिधान्यार्घसम्पदो वित्तलाभश्च
फाल्गुने वर्षे विद्यात् क्वचित् क्वचित् क्षेम-वृष्ट्यादिशस्यानि ।दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः
५चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपामृदवः ।वृद्धिश्च कोषधान्यस्य भवति पीडा रूप-वताम्
वैशाखे धर्म्मपरा विगतभयाः प्रमुदिताः प्रजाःसनृपाः ।यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्व्वशस्यानाम्
ज्यैष्ठे ज्ञातिकुलधर्म्मश्रेणीश्रेष्ठा नृपाः सर्व्व-धर्म्मज्ञाः ।पीड्यन्ते धान्यानि हित्वा कङ्गुशमीजानि
८आषाढे जायन्ते शस्यानि क्वचिद्वृष्टिरन्यत्र ।योगक्षेमं मध्यं शस्यव्यग्रा भवन्ति भूपाः
श्रावणे वर्षे क्षेमं कामं शस्यानि पाकमुप-यान्ति ।क्षुद्रा ये पार्थिवास्ते पीड्यन्ते ये तद्भक्ताः
१०
भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्व्वशस्यञ्च ।न भवत्यपरं शस्यं क्वचित् सुभिक्षं क्वचिच्चदुर्भिक्षम्
११
आश्वयुजेऽप्यजस्रं पतति जलं प्रमुदिताः प्रजाःक्षेमम् ।प्राणचयः प्राणभृतां सर्व्वेषामर्थवाहुल्यम्
”१२
इति ज्योतिस्तत्त्वम्
*
समाद्यादिपञ्चवत्सरा यथा, --“शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्-सराः ।सम्परीदानुपूर्व्वाश्च तथोदापूर्व्वका मताः
”संवत्सरादिफलमुक्तं विष्णुधर्म्मोत्तरे
“संवत्सरे तथा दानं तिलस्य तु महाफलम् ।परिपूर्व्वे तथा दानं यवानाञ्च द्बिजोत्तमाः
इदापूर्व्वेऽन्नवस्त्राणां धान्यानाञ्चानुपूर्व्वके ।उदासंवत्सरे दानं रजतस्य महाफलम्
ज्जोतिर्व्विदस्त्विज्यमध्यात् प्रभवादेश्च सम्भवम् ।ऊचुस्तद्बत् समाद्यादिवर्षाणामपि सम्भवम्
”इज्यमध्यात् गुरुमध्यभोगगणनात् प्रभवादेः ।प्रभवादिवर्षषष्टेः इति मलमासतत्त्वम्
*
(ध्रुवपुत्त्रः यथा, भागवते १० ।“प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ
”)