| YouTube Channel

वत्सनाभः (vatsanAbhaH)

 
Apte Hindi
Hindi
वत्सनाभः
पुं*
वत्सः-नाभः -
एक वृक्ष का नाम
वत्सनाभः
पुं*
वत्सः-नाभः -
एक प्रकार अत्यंत कठोर विष
Wordnet
Sanskrit
Synonyms:
वत्सनाभः, विषम्, उग्रम्, महौषधम्, गरलम्, मारणम्, स्तौङ्ककम्
noun
विषवृक्षविशेषः।
"वत्सनाभस्य मूलेभ्यः विषं प्राप्यते।"
Synonyms:
वत्सनाभः, अमृतम्, विषम्, उग्रम्, महौषधम्, गरलम्, मारणम्, नागः, स्तौकृंकम्, प्राणहारकम्, स्थावरादि
noun
विषवृक्षविशेषः।
"वत्सनाभः मधुरः अस्ति।"
Synonyms:
विषम्, गरम्, गरः, गरलम्, गरदम्, भूगरम्, जीवनाघातम्, जङ्गुलम्, जाङ्गुलम्, हलागलम्, हलाहलः, हालाहालम्, पालहलम्, हलहलम्, हाहलम्, हाहलः, कालकूटम्, कालकूटः, कलाकुलम्, काकोलम्, काकोलः, सौराष्ट्रिकम्, दारदः, प्रदीपनः, ब्रह्मपुत्रः, शौक्तिकेयः, वत्सनाभः, धूलकम्, निदः, क्ष्येडः
noun
सः पदार्थः यस्य प्राशनेन जीवः व्याकुलो भवति म्रियते वा।
"समुद्रमन्थनात् प्राप्तं विषं शिवेन पीतम्।"
Synonyms:
वत्सनाभः
noun
एकः ककुब्भण्डः
"वत्सनाभस्य उल्लेखः हरिवंशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
वत्सनाभः
पुं,
(वत्सान् नभ्यति हिनस्तीति ।नभ हिंसायाम् + “कर्म्मण्यण् ।” ।इत्यण् ।) विषवृक्षविशेषः इत्यमरः ११
तु स्थावरविषभेदः प्रायो वत्सान् नभ्यतिहिनस्ति वत्सनाभः णभ्य हिंसे ढात् षन्नितिषन् वत्सस्य नाभिरिव वत्सनाभः ष्णः अनित-श्चेति वृद्धिः अयं सिन्धुवारपत्रसदृशपत्रः ।इति भारतः
*
(यथा, हरिवंशे २२३ ।६५ ।“वरुणा वत्सनाभाश्च पनसाश्चन्दनैः सह
)तत्पर्य्यायः अमृतम् विषम् उग्रम् ४महौषधम् गरलम् मारणम् नागः ८स्तौककम् प्राणहारकम् १० स्थावरादि ११ ।अस्य गुणाः अतिमधुरत्वम् उष्णत्वम् ।वातकफकण्ठरुक्सन्निवातनाशित्वम् पित्त-सन्तापकारकत्वञ्च इति राजनिर्घण्टः
*
अस्य स्वरूपनिरूपणं यथा ।“सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ।यत्पार्श्वेन तरोर्वृद्धिर्व्वत्सनाभः भाषितः
”तस्य सामान्यगुणा यथा ।“विषं प्राणहरं प्रोक्तं व्यवायि विकासि ।आग्नेर्य वातकफहृद्योगवाहि मदावहम्
”व्यवायि सकलकायव्यापनपूर्व्वकपाकगमनशीलम् ।बिकासि ओजःशोषणपूर्व्वकं सन्धिबन्धशिथिली-करणशीलम् आग्नेयं अधिकाग्न्यंशम् योग-वाहि संसर्गगुणग्राहकम् मदावहं तमो-गुणाधिक्येन बुद्धिविध्वंसकम् ।“तदेव युक्तियुक्तं तु प्राणदायि रसायनम्
योगवाहि तरिदोषघ्नं वृं हणं वीर्य्यवर्द्धनम्
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् ।तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत्
”इति भावप्रकाशः
(क्लीवेऽपि दृश्यते यथा, --“चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ।”“ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता
”इति सुश्रुते कल्पस्थाने द्वितीयेऽध्याये
)