| YouTube Channel

वण्डयिता-त्री (vaNDayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वटि विभाजने”@} 2 इदित्त्वात् णिज्विकल्पः।
क्षीरस्वामी ‘वडि--’ इति पठित्वा ‘टान्त इत्येके’ इत्युक्तवान्।
3 भ्वादौ ‘वटि विभाजने’ इत्यत्र ‘चुरादौ 4 वण्टयति’ इति क्षीरस्वामिना उक्तत्वात् ‘वटि’ इति प्रथमान्तमेवेति तस्याभिप्रायो ज्ञायते।
‘वडीति शाकटायनः’ इति।
मा।
धा।
वृत्तौ।
‘वण्टयेद् वण्टतीत्येते णिशपोः स्तां विभाजने।’ 5 इति देवः।
‘वण्टापयेत् इति तु शाकटायनः’ इति पुरुषकारः।
वण्टकः-ण्टिका, विवण्टयिषकः-षिका, वण्टकः-ण्टिका, विवण्टिषकः-षिका, वावण्टकः-ण्टिका
वण्टयिता-त्री, विवण्टयिषिता-त्री, वण्टिता-त्री, विवण्टिषिता-त्री, वावण्टिता-त्री
वण्टयन्-न्ती, विवण्टयिषन्-न्ती, वण्टन्-न्ती, विवण्टिषन्-न्ती
इत्यादिकानि रूपाणि सर्वाणि ण्यन्तात् सन्नन्तं विना भौवादिककण्ठतिवत् 6 ज्ञेयानि।
ण्यन्तात् सनि तु सर्वाणि रूपाणि चौरादिकशोकार्थककण्ठ- यतिवत् 7 बोध्यानि।
तृतीयान्तमिति 8 पक्षे वण्डकः, विवण्डयिषकः
वण्डयिता-त्री, विवण्डयिषिता-त्री
इत्येवमूह्यम्।
प्रासङ्गिक्यः
01
=>
(१५४२)
02
=>
(१०-चुरादिः-१५८६। सक। सेट्। उभ।)
03
=>
[[१। क्षीरतरङ्गिण्यां भ्वादौ ‘वटि विभाजने’ इति दृश्यते। अन्यत्र कोशेषु भ्वादौ दृश्यते।]]
04
=>
(१०-४३)
05
=>
(श्लो। ७७)
06
=>
(१४९)
07
=>
(१५०)
08
=>
(वडि)
1 {@“वडि विभाजने”@} 2 ‘विभाजनम् = भागीकरणम्, चर्माभावश्च।
‘चुरादौ 3 इत्येवमेव।]] वण्डयति’ इति क्षीरस्वामी।
चर्माभावो नाम शिपिविष्टता 4--वागीशः।
‘-- वेष्टने’ इति मैत्रेयः।
“नन्दी तु वटि विभाजने, वडि वेष्टने इति भङ्ग्या पठति” इति क्षीरस्वामिवचनमिहानुसन्धेयम्।
“काशकृत्स्न- धातुपाठकन्नडटीकायां ‘वडि वेष्टने’ इति पाठः।
वाहीक 5 देशीय- भाषायां विभाजनार्थिका ‘वण्डना’ क्रिया प्रयुज्यते।
तेन ‘विभाजने’ इत्यप्यर्थः प्रामाणिक एव” इति तत्र टिप्पन्यामुक्तं युधिष्ठिरमीमांसकेन।
वण्डकः-ण्डिका, वण्डकः-ण्डिका, विवण्डिषकः-षिका, वावण्डकः-ण्डिका
वण्डिता-त्री, वण्डयिता-त्री, विवण्डिषिता-त्री, वावण्डिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककम्पतिवत् 6 ज्ञेयानि।
धा।
का।
व्याख्यायाम् 7 ‘वेष्टनेऽपीत्येके’ इत्युक्तम्।
प्रासङ्गिक्यः
01
=>
(१५४५)
02
=>
(१-भ्वादिः-२७१। सक। सेट्। आत्म।)
03
=>
[[१। ‘वडि विभाजने’ इति (चुरादौ) पठित्वा, ‘टान्त इत्येके’ इति क्षीरतरङ्गिण्यां दृश्यते। शाकटायनस्तु [वडि]
04
=>
(द्विनग्नता)
05
=>
(पञ्जाब्)
06
=>
(१६६)
07
=>
(१-३६)