| YouTube Channel

वडवासुतौ (vaDavAsutau)

 
अभिधानचिन्तामणिः
Sanskrit
--source--
स्वर्वैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ १८१
नासिक्यावर्कजौ दस्रौ नासत्यावब्धिजौ यमौ
-wordlist-
स्वर्वैद्यौ (पुंद्वि), अश्विनीपुत्रौ (पुंद्वि), अश्विनौ (पुंद्वि), वडवासुतौ (पुंद्वि), नासिक्यौ (पुंद्वि), अर्कजौ (पुंद्वि), दस्रौ (पुंद्वि), नासत्यौ (पुंद्वि), अब्धिजौ (पुंद्वि), यमौ (पुंद्वि)
शब्दकल्पद्रुमः
Sanskrit
ब(व)डवासुतौ,
पुं,
(बडवाया घोटकीरूपायाः त्वष्टृ-सुतायाः संज्ञायाः सुतौ ।) अश्विनीकुमारौ ।यथा, हेमचन्द्रः ।“स्वर्वैद्यावश्विनीपुत्त्रावश्विनौ बडवासुतौ
”(तयोरुत्पत्तिकथा यथा, हरिवंशे ४९ -- ५३ ।“गच्छ देव ! निजां भार्य्यां कुरूंश्चरति सोत्त-रान् ।बडवारूपमास्थाय वने चरति शाद्वले
तथा रूपमस्थाय स्वभार्य्यारूपलीलया ।ददर्श योगमास्थाय स्वां भार्य्यां बडवां ततः
अधृष्यां सर्व्वभूतानां तपसा नियमेन ।बडवावपुषा राजंश्चरन्तीमकुतोभयाम्
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत्
मैथुनाय विचेष्टन्ती परपूरुषशङ्कया ।सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति
”)