| YouTube Channel

वठि (vaThi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वण्ठ्
मूलधातुः:
वठि
धात्वर्थः:
एकचर्यायाम्
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वण्ठते
धातुप्रदीपः
Sanskrit
वठिँ वठि एकचर्य्यायाम्
- वण्ठते वण्ठः ।। 259 ।।
क्षीरतरङ्गिणी
Sanskrit
वठिँ वठि एकचर्यायाम्
- (अर्थविवरणम्) एकस्य चर्या सहायत्वेनागमनम्
वण्ठते वण्ठो दत्तद्रव्यो योद्धा 255
धातुवृत्तिः
Sanskrit
वठिँ वठि (अर्थः) एकचर्यायाम्
(अर्थविवरणम्) एकचर्या सहायगमनम्
( वण्ठते ववण्ठे विवण्ठिषते वावण्ठीति वावण्टि ) ष्टुत्वम् चर्त्वम् लोटि हेर्द्धित्वे ष्टुत्त्वे जश्त्वे ( वावण्डि ) लङि अवावन् ( वण्ठयति अववण्ठत् ) अयमनिदित् स्थौल्यार्थः परस्मैपदिषु 159
कृदन्तरूपमाला
Sanskrit
1 {@“वठि एकचर्यायाम्”@} 2 ‘वण्ठते त्वेकचर्यायां स्थौल्ये शपि वठेदिति।’ 3 इति देवः।
‘एकस्य चर्या = एकचर्या = सहायत्वेनागमनम्’ इति क्षीरतरङ्गिण्याम्।
‘-- असहायगमनम्’ इति धा।
का।
व्याख्यायाम् 4।
बालमनो- रमायामपि एवमेव।
5 वण्ठकः-ण्ठिका, वण्ठकः-ण्ठिका, विवण्ठिषकः-षिका, वावण्ठकः-ण्ठिका
वण्ठिता-त्री, वण्ठयिता-त्री, विवण्ठिषिता-त्री, वावण्ठिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककण्ठतिवत् 6 ऊह्यानि।
घञि वण्ठः = ‘वण्ठरण्डाकल्पः’ इति महाभाष्यं 7 ‘--मृतभार्य’ इति नागोजिभट्टो व्याचख्यौ।
‘-- दत्तद्रव्यो योद्धा’ इति क्षीरस्वामी।
क्विपि-प्रवन्-प्रवण्ठौ-प्रवण्ठः इति।
प्रासङ्गिक्यः
01
=>
(१५४४)
02
=>
(१-भ्वादिः-२६२। सक। सेट्। आत्म।)
03
=>
(श्लो। ८३)
04
=>
(१-३५)
05
=>
[पृष्ठम्११८८+ २४]
06
=>
(१४९)
07
=>
(३-३-२०)