| YouTube Channel

वठ (vaTha)

 
Wilson
English
वठ r. 1st cl. (वठति) To be large, powerful or able
also
वट (इ) वठि (वंठते) To move alone or unaccompanied.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वठ्
मूलधातुः:
वठ
धात्वर्थः:
स्थौल्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
वठति
धातुप्रदीपः
Sanskrit
वठँ वठ स्थौल्ये
- वठति वठः वाठः वाठरः ।। 333 ।।
शब्दकल्पद्रुमः
Sanskrit
वठ, स्थौल्ये इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) स्थौल्यमिह सामर्थ्यम् वठतिदाता दातुं समर्थः स्यादित्यर्थः इति दुर्गा-दासः
वठ, एकचरे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् इदित् ।) एककर्त्तृकचर-णम् इ, वण्ट्यते ङ, वण्ठते चौरश्चोरयितुंएकश्चरतीत्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
वठ असहायकरणे
भ्वा०
आत्म०
सक०
सेट् इदित् वण्ठतेअवण्ठिष्ट
वठ सामर्थ्ये
भ्वा०
पर०
अक० सेट् वठति अवाठीत अवठीत् ववठतुः
क्षीरतरङ्गिणी
Sanskrit
वठँ वठ स्थौल्ये
- वठति वठरोऽतीक्ष्णधीः 325
धातुवृत्तिः
Sanskrit
वठँ वठ (अर्थः) स्थौल्ये
( वठति ववाठ वठितेत्यादि ) वादित्वान्नैत्वाभ्यासलोपौ वठि एकचर्यायामात्नेपदी गतः 327
कृदन्तरूपमाला
Sanskrit
1 {@“वठ स्थौल्ये”@} 2 ‘वण्ठते त्वेकचर्यायां स्थौल्ये शपि वठेदिति।’ 3 इति देवः।
वाठकः-ठिका, वाठकः-ठिका, विवठिषकः-षिका, वावठकः-ठिका
वठिता-त्री, वाठयिता-त्री, विवठिषिता-त्री, वावठिता-त्री
वठन्-न्ती
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककठतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१५४३)
02
=>
(१-भ्वादिः-३३१। अक। सेट्। पर।)
03
=>
(श्लो। ८३)
04
=>
(१४८)