| YouTube Channel

वटुक (vaTuka)

 
शब्दसागरः
English
वटुक
m.
(-कः)
1. A lad, a young man in general, or one fit to receive
the sacrificial thread.
2. A religious student.
3. A stupid fellow,
a blockhead.
E.
कन् added to the preceding.
Yates
English
वटुक (कः) 1.
m.
A lad, or youth fit
for investiture.
Wilson
English
वटुक
m.
(-कः)
1 A lad, a young man in general, or one fit to receive the sacrificial thread.
2 A religious student.
3 A stupid fellow, a blockhead.
E.
कन् added to the preceding.
Apte
English
वटुकः [vaṭukḥ], 1 A boy, lad.
A Brahmachārin.
(fig. ) A fool or blockhead.
Apte 1890
English
वटुकः 1 A boy, lad.
2 A Brahmachārin. fi3 A fool or blockhead.
Monier Williams 1872
English
वटुक, अस्, m. a boy, lad, youth
a young Brāh-
man or religious student
a stupid fellow, blockhead
N. of a class of priests
a form of Śiva (among the
Śāktas).
—वटुक-नाथ, अस्, m., N. of a pupil of
Śaṅkarācārya.
—वटुक-भैरव, अस्, m. a form
of Bhairava.
वटुक
for ‘form’ read youthful manifestation.
Benfey
English
वटुक वटु + = वटु,
1. 3. 4.
Apte Hindi
Hindi
वटुकः
पुं*
- वट् + कन्
"छोकरा, लड़का"
वटुकः
पुं*
- -
ब्रह्मचारी
वटुकः
पुं*
- -
"मूर्ख, बुद्धू"
L R Vaidya
English
vawuka {% m. %} 1. A boy, a lad
2. a fool, a blockhead
3. a Brahmachārin (q.v.).
शब्दकल्पद्रुमः
Sanskrit
वटुकः,
पुं,
(वटु + स्वार्थे संज्ञायां वा कन् ।)बालकः इति शब्दरत्नावली
(यथा, पाद्मेकृष्णचतुर्द्दशीकृत्ये ।“कुमारीवटुकान् पूज्य तथा शैवतपोधनान् ।राजसूयफलं तेन प्राप्यते नात्र संशयः
”ब्रह्मचारी यथा, भागवते १० ८८ २७ ।“तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्द्दनः ।दूरात् प्रत्युदियाद् भूत्वा वटुको योग-मायया
”)भैरवविशेषः (यथा, महानिर्व्वाणतन्त्रे २४ ।“भैरवाश्चैव वेताला वटुका नायिकागणाः ।शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतादयः
”)अस्य मन्त्रादिर्यथा, --“उद्धरेद्बटुकं ङेऽन्तमापदुद्धारणं तथा ।कुरुद्बयं पुनर्ङेऽन्तं वटुकञ्च समुद्धरेत् ।एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः
”अस्य पूजा प्रातःकृत्यादिप्राणायामान्तंविधाय पीठन्यासं कुर्य्यात् यथा धर्म्मादि-अनैश्वर्य्यान्तं देहे विन्यस्य ऋष्यादिन्यासंकुर्य्यात् यथा शिरसि ओँ बृहदारण्यकऋषयेनमः मुखे गायत्त्रीच्छन्दसे नमः हृदिवटुकभैरवाय देवतायै नमः ततो मूर्त्ति-न्यासः ह्रों वों ईशानाय नमोऽङ्गुष्ठयोः ह्रेंवें तत्पुरुषाय नमस्तर्ज्जन्योः हुं वु अघो-राय नमो मध्यमयोः ह्रिं विं वामदेवायनमोऽनामिकयोः ह्रं वं सद्योजाताय नमःकनिष्ठयोः पुनस्तत्तदङ्गुलीभिः शिरोवदन-हृद्गुह्यपादेषु तत्तद्बीजादिकास्तत्तन्मूर्त्ती-र्न्यसेत् तथोर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषुच तान् न्यसेत् तथा निबन्धे ।“अङ्गुलीदेहवक्त्रेषु मूर्त्तीर्न्यसेद्यथा पुरा ।सत्यादिपञ्चह्रस्वाढ्यशक्तिबीजपुरःसरम् ।वकारं पञ्चह्रस्वाढ्यमीशानादिषु योजयेत्
”ततः कराङ्गन्यासौ तद्यथा ओँ ह्रां वां अङ्गु-ष्ठाभ्यां नम इत्यादि ओँ ह्रां वां हृदयाय नमइत्यादि षड्दीर्घबीजद्वयेन कुर्य्यात् तथाच निबन्धे ।“षड्दीर्घयुक्तया शक्त्या वकारेणापि तद्वता ।अङ्गानि जातियुक्तानि प्रणवाद्येन कल्पयेत्
”ततो ध्यानम् ।“तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः
”सात्त्विकम् यथा, --“वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रंदिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।दीप्ताकारं विषदवदनं सुप्रसन्नं त्रिनेत्रंहस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौ दधा-नम्
राजसं यथा, --“उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजंस्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलंबन्धूकारुणवाससं भयहरंदेवं सदा भावये
तामसं यथा, --“ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालंमहेशंदिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्ग-शूलाभयानि ।नागं घण्टां कपालं करसरसिरुहैर्व्विभ्रतंभीमदंष्ट्रंसर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी-नूपुराढ्यम्
“सात्त्विकं ध्यानमाख्यातमपमृत्युविनाशनम् ।आयुरारोग्यजननमपवर्गफलप्रदम्
राजसं ध्यानमाख्यातं धर्म्मकामार्थसिद्धि-दम्
तामसं शत्रुशमनं कृत्याभूतगदापहम्
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनंकुर्य्यात्
*
अस्य पूजायन्त्रम् ।“धर्म्माधर्म्मादिभिः कॢप्तपीठे पङ्कजशोभिते ।षट्कोणान्तस्त्रिकोणस्थे व्योमपङ्कजसंयुते
”ततो मूलेन मूर्त्तिं सङ्कल्प्य पूर्व्ववत् ध्यात्वा-वाहनादिकं कुर्य्यात् तत्र क्रमः मूलेन सद्यो-जातमन्त्रेणावाहनम् मूलादिवामदेवेन स्थाप-नम् मूलेन सान्निध्यम् अघोरेण सन्निबोध-नम् तत्पुरुषेण योनिमुद्राप्रदर्शनम् ईशा-नेन वन्दनमिति विशेषः ततः कर्णिकायांदिक्षु कोणेषु ईशानादीन् यजेत् ततो व्योम-पङ्कजदलेषु असिताङ्गादिभैरवान् यजेत् ।“असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तौ मैरवौ ।कपाली भीषणश्चैव संहारोऽष्टौ भैरवाः
”एतैरष्टभैरवैर्द्वितीयावरणम् ततः षट्कोणेषुह्रां वां हृदयाय नम इत्यनेन पूजयेत् ।ततः पूर्व्वादिडाकिनीराकिणीलाकिनीकाकिनी-साकिनीहाकिनीमालिनीपुत्त्रान् देवीपुत्त्रान्उमापुत्त्रान् रुद्रपुत्त्रान् मातृकापुत्त्रान् दक्षिणेयजेत् ऊर्द्ध्वे ऊर्द्ध्वमुखीपुत्त्रान् अधोऽधोमुखी-पुत्त्रान् तद्बहिरष्टपत्रेषु लोकेशान् वटुक-रूपान् पूजयेत् तद्बहिः पूर्व्वे ओँ ब्रह्माणी-पुत्त्राय नमः एवमीशाने माहेश्वरीपुत्त्राय ।उत्तरे वैष्णवीपुत्त्राय अनिले कौमारीपुत्त्राय ।पश्चिमे इन्द्राणीपुत्त्राय नैरृते महालक्ष्मी-पुत्त्राय याम्ये वाराहीपुत्त्राय अनलेचामुण्डापुत्त्राय तथा निबन्धे ।“ब्रह्माणीपुत्त्रकं पूर्व्वे माहेशीपुत्त्रमैश्वरे ।वैष्णवीपुत्त्रकं सौम्ये कौमारीपुत्त्रमानिले
इन्द्राणीपुत्त्रकं भूयः पश्चिमे पूजयेत्ततः ।महालक्ष्मीसुतं पञ्चाद्रक्षोदिशि समर्च्चयेत् ।वाराहीपुत्त्रकं याम्ये चामुण्डापुत्त्रमानले
”तद्बहिर्द्दशदिक्षु हेतुकं त्रिपुरान्तकं वेतालंवह्रिजिह्वं करालं कालान्तकं एकपादं भीम-रूपं अचलं चाटकेश्वरं पूजयेत् ततोयोगिनीसहितदिव्ययोगीशाय नमः एवंयोगिनीसहितान्तरीक्षयोगीशाय नमः एवंयोगिनीसहितभूमिष्ठयोगीशाय नमः ईशा-नाग्निनिरृतिषु पूजयेत्
*
अस्य पुर-श्चरणमेकविंशतिलक्षजपः ।“वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।तद्दशांशं प्रजुहुयात्तिलैर्मधुरसंयुतैः
*
अथ वलिदानम् ।“पूर्व्वं विघ्नं दुर्गां समाराध्य वलिं दद्यात् ।शाल्यन्नं पललं सर्पिर्लाजचूर्णानि शर्कराः
गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितैः ।कृत्वा कवलमाराध्य देवं प्रागुक्तवर्त्मना ।रक्तचन्दनपुष्पाद्यैर्निशि तस्मै वलिं हरेत्
”यद्वा ।“अन्यूनाङ्गमजं हत्वा राजसं प्रागुदीरितम् ।वलिप्रदानसमये रिपूणां सर्व्वसैन्यकम् ।निवेदयेद्वलित्वेन वटुकाय विशिष्टधीः
विदर्भयेच्छत्रुनाम्ना वलिमन्त्रं तथा सुधीः ।शत्रुपक्षस्य रुधिरं पिशितञ्च दिने दिने
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ।वलिमन्त्रोऽयमाख्यातः सर्व्वेषां विजयप्रदः
अनेन वलिना हृष्टो वटुकः परसैन्यकम् ।सर्व्वं गणेभ्यो विभजेच्चामिष क्रुद्धमानसः
एवं कृते परबलं क्षीयते नात्र संशयः
”इति तन्त्रसारः
*
अथ वटुकभैरवस्तोत्रम् ।“कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।शङ्करं परिपप्रच्छ पार्व्वती परमेश्वरम्
श्रीपार्व्वत्युवाच ।भगवन् सर्व्वधर्म्मज्ञ सर्व्वशास्त्रागमादिषु ।आपदुद्धारणं मन्त्रं सर्व्वसिद्धिप्रदं नृणाम्
सर्व्वेषाञ्चैव भूतानां हितार्थं वाञ्छितं मया ।विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम्
अङ्गन्यासकरन्यासबीजन्याससमन्वितम् ।वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम्
श्रीभगवानुवाच ।शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।सर्व्वदुःखप्रशमनं सर्व्वशत्रुनिवर्हणम्
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये
ग्रहराजभयानाञ्च नाशनं सुखवर्द्धनम् ।स्नेहाद्बक्ष्यामि ते मन्त्रं सर्व्वसारमिमं प्रिये
सर्व्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।प्रणवं पूर्व्वमुच्चार्य्य देवी प्रणवमुद्धरेत्
वटुकायेति वै पश्चादापदुद्धारणाय ।कुरुद्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत्
देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये ।मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ।अप्रकाश्यमिमं मन्त्रं सर्व्वशक्तिसमन्वितम्
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।विद्रवन्ति भयार्त्ता वै कालरुद्रादिव प्रजाः
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।नाग्निचौरभयं वापि ग्रहराजभयन्तथा ।न मारीभयं तस्य सर्व्वत्र सुखवान् भवेत्
आयुरारोग्यमैश्वर्य्यं पुत्त्रपौत्त्रादिसम्पदः ।भवन्ति सततं तस्य पुस्तकस्यापि पूजनात्
श्रीपार्व्वत्युवाच ।य एष भैरवो नाम आपदुद्धारको मतः ।त्वया कथितो देव भैरवः कल्प उत्तमः
तस्य नामसहस्राणि अयुतान्यर्व्वुदानि ।सारमुद्धृत्य तेषां वै नामाष्टशतकं वद
*
श्रीभगवानुवाच ।यस्तु संकीर्त्तयेदेतत् सर्व्वदुष्टनिवर्हणम् ।सर्व्वान् कामानवाप्नोति साधकः सिद्धिमेव
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।आपदुद्धारकस्येह नामाष्टशतमुत्तमम्
सर्व्वपापहरं पुण्यं सर्व्वापद्बिनिवारकम् ।सर्व्वकामार्थदं देवि साधकानां सुखावहम्
देहाङ्गन्यसनञ्चैव पूर्व्वं कुर्य्यात् समाहितः ।भैरवं मूर्द्ध्नि विन्यस्य ललाटे भीमदर्शनम्
अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत्
क्षेत्राख्यं नाभिदेशे कट्यां सर्व्वाघनाशनम् ।त्रिनेत्रमूर्व्वोर्विन्यस्य जङ्घयो रक्तपाणिकम्
पादयोर्देवदेवेशं सर्व्वाङ्गे वटुकं न्यसेत् ।एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम्
नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।बृहदारण्यको नाम ऋषिश्च परिकीर्त्तितः
देवता कथिता चेह सद्भिर्वटुकभैरवः ।धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
*
ओँभैरवो भूतनाथश्च भूतात्मा भूतभावनः ।क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्त्रियो विराट् ।श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः
करालः कालशमनः कलाकाष्ठातनुः कविः ।त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः
धनदो धनहारी धनपः प्रतिभाववान् ।नागहारो नागकेशो व्योमकेशः कपालभृत्
कालः कपालमाली कमनीयः कलानिधिः ।त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी त्रिलोकपात्
त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।वटुको वटुकेशश्च खट्वाङ्गवरधारकः
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।धूर्त्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः
प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः
अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।भूधरो भूधराधीशो भूपतिर्भूधरात्मकः
कङ्कालधारी मुण्डी व्यालयज्ञोपवीतवान् ।जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा
शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।वलिभुक् वलिभूतात्मा कामी कामपराक्रमः
सर्व्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ।सर्व्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान्
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।मया ते कथितं देवि रहस्यं सर्व्वकामिकम्
इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा ।न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित्
पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।मारीभये राजभये तथा चौराग्निजे भये
औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने ।बन्धने तथा घोरे पठेत् स्तोत्रं समाहितः
सर्व्वे प्रशमनं यान्ति भयाद्भैरवकीर्त्तनात् ।एकादशसहस्रन्तु पुरश्चरणमुच्यते
त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः ।स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानुषः
षण्मासान् भूमिकामस्तु जप्त्वा लभते महीम् ।राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः
रात्रौ वारत्रयञ्चैव नाशयत्येव शात्रवान् ।जपेन्मासत्रयं रात्रौ राजानं वशमानयेत्
धनार्थी सुतार्थी दारार्थी यस्तु मानवः ।पठेद्बारत्रयं यद्बा वारमेकं तथा निशि
धनं पुत्त्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः ।रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात्
भीतो भयात् प्रमुच्येत देवि सत्यं संशयः ।यान् यान् समी हते कामांस्तांस्तानाप्नोतिनिश्चितम् ।अप्रकाश्यमिदं गुह्यं देयं यस्य कस्यचित्
सत्कुलीनाय शान्ताय ऋजवे दम्भवर्ज्जिते ।दद्यात् स्तोत्रमिदं पुण्यं सर्व्वकामफलप्रदम् ।ध्यानं वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः
*ओँ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्च्चसम् ।अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम्
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।दिगम्बरं कुमारीशं वटुकाख्यं महाबलम्
खट्वाङ्गमसिपाशञ्च शूलञ्चैव तथा पुनः ।डमरुञ्च कपालञ्च वरदं भुजगन्तथा
नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् ।दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम्
आत्मवर्णसमोपेतसारमेयसमन्वितम् ।ध्यात्वा जपेत् सुसंहृष्टः सर्व्वान् कामानवाप्नुयात्
एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।भैरवाय प्रहृष्टाभूत् स्वयञ्चैव महेश्वरी
”इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव-स्तवराजः समाप्तः
*
अथ वटुकभैरवकवचम् ।श्रीभैरव उवाच ।“देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ।म्रियन्ते साधका येन विना श्मशानभूमिषु
रणेषु चातिघोरेषु महावायुजलेषु ।शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु
श्रीदेव्युवाच ।कथयामि शृणु प्राज्ञ वटोस्तु कवचं शुभम् ।गोपनीयं प्रयन्तेन मातृजारोपमं यथा
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।सात्त्विकं राजसञ्चैव तामसं देव तत् शृणु
वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रंदिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।दीप्ताकारं विषदवदनं सुप्रसन्नं त्रिनेत्रंहस्ताब्जाभ्यां वटुकमनिशं शूलखड्गौदधानम्
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजंस्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलंवन्धूकारुणवाससं भयहरं देवं सदा भावये
ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालंमहेशंदिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्ग-शूलाभयानि ।नागं घण्टां कपालं करसरसिरुहैर्विभ्रतंभीमदंष्ट्रंसर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराठ्यम्
*
अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनु-ष्टुप्छन्दः श्रीवटुकभैरवो देवता वं बीजं ह्रींशक्तिरापदुद्धारणायेति कीलकं मम सर्व्वाभीष्ट-सिद्ध्यर्थे विनियोगः ।“ओँ शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।नेत्रे भूतहननः सारमेयानुगो भ्रुवौ
भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः ।नासापुटौ तथोष्ठौ भस्माङ्गः सर्व्वभूषणः
भीषणास्यो ममास्यञ्च शक्तिहस्तो गलं मम ।स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः
पाणी कपाली मे पातु मुण्डमालाधरो हृदम् ।वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम
उदरञ्च मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा ।क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा
कटीं पापौघनाशश्च वटुको लिङ्गदेशकम् ।गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा
जानू घुर्घुरारावो जङ्घे रक्षतु रक्तपः
गुल्फौ पादुकासिद्धः पादपृष्ठं सुरेश्वरः
आपादमस्तकञ्चैव आपदुद्धारणस्तथा ।सहस्रारे महापद्मे कर्पूरधवलो गुरुः
पातु मां वटुको देवो भैरवः सर्व्वकर्म्मसु ।पूर्व्वस्यामसिताङ्गो मे दिशि रक्षतु सर्व्वदा
आग्नेय्याञ्च रुरुः पातु दक्षिणे चण्डभैरवः ।नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे
वायव्यां मे कपाली नित्यं पायात् सुरेश्वरः ।भीषणो भैरवः पातूत्तरस्यां दिशि सर्व्वदा
संहारभैरवः तु दिश्यैशान्यां महेश्वरः ।ऊर्द्धे पातु विधाता वै पाताले नन्दिको विभुः
सद्योजातस्तु मां पायात् सर्व्वतो देवसेवितः ।वामदेवोऽवतु प्रीतो रणे घोरे तथावतु
जले तत्पुरुषः पातु स्थले पातु गुरुः सदा ।डाकिनीपुत्त्रकः पातु दारांस्तु लाकिनीसुतः
पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः ।लाकिनीपुत्त्रकः पातु पशूनश्वानजांस्तथा
महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः ।राज्यं राज्यश्रियं पायात् भैरवो भीति-हारकः
रक्षाहीनन्तु यन् स्थानं वर्जितं कवचेन ।तत् सर्व्वं रक्ष मे देव त्वं यतः सर्व्वरक्षकः
एतत् कवचमीशान तव स्नेहात् प्रकाशितम् ।नाख्येयं नरलोकेषु सारभूतञ्च सुश्रियम्
यस्मै कस्मै दातव्यं कवचेशं सुदुर्लभम् ।न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर
यो ददाति निषिद्धेभ्यः वै भ्रष्टो भवेद्ध्रुवम्
अनेन कवचेशेन रक्षां कृत्वा द्बिजोत्तमः ।विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते सः
मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः ।तस्मात् सर्व्वप्रयत्नेन दुर्लभं पापचेतसाम्
भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो ।धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः ।सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम्
नमो भैरवदेवाय सारभूताय वै नमः ।नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः
”इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव-भैरवीसंवादे वटुकभैरवकवचं समाप्तम्
वाचस्पत्यम्
Sanskrit
वटुक
पु०
वट--उक वालके शब्दर० भैरवभेदे तन्त्रम्