| YouTube Channel

वटपत्री (vaTapatrI)

 
शब्दकल्पद्रुमः
Sanskrit
वटपत्री,
स्त्री,
(वटस्येव पत्रं यस्याः गौरादि-त्वात् ङीष् ।) पाषाणभेदीविशेषः तत्पर्य्यायः ।इनानी ऐरावती गोधावती इरावती ५श्यामा खट्टाङ्गनामिका अस्याः गुणाः ।हिमत्वम् गोल्यत्वम् मेहकृच्छ्रविनाशित्वम् ।बलदातृत्वम् व्रणहन्तृत्वम् किञ्चिद्दीपन-कारित्वञ्च इति राजनिर्घण्टः
अपि ।“वटपत्री तु कथिता मोहिन्यैरावती बुघैः ।वटपत्री कषायोष्णा योनिमूत्रगदापहा
”इति भावप्रकाशः