| YouTube Channel

वटकः-टिका (vaTakaH-TikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वट परिभाषणे”@} 2 घटादिः।
‘-- अवयवे’ इति काशकृत्स्नः।
वाटकः-टिका, वटकः-टिका, विवटिषकः-षिका, वावटकः-टिका
वटिता-त्री, वटयिता-त्री, विवटिषिता-त्री, वावटिता-त्री
वटन्-न्ती, वटयन्-न्ती, विवटिषन्-न्ती
-- इत्यादिकानि रूपाणि ण्यन्तं विना सर्वाण्यपि भौवादिककखतिवत् 3 ऊह्यानि।
अस्य धातोः घटादिपाठात् ण्यन्ते परं ‘घटादयो मितः’ 4 इति मित्त्वे ‘मितां ह्रस्वः’ 5 इति ह्रस्वे वटयन्-वटयिष्यन्-न्ती-ती, 6 वटयमानः, वटयिष्यमाणः, इत्यादिकानि ह्रस्वघटितानि रूपाणि भौवादिक- कखतिवत् 7 बोध्यानि।
णमुलि- 8 वटम् २-वाटम् २, वटयित्वा २। इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५३९)
02
=>
(१-भ्वादिः-७७९। सक। सेट्। पर।)
03
=>
(१४२)
04
=>
(गणसूत्रं भ्वादौ)
05
=>
(६-४-९२)
06
=>
[पृष्ठम्११८६+ २७]
07
=>
(१४१)
08
=>
[[१। ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परतः विकल्पेन दीर्घः। तेन रूपद्वयम्।]]
1 {@“वट ग्रन्थे”@} 2 अदन्तः।
‘णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
‘-- वेष्टे भागे च’ इति वोपदेवः।
‘--वेष्टने इत्येके’ इति धा।
का।
व्याख्याने 4।
‘--वेष्टने’ इति क्षीरस्वामी इति मा।
धा।
वृत्तौ उक्तम्।
क्षीरतरङ्गिण्यां तु “वट ग्रन्थे।
ग्रन्थो = वेष्टनम्” इत्येव दृश्यते।
5 वटकः-टिका, विवटयिषकः-षिका
वटयिता-त्री, विवटयिषिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 6 ऊह्यानि।
ल्युटि वटनम्।
प्रासङ्गिक्यः
01
=>
(१५४०)
02
=>
(१०-चुरादिः-१८५८। सक। सेट्। उभ।)
03
=>
(श्लो। ७७)
04
=>
(३-५४)
05
=>
[[२। अदन्तपाठसामर्थ्यात् अत्र सर्वत्र अल्लोपस्य स्थानिवत्त्वात् उपधावृद्धिः भवति।]]
06
=>
(१७६)
1 {@“वट विभाजने”@} 2 अदन्तः।
मा।
धातुवृत्ति, सि।
कौमुद्याद्यनुसारेण अयं पाठो लिखितः।
‘णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
अत्र क्षीरस्वामिना ‘वटि विभाजने’ इत्येव उक्तम्।
किंच तत्र “4 नन्दिमते वण्टति” इति दृश्यते।
मैत्रेयोऽपि एवमेव इति मा।
धा।
वृत्ति- दर्शनाज्ज्ञायते।
सि।
कौमुद्यां तु ‘वट--’ इति पठित्वा वटि--’ इत्येके’ इति।
वटेः पुनःपाठोऽर्थभेदात् इति ज्ञेयम्।
अयं धातुः कथाद्यन्तर्गणः इति शाकटायनमतम्।
वटकः-टिका, विवटयिषकःषिका
वटयिता-त्री, विवटयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाणि चौरादिककलयतिवत् 5 ज्ञेयानि।
शतरि--वटयन्।
इदित्पाठपक्षे-वण्टकः-ण्टिका, विवण्टयिषकः-षिका
वण्टयिता-त्री, विवण्टयि- षिता-त्री
इत्यादीनि रूपाणि ऊह्यानि।
6 वण्टापयकः-यिका, इति अस्य घातोः विशेषः।
इदित्त्वाण्णिज्विकल्पः इत्यपि ज्ञेयम्।
7
प्रासङ्गिक्यः
01
=>
(१५४१)
02
=>
(१०-चुरादिः-१९१९। सक। सेट्। उभ।)
03
=>
(श्लो। ७७)
04
=>
(भ्वादौ)
05
=>
(१७६)
06
=>
[[३। ‘कथादिपातिस्फायो पुग्लुग्वत्वम्’ इति शाकटायनसूत्रात् कथादीनां धातूनां णौ परतः पुगागमे, वृद्धौ एवं रूपम्। इति माधवः (चुरादौ लजधातुप्रकरणे)।]]
07
=>
[पृष्ठम्११८७+ २६]