| YouTube Channel

वटकः (vaTakaH)

 
Apte
English
वटकः [vaṭakḥ], 1 A kind of cake.
A small lump, ball, globule, pill.
A particular weight of 8 māṣas.
Apte 1890
English
वटकः 1 A kind of cake.
2 A small lump, ball, globule, pill.
Apte Hindi
Hindi
वटकः
पुं*
- "वट + कन्, वट् + क्वुन्"
"बाटी, एक प्रकार की रोटी"
वटकः
पुं*
- -
"छोटा पिंड, गेंद, गोली, वटिका"
शब्दकल्पद्रुमः
Sanskrit
वटकः,
पुं,
(वट एव स्वार्थे कन् ।) पिष्टक-विशेषः इत्यमरभरतौ
वडा इति भाषा ।अस्य गुणौ विदाहित्वम् तृष्णाकारित्वञ्च ।इति राजवल्लभः
अपि ।“माषाणां पिष्टिकां युक्तां लवणार्द्रकहिङ्गुभिः ।कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः
विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः ।वातामयहरा रुच्या विशेषादर्दितापहाः
विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः ।संचूर्ण्य निक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु
लवणं तत्र वटकान् सकलानपि मज्जयेत् ।शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः
विबन्धकृद्विदाही श्लेष्मलः पवनापहः ।राज्यक्तयातिरोचिन्या पाचन्या तांस्तु भक्षयेत्
तत्प्रकारा यथा ।कदलसुमनमाषक्षोदसत्सीरिशस्यै-र्म्मरिचसुघनदुग्धैः सच्चतुर्ज्जातचन्द्रैः ।कृत इह घृतपक्वो यः पतेत् खण्डपाकेवटकममृतकेलिं सा व्यधात्तं प्रियेष्टम्
सामिक्षैः शालिचूर्णैर्दधिमरिचसितानारिकेला-र्द्रशस्यै-र्जात्येलासल्लवङ्गामृतकदलफलैः फेणितैःपिष्टमुद्गैः ।सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्धपूरेप्रगाढेसेन्दौ कर्पूरकेलिं तमिह मुवटकं सा व्यधात्स्वप्रियेष्टम्
ग्रन्थिवद्बटिकालिस्तैर्द्रव्यैः सृष्टा तु या पतेत् ।पञ्चामृते व्यधात्तां सा पीयूषग्रन्थिपालिकाम्
३सक्षीरसारशशितण्डूलनारिकेल-जातीलवङ्गमरिचैः ससितैः सुपिष्टैः ।रम्भैलया घृतभावनया भवेद्यासा तामनङ्गगुटिकां विदधे प्रियेष्टाम्
कदलमरिचदुग्धैः खण्डगोधूमपक्व-प्रकटितवटकोऽयं भूरिजातीफलाढ्यः ।नवविधुमधुमध्ये यो विलासं विधत्तेरचित इह तयासौ सीधुपूर्व्वो विलासः
लवङ्गैलेन्द्वमरिचैः संयुतैः शर्कराचयैः ।चक्रे गङ्गाजलाख्यानि लड्डुकान्यपराणि
६तैस्तैर्युतैः क्षीरसारैस्तथा लाङ्गलिशस्यकैः ।अन्यान्यप्याज्यसंभृष्टैः सा रसैः सरपूपिका
७इति रघुनाथभट्टकृते गोविन्दलीलामृते १९सर्गः
*
अथाम्लिकावटकः ।“अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत् ।तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः
अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः ।वटकस्य गुणेः पूर्व्वैरेतेऽपि समन्विताः
*
अथ तक्रवटकः ।मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः ।संस्कारजप्रभावेण त्रिदोषशमना हिताः
*
अथ माषवटकः ।माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृताः ।तया विरचिता वस्त्रे वटिकाः साधु शोषिताः
तालितास्तप्ततैले ता अथवा सुप्रलेहिताः ।वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम्
*अथ कुष्माण्डवटिः ।कुष्माण्डकवटी ज्ञेया पूर्व्वोक्तवटिकागुणा ।विशेषात् पित्तरक्तघ्नी लघ्वी कथिता बुधैः
अथ मुद्गवटिका ।मुद्गानां वटिका तद्वद्द्रविता साधिता तथा ।पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता
”इति भावप्रकाशः
*
(वटी वडि इति भाषा
यथा, --“वटका अथ कथ्यन्ते तन्नाम गुटिका वटी ।मोदको वटिका पिण्डी गुडोवर्त्तिस्तथोच्यते
लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा ।गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी
”इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे
यथा ।“मण्डूरं चूर्णयेच्छुद्धं गोमूत्रेऽष्टगुणे क्षिपेत् ।पक्त्वा वटकं कृत्वा दद्यात्तक्रानुपानतः
”इति शार्ङ्गधरे मध्यखण्डे सप्तमेऽध्याये मण्डूरवटके
*
) अष्टमाषकपरिमाणम् यथा, --“दशगुञ्जास्तु माषः स्यात् शाणो माषचतुष्टयम् ।द्वौ शाणौ वटकः कोणस्तोलको द्रङ्खणश्च सः
”इति शब्दमाला
(तथा ।“माषेश्चतुर्भिः शाणः स्याद्धरणः निगद्यते ।टङ्कः एव कथितस्तद्द्वयं कोल उच्यते ।क्षुद्रको वटकश्चैव द्रङ्क्षणः निगद्यते
”इति शार्ङ्गधरे पूर्व्वखण्डे प्रथमेऽध्याये
)