| YouTube Channel

वञ्चन्-न्ती (vaJcan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वन्चु गत्यर्थः”@} 2 ‘वञ्चतीति गतावर्थे वञ्चयेत प्रलम्भने।।’ 3 इति देवः।
वञ्चकः-ञ्चिका, वञ्चकः-ञ्चिका, विवञ्चिषकः-षिका, 4 वनीवचकः-चिका
वञ्चिता-त्री, वञ्चयिता-त्री, विवञ्चिषिता-त्री, वनीवचिता-त्री
वञ्चन्-न्ती, वञ्चयन्-न्ती, विवञ्चिषन्-न्ती
-- वञ्चिष्यन्-न्ती-ती, वञ्चयिष्यन्-न्ती-ती, विवञ्चिषिष्यन्-न्ती-ती
-- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकध्वंसतिवत् 5 ऊह्यानि।
6 7 8 वञ्चयमानः, 9 वक्तः-वक्तवान्, 10 वञ्च्यं वञ्चन्ति वणिजः, 11 वचित्वा- 12 वञ्चित्वा-वक्त्वा, 13 वङ्क्रिः, 14 आवक्रम् 15, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१५५४)
02
=>
(१-भ्वादिः-१८९। सक। सेट्। पर।)
03
=>
(श्लो। ४८)
04
=>
[[१०। यङन्ते सर्वत्र ‘नीग्वञ्चुस्रंसु--’ (७-४-८४) इत्यादिना अभ्यासस्य नीगागमे उपधानकारस्य लोपे रूपमेवम्।]]
05
=>
(९४२)
06
=>
[पृष्ठम्११९८+ २७]
07
=>
[माणवकं]
08
=>
[[१। ण्यन्ते ‘गृधिवञ्च्योः प्रलम्भने’ (१-३-६९) इति अकर्त्रभिप्रायेऽपि प्रलम्भनार्थे तङेव। प्रलम्भनम् = मिथ्याफलाख्यानम्। अन्यत्र उभयमपि भवति।]]
09
=>
[[२। उदित्त्वेन क्त्वायामिड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठाया- मिण्निषेधे, उपधानकारलोपे रूपमेवम्।]]
10
=>
[[३। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यति ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति इति प्राप्तं कुत्वं ‘वञ्चेर्गतौ’ (७-३-६३) इति गत्यर्थे निषिध्यते। अत्र गच्छन्ती- त्यर्थः। अन्यत्र वङ्क्यं काष्ठम्। अत्र कुत्वं भवति। कुटिलमित्यर्थः।]]
11
=>
[[४। ‘वञ्चिलुञ्च्यृतश्च’ (१-२-२४) इति सेटः क्त्वाप्रत्ययस्य कित्त्वविकल्पनात् पक्षे नलोपे वञ्चित्वा-वचित्वा इति। उदित्त्वेन ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पात् इडभावपक्षे वक्त्वा इति। आहत्य क्त्वाप्रत्यये रूपत्रयं बोध्यम्।]]
12
=>
[[आ। ‘वञ्चित्वाऽप्यम्बरं दूरं स्वस्मिन् तिष्ठन्तमात्मनि।’ भ। का। ७-१०६।]]
13
=>
[[५। औणादिके (द। उ। १-३५) क्रिन्प्रत्यये, निपातनात् नलोपाभावः कुत्वं भवतः। तेन रूपमेवम्। वङ्क्रिः = शल्यं, शरीराङ्गं च।]]
14
=>
[[६। ‘स्फायितञ्चिवञ्चि--’ (द। उ। ८-३१) इत्यादिना रक्प्रत्यये रूपम्। वक्रम् = कुटिलमित्यर्थः।]]
15
=>
[[B। ‘आवक्रचञ्चूपुटतञ्चदारवत्वञ्चत्खगम्रुक्तशिखैर्लताद्रुमैः।’ धा। का। १-२६।]]