| YouTube Channel

वज (vaja)

 
Wilson
English
वज r. 1st cl. (बजति) To go. r. 10th cl. (वाजयति)
1 To go.
2 To prepare, to make.
3 To prepare the way.
4 To trim or feather an arrow.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वज्
मूलधातुः:
वज
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
वजति
धातुप्रदीपः
Sanskrit
वजँ वज
मानकरूपान्तरम् - व्रजँ
व्रज गतौ
- वजति ववाज एत्त्वाभ्यासलोपप्रतिषेधश्चास्य चान्द्रैरुदाहृतः ववजतुः ववजुः अवजीत् अवाजीत् वाजः व्रजति वव्राज अव्राजीत् प्रव्रजितः परिव्राट् व्रजः व्रज्या ।। 249, 250 ।।
शब्दकल्पद्रुमः
Sanskrit
वज, गतौ इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) वजति इति दुर्गादासः
वज, संस्कृतौ गतौ इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) अयं मार्गणसंस्कारेइति प्राञ्चः मार्गणस्य शरस्य पक्षादिनासंस्कारो मार्गणसंस्कारः क, वाजयति पक्षै-र्बाणं काण्डकारः इति रमानाथः
मार्गण-संस्कारयोरिति कश्चित् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
वज गतौ
भ्वा०
पर०
सक०
सेट् वजति अवाजीत्--अव-जीत ववजतुः
वज शरसंस्कारे गतौ चुरा०
उभ०
सक०
सेट् वाजयति ते अवीवजत्
क्षीरतरङ्गिणी
Sanskrit
वजँ वज
मानकरूपान्तरम् - व्रजँ
व्रज गतौ
- वजति वाजो वेगपक्षौ व्रजति, वव्राज वटव्रज (723) इति वृद्धिः-अव्राजीत् व्रजयजोर्भावे क्यप्-(3398) व्रज्या, परिव्रज्या गोचरादौ (द्र0 33119) व्रजः साधुः ण्यति (द्र0 31124) व्राज्यम् अजिव्रज्योश्च (7660) इति कुत्वाभावः क्विब् वचि (उ0 257) इति क्विब्दीर्घौ-परिव्राट्, व्रश्च (8236) इति षः परिव्राजकः चुरादौ वज मार्गसंस्कारगत्योः (1069) वाजयति 247, 248
वजँ वज मार्गसंस्कार, गत्योः
- मार्गसंस्कारे गतौ मार्ग गतौ संस्कारगतौ चेत्येके द्वौ धातू इत्यन्ये वाजयति व्रजेति चन्द्रः अत एव भ्वादिना (1158) सिद्धेर्नापाठि मार्गयति मार्गः वच मार्गणसंस्कारे इति दुर्गः 79
धातुवृत्तिः
Sanskrit
वजँ वज
मानकरूपान्तरम् - व्रजँ
व्रज (अर्थः) गतौ
( वजति ववाज ववजतुः वजितेत्यादि ) "न शसददवादिगुण'' इत्येत्वाभ्यासलोपनिषेधः ( अवजीत् अवाजीत् ) "अतो हलादे'' इति वा वृद्धिः ( वाजः वाज्यम् ) घञ्ण्यतौ "अजिव्रज्योश्च'' इति चकारेण कुत्वनिषेधः ( व्रजति ) इत्यादि लुङि"वदव्रज''इतिनित्या वृद्धिः ( अव्राजीदिति व्रज्या)"व्रजयजोर्भावे क्यप्'' इतिक्यप् व्रजः "गोचरसंचरवहव्रजव्यजापणनिगमाश्च'' इति अधिकरण घञन्तो निपातितः परिव्राटः परिव्राट् ( सूत्रम्) परौ व्रजेःषः पदान्ते (इति सूत्रम्) इति क्विपि षत्वं दीर्घश्च एतौ चुरादावपि शुचादत्ता उदात्तेतः क्षिवर्जम् 250
कृदन्तरूपमाला
Sanskrit
1 {@“वज गतौ”@} 2 ‘-- गतौ वजति वाजयेत्।’ 3 इति देवः।
वाजकः-जिका, वाजकः-जिका, विवजिषकः-षिका, वावजकः-जिका
वजिता-त्री, वाजयिता-त्री, विवजिषिता-त्री, वावजिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकबन्धनार्थककचतिवत् 4 बोध्यानि।
5 वाज्यम्, शतरि-वजन् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५३६)
02
=>
(१-भ्वादिः-२५२। सक। सेट्। पर।)
03
=>
(श्लो। ५८)
04
=>
(१४४)
05
=>
[[१। ण्यति प्रत्यये ‘अजिव्रज्योश्च’ (७-३-६०) इत्यत्र चकारात् अत्रापि कुत्वं नेति माधवः। वस्तुतस्तु ‘चजोः--’ (७-३-५२) इत्यत्र ‘निष्ठायामनिट इति वक्तव्यम्’ (वा। ७-३-५२) इति वार्तिकेन विषयविभागस्य कृतत्वेन यथोत्तरं मुनीनां प्रामाण्यात् अत्र प्रकृतस्थले कुत्वप्रसक्तिरेव नेति भाष्यादिसम्मतः पन्थाः।]]
1 {@“वज मार्गसंस्कारगत्योः”@} 2 ‘… गतौ वजति वाचयेत्।’ 3 इति देवः।
4 ‘व्रज--’ इति मा।
धा।
वृत्तिः, चन्द्रोऽपि।
क्षीरस्वामी तु वजिं पठित्वा मार्गेति द्वितीयं धातुमाह।
‘मार्गगतौ संस्कारगतौ च’ इत्येके।
‘वज’ ‘मार्ग’ द्वौ धातू इति सि।
कौमुद्याम्।
एवमेव पुरुषकारेऽपि 5।
‘वज मार्गणसंस्कारे’ इति दुर्गः।
‘--गतौ संस्कृतौ च’ इति वोपदेवः।
वाजकः-जिका, विवाजयिषकः-षिका
वाजयिता-त्री, विवाजयिषिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिककाणयतिवत् 6 ऊह्यानि।
ण्यति- 7 अवाज्यम् इति।
प्रासङ्गिक्यः
01
=>
(१५३७)
02
=>
(१०-चुरादिः-१६१७। सक। सेट्। उभ।)
03
=>
(श्लो। ५८)
04
=>
[पृष्ठम्११८५+ २६]
05
=>
(दैवश्लोके ५८)
06
=>
(१५९)
07
=>
[[आ। ‘इत्यादिवादिषु जनेषु विमोटितारिः पापप्रपण्डिपदपांसुरवाज्यधामा।’ धा। का। ३-२३।]]