| YouTube Channel

वचनं (vacanaM)

 
Apte 1890
English
वचनं [वच्-ल्युट्] 1 The act of speaking, uttering, saying.
2 Speech, an utterance, words (spoken), sentence
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः Ki. 2. 5
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार Me. 4.
3 Repeating, recitation.
4 A text, dictum, rule, precept, a passage of a sacred book
शास्त्रवचनं, श्रुतिवचनं, स्मृतिवचनं &c.
5 An order, a command, direction
मद्वचनात् ‘in my name, ‘by my order.’
6 Advice, counsel, instruction.
7 Declaration, affirmation.
8 Pronunciation (of a letter) (in gram.).
9 The signification or meaning of a word
अत्र पयोधरशब्दः मेघवचनः.
10 Number (in gram.)
(there are three numbers, singular, dual and plural).
11 Dry ginger.
Comp.
उपक्रमः introduction, exordium.
कर a. obedient, doing what is ordered. (
रः) the author or enunciator of a rule or precept.
कारिन् a. obeying orders, obedient.
क्रमः discourse.
ग्राहिन् a. obedient, compliant, submissive.
पटु a. eloquent.
मात्रं mere words, unsupported assertion.
विरोधः inconsistency of precepts, contradiction or incongruity of texts.
शतं a hundred speeches, i. e. repeated declaration, reiterated assertion.
सहायः a companion in conversation.
स्थित a. (वचनेस्थित also) obedient, compliant.
Hindi
Hindi
शब्द
शब्दकल्पद्रुमः
Sanskrit
वचनं,
क्ली,
(उच्यतेऽनेनेति श्लेष्मनाशकत्वादस्यतथात्वम् वच् + ल्युट् ।) शुण्ठी इति शब्द-चन्द्रिका
वाक्यम् तत्पर्य्यायः ।“इरा सरस्वती ब्राह्मी भाषा वाणी सारदा ।गिरा गीश्च गिरां देवी गीर्देवी भारती-श्वरी
वाग्वाचा वचसामीशा वाग्देवी वर्णमातृका ।वचनं भाषितं चोक्तिर्व्याहारो लपितं वचः
वाग्देवीवचसोरेष पर्य्यायः परिकीर्त्तितः ।यथास्थानं यथायोग्यं भेद ऊह्यो मनीषिभिः
”इति शब्दरत्नावली
*
(यथा, हितोपदेशे ।“असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।अनुक्तक्लीववचनं धन्यं कस्यापि जीवनम्
”)तत्तु त्रिविधम् यथा, --वशिष्ठ उवाच ।“वचनं त्रिविधं शैल लौकिके वैदिके तथा ।सर्व्वं जानाति शास्त्रज्ञो निर्म्मलज्ञानचक्षुषा
असत्यमहितं पश्चात् सांप्रतं श्रुतिसुन्दरम् ।सुबुद्धिशत्रुर्व्वदति नहि तेषां कदाचन
आपदः प्रीतिजनकं परिणामसुखावहम् ।दयालुर्धर्म्मशीलश्च बोधयत्येव बान्धवम्
श्रुतिमात्रात् सुधातुल्यं सर्व्वकाले सुखावहम् ।सत्यं सारं हितकरं वचसां श्रेष्ठमीप्सितम्
एवं त्रिविधं शैल नीतिसारनिरूपितम् ।कथ्यतां त्रिषुमध्ये किं वदामि वाक्यमीप्सि-तम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४१ अध्यायः
विभक्तिः सा तु स्यादिस्त्यादिश्च यथा ।“क्तेरेकैकं वचनं क्रमात् क्वद्बव्वसंज्ञं स्यात् ।” इतिमुग्धबोधव्याकरणम्
तद्वैदिकपर्य्यायः श्लोकः१ धारा इळा गौः गौरी गान्धर्व्वी६ गभीरा गम्भीरा मन्द्रा मन्द्राजनी१० वाशी ११ वाणी १२ वाणीची १३ वाणः१४ पविः १५ भारती १६ धमनिः १७ नाळीः१८ मेना १९ मेळिः २० सूर्य्या २१ सरस्वती २२निवित् २३ स्वाहा २४ वग्नुः २५ उपब्दिः २६मायुः २७ काकुत् २८ जिह्वा २९ घोषः ३०स्वरः ३१ शब्दः ३२ स्वनः ३३ ऋक् ३४ होत्रा३५ गीः ३६ गाथा ३७ गणः ३८ धेना ३९ ग्नाः४० विपा ४१ नग्ना ४२ कशा ४३ धिषणा ४४नौः ४५ अक्षरम् ४६ मही ४७ अदितिः ४८शची ४९ वाक् ५० अनुष्टुप् ५१ धेनुः ५२वल्गुः ५३ गल्दा ५४ सरः ५५ सुपर्णी ५६वेकुरा ५७ इति सप्तपञ्चाशत् वाङ्नामानि ।इति वेदनिघण्टौ ११