| YouTube Channel

वङ्गं (vaGgaM)

 
अभिधानचिन्तामणिपरिशिष्टम्
Sanskrit
--source--
रजते त्रापुषं वङ्गं जीवनं वसु भीरुकम्
स्वभ्रं सौम्यं शोध्यं रूप्रं भीरु जवीयसम् १५९
-wordlist-
त्रापुष (क्ली), वङ्गं (क्ली), जीवन (क्ली), वसु (क्ली), भीरुक (क्ली), स्वभ्र (क्ली), सौम्य (क्ली), शोध्य (क्ली), रुच (क्ली), भीरु (क्ली), जवीयस (क्ली)
शब्दकल्पद्रुमः
Sanskrit
वङ्गं,
क्ली,
(वङ्गतीति वगि गतौ + अच् ।) धातु-विशेषः रां इति भाषा
तत्पर्य्यायः त्रपुः२ स्वर्णजम् नागजीवनम् मृद्वङ्गम् रङ्गम्६ गुरुपत्रम् पिच्चटम् चक्रसंज्ञम् तमरम्१० नागजम् ११ कस्तीरम् १२ आलीनकम् १३सिंहलम् १४ इति हेमचन्द्रः १०८
स्ववेतम् १५ नागम् १६ त्रपु १७ इति शब्द-रत्नावली
अस्य गुणाः तिक्तत्वम् मधु-रत्वम् भेदित्वम् पाण्डत्वम् कृमिवात-नाशित्वम् लेखनत्वम् किञ्चित्पित्तकारि-न्वञ्च इति राजवल्लभः
(अथ वङ्गस्य नाम-लक्षणगुणाः ।“रक्तवङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि ।खुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते
उत्तमं खुरकं तत्र मिश्रकन्त्ववरं मतम् ।रङ्गं लघु सरं रुक्षमुष्णं मेहकफक्रिमीन्
निहन्ति पाण्डुं सश्वासं चक्षुष्य पित्तलं मनाक् ।सिंहो यथा हस्तिगणं निहन्तितथैव वङ्गोऽखिलमेहवर्गम् ।देहस्य सौख्यं प्रवलेन्द्रियत्वंनरस्य पुष्टिं विदधाति नूनम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
अस्य शोधनमारणविधिर्यथा, --“वङ्गं चूर्णोदके स्विन्नं यामार्द्धेन विशुध्यति
”इति वङ्गशुद्धिः
“वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन संपुटेत् ।शुष्काश्वत्थभवैर्व्वल्कैः सप्तधा भस्मतां नयेत्
”मतान्तरम् ।“वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत् सुधीः ।द्रवीभूते पुनस्तस्मिन् चूर्ण्यान्येतानि दापयेत्
प्रथमं रजनीचूर्णं द्वितीये यमानिका ।तृतीये जीरकञ्चैव ततश्चिञ्चात्वगुद्भवम्
अश्वत्थवल्कलोत्थञ्च चूर्णं तत्र विनिः-क्षिपेत् ।एवं विधानतो वङ्गं म्रियते नात्र संशयः
वङ्गं तिक्ताम्लकं रुक्षं किञ्चिद्बातप्रकोपनम् ।मेदःश्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम्
”इति वङ्गमारणम् इति वैद्यकरसेन्द्रसारसंग्रहेजारणमारणाधिकारे
) अन्यद्रङ्गशब्दे द्रष्ट-व्यम्
*
सीसकम् देशविशेषे पुं भूम्नि ।इति मेदिनी गे, २२
(एकवचनान्तोऽपि ।यथा, महाभारते १०४ ५० ।“अङ्गस्याङ्गो भवेद्देशो वङ्गो वङ्गस्य चस्मृतः
”)स तु प्राचीदेशान्तर्गतदेशविशेषः यथा, --“अङ्गवङ्गा मद्गुरका अन्तर्गिरिवहिर्गिराः
”इत्युपक्रम्य ।“शाल्वा मागधगोनर्द्दाः प्राच्यां जनपदाःस्मृताः
”इत्यन्तं मत्स्यपुराणवचनम्
मतान्तरं यथा, --“आग्नेय्योमङ्गवङ्गोपवङ्गत्रिपुरकोषलाः ।कलिङ्गौढ्रान्ध्रकिष्किन्धाविदर्भशवरादयः
”इति ज्योतिस्तत्त्वधृतकूर्म्मचक्रवचनम्
तस्य सीमा यथा, --“रत्नाकरं समारभ्य ब्रह्मपुत्त्रान्तगं शिवे ! ।वङ्गदेशो मया प्रोक्तः सर्व्वसिद्धिप्रदर्शकः
”इति शक्तिसङ्गमतन्त्रे पटलः