वगलामुखी (vagalAmukhI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskritवगलामुखी दशमहाविद्यान्तर्गतदेवी-विशेषः । तदुक्तं तन्त्रान्तरे ।“ब्रह्मास्त्रं संप्रवक्ष्यामि सद्यःप्रत्ययकारकम् ।साधकानां हितार्थाय स्तम्भनाय च वैरि-णाम् ॥
यस्याः स्मरणमात्रेण पवनोऽपि स्थिरायते ।प्रणवं स्थिरमायाञ्च ततश्च वगलामुखि ॥
तदन्ते सर्व्वदुष्टानां ततो वाचं मुखं पदम् ॥
स्तम्भयेति ततो जिह्वां कीलयेति पदद्बयम् ॥
बुद्धिं नाशय पश्चात्तु स्थिरमायां समालिखेत् ।लिखेच्च पुनरोङ्कारं स्वाहेति पदमन्ततः ॥
षटत्रिंशदक्षरी विद्या सर्व्वसम्पत्करी मता ॥
”स्थिरमायां ह्लीँ । तथा च ।“वह्रिहीनेन्द्रमायायुक् स्थिरमाया प्रकीर्त्तिता ॥
ओँ ह्लीँ वगलामुखी सर्व्वदुष्टानां वाचं मुखंस्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीँओँ स्वाहा ॥
* ॥
तन्त्रान्तरे ।“वह्रिहीनेन्द्रमायायुक् वगलामुखि सर्व्वयुक् ।दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्त्तयेत् ॥
जिह्वां कीलय बुद्धिं तत् विनाशय पदं वदेत् ।पुनर्ब्बीजं ततस्तारं वह्निजायावधिर्भवेत् ।तारादिका चतुस्त्रिंशदक्षरा वगलामुखी ॥
”ओँ ह्लीँ वगलामुखि सर्व्वदुष्टानां वाचं मुखंस्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीँ ओँस्वाहा । इत्यपि मन्त्रान्तरम् ॥
* ॥
अनयोःपूजा । प्रातःकृत्यादिप्राणायामान्तं विधायऋष्यादिन्यासं कुर्य्यात् । यथा, शिरसि नारद-ऋषये नमः । मुखे तृष्टुप्छन्दसे नमः । हृदिवगलामुख्यै देवतायै नमः । गुह्ये ह्लीँ बीजायनमः । पादयोः स्वाहाशक्तये नमः ।“नारदोऽस्य ऋषिं मूर्द्ध्नि तृष्टुप् छन्दश्चतन्मुखे ।श्रीवगलामुखीं देवीं हृदये विन्यसेत्ततः ।ह्लीँ बीजं गुह्यदेशे तु स्वाहाशक्तिस्तु पादयोः ॥
”ततः कराङ्गन्यासौ । ओँ ह्लीँ अङ्गुष्ठाभ्यां नमः ।वगलामुखि तर्जनीभ्यां स्वाहा । सर्व्वदुष्टानांमध्यमाभ्यां वषट् । वाचं मुखं स्तम्भय अना-मिकाभ्यां हूँ । जिह्वां कीलय कीलय कनि-ष्ठाभ्यां वौषट् । बुद्धिं नाशय ह्लीँ ओँ स्वाहाकरतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । तथाच दिव्यतन्त्रे ।“युग्मबाणेषुसप्ताहिशेषार्णैश्च मनूद्भवैः ।करशाखासु तलयोः कराङ्गन्यासमाचरेत् ॥
”ततो मूलान्ते आत्मतत्त्वव्यापिनीवगलामुखीश्री-पादुकां पूजयामि इति मूलाधारे । मूलान्तेविद्यातत्त्वव्यापिनीवगलामुखीश्रीपादुकां पूज-यामि शिरसि । मूलान्ते शिवतत्त्वव्यापिनी-वगलामुखीश्रीपादुकां पूजयामि सर्व्वाङ्गे ।ततश्च ।“मूर्द्ध्नि भाले दृशोः श्रोत्रे गण्डयोर्नासयोःपुनः ।ओष्ठयोर्म्मुखवृत्ते च दक्षिणांशे च कूर्परे ॥
मणिबन्धेऽङ्गुलेर्म्मूले गले च कुचयोर्हृदि ।नाभौ कट्यां गुह्यदेशे वामांशे कूर्परे तथा ॥
मणिबन्धेऽङ्गुलेर्म्मूले ततश्च विन्यसेत् पुनः ।दक्षवामे चोरुजान्वोर्गुल् फयोरङ्गुलिमूलयोः ।क्रमेण मन्त्रवर्णास्तु न्यस्य ध्यायेत् यथाविधि ॥
” * ॥
ततो ध्यानम् ।“मध्ये सुराब्धिमणिमण्डपरत्नवेदी-सिंहासनोपरिगतां परिपीतवर्णाम् ।पीताम्बराभरणमाल्यविभूषिताङ्गींदेवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥
जिह्वाग्रमादाय करेण देवींवामेन शत्रुं परिपीडयन्तीम् ।गदाभिघातेन च दक्षिणेनपीताम्बराढ्यां द्विभुजां नमामि ॥
”एवं ध्यात्वा मानसैः सम्पूज्य बहिःपूजामार-भेत् ॥
* ॥
तत्र प्रथमतोऽर्घ्यस्थापनम् । यथा ।अष्टाङ्गुलं चतुरस्रं षिधाय ईशानादिकोणेषुपूर्व्वादिदिक्षु च कुसुमाक्षतरक्तचन्दनैर्म्लौं गण-पतये नमः इत्यनेन गजदानेन संपूज्य तेनमधुना वा अर्घ्यपात्रमापूरयेत् । ततो वारत्रयंविद्यया संपूज्य अङ्गानि विन्यसेत् । ततो धेनु-योनिमुद्रे प्रदर्श्य तेनोदकेन आत्मानं पूजोप-करणञ्चाभ्युक्षयेत् ॥
* ॥
अस्या यन्त्रम् । त्र्यस्रंषडस्रं वृत्तमष्टदलं भूपुरान्वितम् । ततो मूल-मुच्चार्य्यं ओँ आधारशक्तिकमलासनाय नमः ।एवं शक्तिपद्मासनाय नमः । पूर्व्ववत् ध्यात्वापीठे आवाह्य षडङ्गानि न्यसेत् । ततो मुद्रांप्रदर्श्य पुरतः षडङ्गेन मण्डलं यजेत् । ततोमूलेन मन्त्रयित्वा धेनुयोनिमुद्रे प्रदर्श्य आत्म-विद्याशिवैस्तत्त्वैर्बिन्दुत्रयं मुखे क्षिप्त्वा तर्जन्य-ङ्गुष्ठयोगेन साङ्गावरणां वगलामुखीं तर्पयेत् ।ततो यथासम्भवमुपचारैः संपूज्य आवरणपूजा-मारभेत् । षट्कोणेषु पूर्व्वे ओँ सुभगायै नमः ।एवमग्निकोणे भगसर्पिण्यै । ईशाने भगाव-हायै । पश्चिमे भगसिद्धायै । नैरृते भग-पातिन्यै । वायौ भगमालिन्यै । ततोऽष्टदल-पत्रेषु ब्राह्म्याद्याः पूज्याः । पत्राग्रेषु ओँ जयायैनमः । एवं विजयायै । अजितायै । अपरा-जितायै । स्तम्भिन्यै । जम्भिन्यै । मोहिन्यै ।आकर्षिण्यै । ततो द्वारेषु ओँ भैरवाय नमः ।तद्बाह्ये इन्द्रादीन् वज्रादीन् पूजयेत् । ततोमूलेन धूपादिकं दत्त्वा यथाशक्ति जपं विधायत्रिशूलमुद्रां प्रदर्श्य पुष्पाञ्जलित्रयं दत्त्वा देव्यै-योनिमुद्रां प्रदर्शयेत् । ततो भैरवाय वलिंदद्यात् । ततो विसर्जनान्तं कर्म्म समापयेत् ॥
अस्य पुरश्चरणं लक्षजपः । तथा च ।“पीताम्बरधरो भूत्वा पूर्व्वाशाभिमुखस्थितः ।लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया ॥
ब्रह्मचर्य्यरतो नित्यं प्रयतो ध्यानतत्परः ।प्रियङ्गुकुसुमेनापि पीतपुष्पैश्च होमयेत् ॥
” * ॥
द्वितीयमन्त्रस्य तु न्यासादिकं सर्व्वं पूर्व्ववत् ।ध्यानन्तु ।“गम्भीराञ्च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ।चतुर्भुजां त्रिनयनां कामलालसमानसाम् ॥
मुद्गरं दक्षिणे पाशं वामे जिह्वाञ्च वज्रकम् ।पीताम्बरधरां देवीं दृढपीनपयोधराम् ।हेमकुण्डलभूषाञ्च स्वर्णसिंहासनस्थिताम् ॥
” * ॥
अथ प्रयोगः ।“कुरुते वाग्गतिस्तम्भं दुष्टानां बुद्धिनाशनम् ।जपहोमप्रयोगे च मन्त्रं चाप्ययुतं जपेत् ॥
हरिद्राहरितालाभ्यां लवणं जुहुयान्निशि ।स्तम्भयेत् परसैन्यानि नात्र कार्य्या विचारणा ॥
अथवा पीतपुष्पैश्च त्रिमध्वक्तैश्च होमयेत् ।स्तम्भनेषु च सर्व्वेषु प्रयोगः प्रत्ययावहः ॥
” * ॥
यन्त्रन्तु ।“ओँकारयोः संमुखयोरूर्द्ध्वाधःशिरसोर्लिखेत् ।मध्यगं नाम साध्यस्य तद्बाह्ये चाक्षरद्बयम् ॥
बीजं द्वितीयवर्गस्य तृतीयं बिन्दुभूषितम् ।चतुर्द्दशस्वरोपेतं संलिखेत् पृथिवीगतम् ॥
ठकारेण समावेष्ट्य चतुष्कोणपुटं बहिः ।तत्कोणरेखासंसक्तैः शूलैर्व्वज्राष्टकं लिखेत् ॥
त्रिशूलमध्यरेखायाः पृथ्वी बीजानि पार्श्वयोः ।अष्टष्वपि च कोणेषु तद्बहिर्व्वगलां लिखेत् ॥
पृथिव्यन्तरितं बाह्ये मातृकापरिमण्डलम् ।आवेष्ट्य चाष्टधा पश्चात्तद्बाह्ये स्थिरमायया ॥
निरुध्याङ्कुशबीजेन नादसंमिलिताङ्घ्रिणा ।लिखेत् पूर्व्ववदावेष्ट्य पश्चाच्च वगलामुखीम् ॥
पट्टे पाषाणपट्टे वा हरिद्रोन्मत्ततालकैः ।दिव्यस्तम्भे मुखस्तम्भे लिखित्वा गाढमाक्रमेत् ॥
विवादे यन्त्रमालिख्य भूर्ज्जे तैरेव वस्तुभिः ।कुम्भकारस्य चक्रस्य भ्रमतो विपरीततः ॥
मृत्तिकां समुपादाय वृषभं कारयेत्ततः ।यन्त्रं तस्योपरि न्यस्य तालकेन विलिप्य च ॥
तन्नासायां विनिः क्षिप्य पीतरज्जुं निजे गृहे ।अर्च्चयेत्तं चतुष्कालं नित्यं पीतोपचारतः ।दुष्टस्य स्तम्भयत्येव मुखं वाचस्पतेरपि ॥
”इति वगलापरिच्छेदः ॥
* ॥
विश्वसारे ।“काली तारा महाविद्या षोडशी भुवनेश्वरी ।भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।एता दश महाविद्याः सिद्धविद्याः प्रकी-र्त्तिताः ॥
”अथ वगलामुखीस्तोत्रम् ।“मध्ये सुधाब्धिमणिमण्डपरत्नवेदी-सिंहासनोपरिगतां परिपीतवर्णाम् ।पीताम्बराभरणमाल्यविभूषिताङ्गींदेवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥
जिह्वाग्रमादाय करेण देवींवामेन शत्रुं परिपीडयन्तीम् ।गदाभिघातेन च दक्षिणेनपीताम्बरां तां द्विभुजां भजामि ॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलींलसत्कनकचम्पकद्युतिमदिन्दुविम्बाननाम् ।गदाहतविपक्षकां कलितलोलजिह्वाञ्चलांस्मरामि वगलामुखीं विमुखसन्मनःस्तम्भिनीम् ॥
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपेयत्सिंहासनमौलिपातितरिपुप्रेतासनाध्यासि-नीम् ।स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदावि-भ्रमा-मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽथसर्व्वापदः ॥
देवि त्वच्चरणाम्बुजार्च्चनकृते यः पीतपुष्पाञ्जलीन्भक्त्या वामकरे निधाय च मनुं मन्त्री मनो-ज्ञाक्षरम् ।पीठध्यानपरोऽथ कुम्भकवशात् बीजं स्मरेत्पार्थिवंतस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ॥
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरःशीततिक्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगःखञ्जति ।गर्व्वी खर्व्वति सर्व्वविच्च जडति त्वन्मन्त्रणा-यन्त्रितःश्रीनित्ये वगलामुखि प्रतिदिन कल्याणि तुभ्यंनमः ॥
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रञ्च तेयन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रञ्च चित्रंन ते ।मातः श्रीवगलेति नाम ललितं यस्यास्तिजन्तोर्म्मुखेत्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्-वादिनाम् ॥
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणंभूभृद्भूशमनं वलन्मृगदृशां चेतःसमाकर्षणम् ।सौभाग्यैकनिकेतनं मम दृशोः कारुण्यपूर्णामृतंमृत्योर्म्मारणमाविरस्तु पूरतो मातस्त्वदीयं वपुः ॥
मातर्भञ्जय मे विपक्षवदनं जिह्वाञ्चलां कीलयब्राह्मीं मुद्रय नाशयाशु धिषणामुग्रां गतिंस्तम्भय ।शत्रूं श्चूर्णय देवि तीक्ष्णगदया गौराङ्गिपीताम्बरेविघ्नौघं वगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वा-श्रयेश्रीविद्ये संमये महेशि वगले कामेशि रामे रमे ।मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदेदासोऽहं शरणागतः करुणया विश्वेश्वरित्राहि माम् ॥
संरम्भे चौरसङ्घे प्रहरणसमये बन्धने व्याधिमध्येविद्यावादे विवादे प्रकुपितनृपतौ दिव्यकालेनिशायाम् ।वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वावने वागच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुया-दाशु धीरः ॥
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याःपठत्यादरा-द्वृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वागले ।राजानो हरयो मदान्धकरिणः सर्पा मृगेन्द्रा-दिका-स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीःस्थिराः सिद्धयः ॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौघ-संछेदिनीयोषाकर्षणकारिणी जनमनःसम्मोहसन्दायिनी ।स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसंदायिनीजिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥
विद्या लक्ष्मीः सर्व्वसौभाग्यमायुःपुत्त्रैः पौत्त्रैः सर्व्वसाम्राज्यसिद्धिः ।मानं भोगो वश्यमारोग्यसौख्यंप्राप्तं तत्तद्भतलेऽस्मिन् नरेण ॥
यत् कृतं जपसन्नाहं गदितं परमेश्वरि ।दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥
पीताम्बरां द्विभुजाञ्च त्रिनेत्रां गात्रकोज्ज्वलाम् ।शिलामुद्गरहस्ताञ्च स्मरेत्तां वगलामुखीम् ॥
प्रातर्म्मध्याह्रकाले स्तवपठनमिदं कार्य्यसिद्धिप्रदंस्यात् ॥
”इति रुद्रयामले वगलामुखीस्तोत्रं समाप्तम् ।इति कृष्णानन्दकृततन्त्रसारः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
