| YouTube Channel

वक्रोक्तिः (vakroktiH)

 
Apte Hindi
Hindi
वक्रोक्तिः
स्त्री*
वक्र-उक्तिः -
एक अलंकार का नाम
वक्रोक्तिः
स्त्री*
वक्र-उक्तिः -
"वाक्छल, कटाक्ष, व्यंग्य"
वक्रोक्तिः
स्त्री*
वक्र-उक्तिः -
"कटूक्ति, ताना"
Wordnet
Sanskrit
Synonyms:
वक्रोक्तिः, काकूक्तिः
noun
अन्यस्यान्यार्थं सूचयन्ती उक्तिः।
"भूरि चिन्तनेन तस्य वक्रोक्तेः अर्थः मया ज्ञातः।"
Synonyms:
वक्रोक्तिः
noun
अप्रत्यक्षरूपेण कथनम्।
"तस्य वक्रोक्तिं ज्ञात्वा अहं क्रोधिता जाता।"
Synonyms:
वक्रोक्तिः
noun
साहित्यशास्त्रे अलङ्कारविशेषः।
"वक्रोक्त्याः द्विप्रकारौ एका शब्द-वक्रोक्तिः अपरा अर्थ-वक्रोक्तिः।"
शब्दकल्पद्रुमः
Sanskrit
वक्रोक्तिः,
स्त्री,
(वक्रा कुटिला उक्तिः ।)काकूक्तिः यथा, कामधेनुकल्पतरुधृतब्रह्म-पुराणम् ।“अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः ।ब्राह्मणानाह यत् किञ्चित् मयोत्सृष्टन्तुनिर्ज्जने
तत् कश्चिदन्यो नयेन्न विभाज्यं यथाक्रमम् ।न बाह्यं तत् क्षीरं पातव्यं केनचित्क्वचित्
”कृत्यप्रदीपेऽप्येवम् वक्रोक्तिभिः काकूक्तिभिः ।इति शुद्धितत्त्वम्
*
कुटिलोक्तिः यथा, “वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टःसभांजल्पन्नल्पमतिः स्मयात् पटुवटुर्भ्रूभङ्गवक्रो-क्तिभिः ।ह्रीतः सन्नुपहासमेति गणको गोलानभिज्ञस्तथाज्योतिर्व्वित्सदसि प्रगल् भगणकः प्रश्नप्रपञ्चो-क्तिभिः
”इति सिद्धान्तशिरोमणौ गोलाध्यायः
(वक्रा अर्थान्तरग्रहणेन कुटिला उक्तिः ।शब्दालङ्कारप्रभेदः तल्लक्षणादिकं यथा, साहित्यदर्पणे दशमपरिच्छेदे ।“अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि ।अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा
द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च क्रमे-णोदाहरणं यथा, --“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयःकिं ब्रूते विहगः वा फणिपतिर्यत्रास्ति सुप्तोहरिः ।वामा यूयमहो विडम्बरसिकः कीदृक् स्मरोवर्त्ततेयेनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्भ्रमः
”अत्र विशेषपदस्य विः पक्षी शेषो नाग इतिअर्थद्वययोगात् सभङ्गः श्लेषः अन्यत्र तु अभङ्गः ।“काले कोकिलवाचाले सहकारमनोहरे ।कृतागसः परित्यागात् तस्याश्चेतो दूयते
”अत्र कयाचित् सख्या निषेधार्थे नियुक्तो नञ्अन्यया काक्वा दूयत एवेति विध्यर्थे घटितः
”)