| YouTube Channel

वक्रं (vakraM)

 
शब्दकल्पद्रुमः
Sanskrit
वक्रं,
क्ली,
(वङ्कते इति षकि कौटिल्ये + रन् ।पृषोदरादित्वात् लोपः यद्बा, वञ्चतीति ।वञ्चु गतौ + “स्फायितञ्चिवञ्चीति ।” उणा०२ १३ इति रक् न्यङ्क्रादित्वात् कुत्वम् ।)नदीवङ्कः तत्पर्य्यायः पुटभेदः इत्य-मरः
वङ्कः इति भरतः
(तगर-पादिकम् तत्पर्य्यायो यथा, --“कालानुशारिवा वक्रं तगरं कुटिलं शठम् ।महोरगं नतं जिह्मं दीनं तगरपादिकम्
”इति वैद्यकरत्नमालायाम्
तथास्य विषयः ।“शताह्वै रण्डमूलोग्रा वक्रव्याघ्रीफलैः शृतम् ।तैलं नस्य मरुत्श्लेष्मतिमिरोर्द्ध्वगदापहम्
”इति शताह्वाद्यं तैलम् ।इति चक्रपाणिसंग्रहे शिरोरोगाधिकारे
)