| YouTube Channel

वकुलः (vakulaH)

 
Wordnet
Sanskrit
Synonyms:
बकुलः, वकुलः
noun
एकः वृक्षः यस्य पुष्पाणि सुगन्धितानि सन्ति।
"सः बकुले आरुह्य पुष्पाणि छिनत्ति।"
शब्दकल्पद्रुमः
Sanskrit
ब(व)कुलः,
पुं,
(ब(व)ङ्कते इति ब(व)कि कौटिल्ये+ “मद्गुरादयश्च ।” उणा० ४२ ।इति उरच् प्रत्ययरेफस्य लत्वं बङ्केर्नलोप-श्चेत्युज्ज्वलदत्तः ।) स्वनामख्यातपुष्पवृक्षः तत्-पर्य्यायः केसरः इत्यमरः ६४
केशरः इति भरतः
बकूलः सिंह-केसरः वरलब्धः सीधुगन्धः मुकूलः ८मुकुलः इति शब्दरत्नावली
स्त्रीमुख-मधु १० दोहलः ११ मधुपुष्पः १२ सुरभिः १३भ्रमरानन्दः १४ स्थिरकुसुमः १५ शारदिकः १६करकः १७ सीसंज्ञः १८ विशारदः १९ गूढ-पुष्यकः २० धन्वी २१ मदनः २२ मद्यामोदः२३ चिरपुष्पः २४
(यथा, महाभारते ।६३ ४२ ।“पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः
”)अस्य गुणाः शीतलत्वम् हृद्यत्वम् विष-दोषनाशित्वम् मधुरत्वम् कषायत्वम् ।मदाढ्यत्वम् हर्षदायकत्वञ्च
तत्कुसुमगुणाः ।रुच्यत्वम् क्षीराढ्यत्वम् सुरभित्वम् शीत-लत्वम् मधुरत्वम् स्निग्धत्वम् कषायत्बम् ।मलसंग्रहकारकत्वञ्च इति राजनिर्घण्टः
अपि ।“बकुलो मधुगन्धश्च सिंहकेसरकस्तथा ।बकुलस्तु वरोऽनुष्णः कटुः पाके रसे गुरुः
कफपित्तविषश्वित्रकृमिदन्तगदापहः
”इति भावप्रकाशः
तत्फलगुणाः ।“बकुलं मधुरं ग्राहि दन्तस्थैर्य्यकरं परम्
”तत्पुष्पगुणाः ।“पद्मं कषायं मधुरं शीतं पित्तकफास्रनुत् ।तद्बत् बकुलपुन्नागकह्लारोत्पलपाटलम्
”इति राजवल्लभः
अस्योत्पत्तिर्यथा, --“विचरन्तं तदा भूयो महेशं कुसुमायुधः ।आरात् स्थित्याग्रतो धन्वी सन्तापयितुमुद्यतः
ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः ।स्मरमालोकयामास शिखाग्राच्चरणान्तिकम्
आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि ।प्रादह्यत तदा ब्रह्मन् ! पादादारभ्य कक्ष्यवत्
प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः ।उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा
यदासीन्मुष्टिबन्धन्तद्रुक्मपृष्ठं महाप्रभम् ।स चम्पकतरुर्जातः स्रग्गन्धाढ्यो गुणाकृतिः
नाहस्थानं शुभाकारं यदासीद्बज्रभूषितम् ।तज्जातं केशवारण्यं बकुलं नामतो नगैः
या कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता ।जाता सा पाटला रम्या भृङ्गराजिविराजिता
नाहोपरि तथा मुष्टौ स्थानं चन्द्रमणिप्रभम् ।पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला
ऊर्द्ध्वं मुष्ठ्या अधः कोट्याः स्थानं विद्रुमभूषितम् ।तस्मात् बहुपुटा मल्ली संजाता विविधा मुने !
”इति श्रीवामनपुराणे अध्यायः
(शिवः यथा, महाभारते तस्य सहस्रनाम-कीर्त्तने १३ १७ १०९ ।“बणिको वर्द्धकी वृक्षो बकुलश्चन्दनश्छदः ।सारग्रीवो महाजत्रुरलोलश्च महौषधः
”)