वकारः (vakAraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit वकारः
वर्णामालायाः नवविंशतितमं व्यञ्जनं यद् उकारस्य विकारः इति मन्यते।
"वकारस्य उच्चारणं दन्तानाम् ओष्ठयोः च सहाय्येन भवति।"
वाचस्पत्यम्
Sanskritवकारः व्यञ्जनवर्णभेदः । स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात्अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्योवः स्मृतो बुधैः” शिक्षोक्तेः । अस्योच्चारणे जिह्वा-ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर-प्रयत्नः । बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च ।अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्यकार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः अण-परः । दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिकोबो वा पक्षे अनुस्वारस्थितिः । अस्य मातृकान्यासे वाम-स्कन्धे न्यस्यता । काव्यादौ प्रयोगे “व्यसनमथ लवौ” वृ०र० टी० उक्तेः व्यसनं फलम् । वर्णाभिधाने अस्य वा०चकशब्दा उक्ता यथा “वो वाणो वारुणी सूक्ष्मावरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वक्त्रं कलसोवारिवाचकः । उत्कारी शालिनी शान्ता वातः स्फिकसागरः शुचिः । इन्द्रधारा च वामांसः करमूलं च न-र्त्तकः । जगद्भाषी सारिणी च देवोऽलिङ्गोऽनिरुद्धकः ।गिरिराजो निवृत्तात्मा व्यङ्कद्या निन्दिनी करः” अस्यध्येयस्वरूपं यथा “वकारं चञ्चलापाङ्गि! कुण्डलीमोक्षमव्ययम । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ।त्रिविन्दुसहितं वर्णमात्मादतत्त्वसंयुतम् । पञ्चदेवमयंवृर्णं पीतविद्युल्लतोपमम् । चतुर्वर्गप्रदं वर्णं सर्वसिद्धि-प्रदायकम्” कामधेनुत० “अस्याधिष्ठातृध्येयरूपं यथा “कुन्द-पुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् । शुक्लमाल्याम्बर-धरां रत्नहारोज्ज्वलां पराम् । साधकाभीष्टदां सिद्धासिद्धिदां सिद्धसेविताम् । एवं ध्यात्वा वकारं तु तन्मन्त्रंदशधा जपेत्” वर्णोद्धारतन्त्रम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
