| YouTube Channel

वकवृत्तिः (vakavRttiH)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)कवृत्तिः,
पुं,
(बकस्येव स्वार्थसाधिका वृत्ति-र्यस्य ।) बकतुल्यवर्त्तनविशिष्टः यथा, --“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्शठान् ।हैतुकान् बकवृर्त्तीश्च वाङ्मात्रेणापि नार्च्चयेत्
”इति विष्णुपुराणे अंशे १८ अध्यायः
तस्य लक्षणं यथा, --“अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः
”इति तट्टीकायां श्रीधरस्वामी
अपि ।“अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।शठः शिल्पी विनीतश्च बकवृत्तिरुदाहृतः
”इति पाद्मोत्तरखण्डे ११५ अध्यायः