| YouTube Channel

वंशपत्री (vaMzapatrI)

 
शब्दकल्पद्रुमः
Sanskrit
वंशपत्री,
स्त्री,
(वंशपत्र + गौरादित्वात् ङीष् ।)नाडीहिङ्गुः तृणविशेषः तत्पर्य्यायः वंश-दला जीरिका जीर्णपत्रिका अस्यागुणाः सुमधुरत्वम् शिशिरत्वम् पित्तरक्त-दोषनाशित्वम् रुच्यत्वम् पशूनां दुग्धदायि-त्वञ्च इति राजनिर्घण्टः
तत्पर्य्यायगुणाः ।“वंशपत्री वेणुपत्री पिण्डा हिङ्गु शिवाटिका ।हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री कीर्त्तिता
”इति भावप्रकाशः