| YouTube Channel

वंवणकः-णिका (vaMvaNakaH-NikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वण शब्दार्थः”@} 2 ‘व्रण--’ इति धा।
का।
व्याख्यायाम् 3।
वाणकः-णिका, वाणकः-णिका, विवणिषकः-षिका, वंवणकः-णिका
वणिता-त्री, वाणयिता-त्री, विवणिषिता-त्री, वंवणिता-त्री
4 इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककणतिवत् 5 ज्ञेयानि।
उद्वणः, उल्बणः, 6 वाणः, 7 बाणः, वाणी 8, 9 वाणिः, अन्तर्वाणिः वाणिनी 10, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१५४६)
02
=>
(१-भ्वादिः-४४६। अक। सेट्। पर।)
03
=>
(१-५८।)
04
=>
[पृष्ठम्११८९+ २५]
05
=>
(१५७)
06
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्प्रत्यये रूपमेवम्।]]
07
=>
[[२। ‘बणत्यस्मिन् ज्या इति-बाणः’ इति क्षीरतरङ्गिण्यामुपात्तत्वात् केचित् अस्य ‘वण’ इत्यस्य ‘बण’ इति अभिप्रयन्ति इति ज्ञायते।]]
08
=>
[[३। ‘इञ् वपादिभ्यः’ (वा। ३-३-१०८) इति इञन्तात् ‘सर्वतोऽक्तिन्नर्थादित्येके’ (ग। सू। ४-१-४५) इति ङीन् भवति इति मा। धा। वृत्तिः। वस्तुतस्तु ‘कृदिकारादक्तिनः’ (गणसूत्रम् ४-१-४५) इति ङीष्प्रत्ययेऽपि रूपमेवम्। ‘--गीर्वाक् वाणी सरस्वती’ इत्यमरः।]]
09
=>
[[४। ‘इण् अजादिभ्यः’ (वा। ३-३-१०८) इति भावे इण्प्रत्यये वाणिः इति। वाणिः = वाक् इत्यमरः। ‘वाणिः स्याद् दूतिभारत्योर्वाणिः मूल्ये बलाहके’ इति विश्वः। ‘बलीवर्दपङ्क्तिरिव समाधुर्या वाणी मनोहरति’ इति दमयन्ती- श्लेषाद्दीर्घान्तोऽपि वाणीशब्दः।]]
10
=>
[[५। अवश्यं वणतीति व्युत्पत्त्यां ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इति आवश्य- कार्थे णिनिप्रत्यये तदन्तात् ङीपि रूपमेवम्। वाणिनी = विदग्धस्त्री।]]