| YouTube Channel

लोहाभिहारः (lohAbhihAraH)

 
Apte Hindi
Hindi
लोहाभिहारः
पुं*
लोह-अभिहारः -
नीराजन' से मिलता-जुलता एक सैनिक-संस्कार
शब्दकल्पद्रुमः
Sanskrit
लोहाभिहारः,
पुं,
(लोहानामभिहारो यत्र ।)शस्त्रभृतां राज्ञां नीराजनाविधिः इत्यमरः
महानवमीदीक्षायां अश्वादीनां नीराजने सतिपश्चात् शस्त्रधारिणां राज्ञां यः शास्त्रोक्तोनिर्म्मञ्छनप्रधानो विधिः प्रस्थानात् प्राक् सलोहाभिहारः लोहस्य शस्त्रस्य अभिहारःसर्व्वतो हरणमत्रेति बहुव्रीहिः लोहाभिहारइत्युक्तो विधिर्नीराजनोत्तर इत्यमरमाला
लोहोऽस्त्री शस्त्रके लौहे इति मेदिनी
लोहा-भिसार इति पठन्त्यन्ये तत्र लोहं शस्त्र अभि-सार्य्यते प्रस्थाप्यतेऽत्रेति घञ् वाहनायुधादे-र्निःशेषेण राजनं यत्र सा नीराजना नीरस्यशान्त्युदकस्य अजनं क्षेपो यत्र सा नीराजनावा इति भारतः