| YouTube Channel

लोहकिट्टं (lohakiTTaM)

 
शब्दकल्पद्रुमः
Sanskrit
लोहकिट्टं,
क्ली,
(लोहस्य किट्टम् ।) लोहमलम् ।तत्पर्य्यायः किट्टम् लोहचूर्णम् अयोमलम्४ लोहजम् कृष्णचूर्णम् लोष्टम् लोह-मलम् (यथा, सुश्रुते ४४ ।“मूत्रस्यितं सैन्धवसंप्रयुक्तंमांसं पिबेद्वापि हि लोहकिट्टम्
”)अस्य गुणाः मधुरत्वम् कटुत्वम् उष्णत्वम् ।कृमिवातपक्तिशूलमहच्छूलमेहगुल्मशोफनाशि-त्वञ्च इति राजनिर्घण्टः
अपि ।“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।लोहसिंहानिका किट्टी सिंहाङ्गञ्च निगद्यते
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम्
”इति भावप्रकाशः
(तथास्योद्धरणादिविधिः ।“शतोर्द्ध्वमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम् ।अधमं षष्टिवर्षोयं ततो हीनं विषोपमम्
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य-धिकारे
“कुरवं पथ्याचूर्णं द्विपलगन्धाश्मलोहकिट्टञ्च ।शुद्धरसस्यार्द्धपलं भृङ्गस्य रसं केशराजस्य
”इति वैद्यकचक्रपाणिसंग्रहे परिणामशूलाधि-कारे
)