| YouTube Channel

लोहः (lohaH)

 
Apte Hindi
Hindi
लोहः
पुं*
- -
लाल बकरा
लोहः
पुं*
- लूयतेऽनेन+लू+ह
लोहा
लोहः
पुं*
- लूयतेऽनेन+लू+ह
इस्पात
लोहः
पुं*
- लूयतेऽनेन+लू+ह
ताँबा
लोहः
पुं*
- लूयतेऽनेन+लू+ह
सोना
लोहः
पुं*
- लूयतेऽनेन+लू+ह
अगर की लकड़ी
Wordnet
Sanskrit
Synonyms:
अयः, लोहम्, लोहः, आयसम्, लौहम्, लौहः, कृष्णायसम्, कालायसम्, कृष्णम्, कालम्, तीक्ष्णम्, शस्त्रकम्, पिण्डम्, अश्मसारः, गिरिजम्, गिरिसारः, शिलाजम्, शिलात्मजम्, निशितम्, कान्तः, दृढम्, मलीमसः
noun
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
"अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।"
Synonyms:
लोहः
noun
एकः जनसमूहः
"लोहस्य उल्लेखः महाभारते वर्तते"
Synonyms:
लोहः
noun
एकः पुरुषः
"लोहस्य उल्लेखः नडादिगणे वर्तते"
Tamil
Tamil
லோஹ: : உலோகம், தாதுப் பொருள், இரும்பு, எஃகு, தாமிரம், தங்கம், ரத்தம்.
अमरकोशः
Sanskrit
Word: लोहः
Root: लोह
Gender: पुं
Number: all
Meaning(s):
red
iron
metal
blood
weapon
copper
reddish
red goat
fish-hook
made of iron
kind of bird
made of copper
copper-coloured
iron or steel or gold or any metal
Shloka(s):
2|9|98|1 लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। (वैश्यवर्गः)
2|9|98|2 अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥ (वैश्यवर्गः)
3|3|180|1 निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः। (नानार्थवर्गः)
Synonym(s):
2|9|98|1 लोहः (लोह) (पुं) red, iron, metal, blood, weapon, copper, reddish, red goat, fish-hook, made of iron, kind of bird, made of copper, copper-coloured, iron or steel or gold or any metal
2|9|98|1 लोहम् (लोह) (नपुं) red, iron, metal, blood, weapon, copper, reddish, red goat, fish-hook, made of iron, kind of bird, made of copper, copper-coloured, iron or steel or gold or any metal
2|9|98|1 शस्त्रकम् (शस्त्रक) (नपुं)
2|9|98|1 तीक्ष्णम् (तीक्ष्ण) (नपुं) hot, acid, iron, rude, keen, heat, rough, harsh, sharp, fiery, haste, death, poison, severe, battle, zealous, pungent, vehement, pungency, sea-salt, over-rigid, any weapon, pestilence, inauspicious, sharp language, self-abandoning, Thai long pepper [Piper Chaba - Bot.], Asa foetida [Ferula Asa Foetida - Bot.], kaaSTa paaTali tree [Bignonia Suaveolens - Bot.]
2|9|98|1 पिण्डम् (पिण्ड) (नपुं) iron, solid, steel, dense, compact, fresh butter
2|9|98|1 कालायसम् (कालायस) (नपुं)
2|9|98|1 अयः (अयस्) (नपुं)
2|9|98|2 अश्मसारः (अश्मसार) (पुं)
2|9|98|2 अश्मसारम् (अश्मसार) (नपुं)
3|3|180|1 शस्त्रम् (शस्त्र) (नपुं) iron, sword, razor, steel, knife, weapon, dagger, praise, missile, reciting, invocation, recitation, any weapon, any instrument or tool, instrument for cutting or wounding
Related word(s):
अवयव_अवयवीसंबन्धः लोहमलम्
परा_अपरासंबन्धः धातुविशेषः
जातिः धातुः
उपजीव्य_उपजीवक_भावः लोहकारकः
शब्दकल्पद्रुमः
Sanskrit
लोहः,
पुं,
क्ली,
(लूयतेऽनेनेति लू + बाहुलकात्हः ।) लौहम् जोङ्गकम् सर्व्वतैजसम् इतिमेदिनी हे,
रुधिरम् इति राजनिर्घण्टः
अथ मुण्डलोहस्य पर्य्यायः मुण्डम् मुण्डा-यसम् दृषत्सारम् शिलात्मजम् अश्म-जम् कृषिलोहम् आरम् कृष्णायसम्
अथ तीक्ष्णलोहस्य पर्य्यायः तीक्ष्णम् २शस्त्रायसम् शस्त्रम् पिण्डम् पिण्डा-यसम् शठम् आयसम् निशितम् ९तीव्रम् १० खड्गम् ११ मुण्डजम् १२ अयः १३चित्रायसम् १४ चीनजम् १५ अस्य गुणाः ।रूक्षत्वम् उष्णत्वम् तिक्तत्वम् वातपित्त-कफप्रमेहपाण्डुशूलनाशित्वम् तीक्ष्णत्वम् ।मुण्डाधिकगुणत्वञ्च इति राजनिर्घण्टः
*
अथ लोहस्योत्पत्तिनामलक्षणगुणाः ।“पुरा लोमिलदैत्यानां निहतानां सुरैर्युधि ।उत्पन्नानि शरीरेभ्यो लोहानि विविधानि
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालाय-सायसी ।गुरुता दृढतोत्क्लेदकफदाहस्य कारिता ।अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु
लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु ।रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्
कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः ।मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि
षण्डत्वकुष्ठामयमृत्युदं भवेत्हृद्रोगशूलौ कुरुतेऽश्मरीञ्च ।नानारुजाञ्चापि तथा प्रकोपंकरोति हृल्लासमशुद्धलोहम्
जीवहारि मदकारि चायसंचेदशुद्धिमदसंस्कृतं ध्रुवम् ।पाटवं तनुते शरीरकेदारुणां हृदि रुजाञ्च यच्छति
*
तत्र सारलोहस्य लक्षणं गुणाश्च ।“क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते ।लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते
लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् ।अर्द्धसर्व्वाङ्गजं वातं शूलञ्च परिणामजम् ।छर्द्दिञ्च पीनसं पित्तं श्वासमाशु व्यपोहति
”अथ कान्तलोहस्य लक्षणं गुणाश्च ।पत्पात्रे प्रसरति जले तैलबिन्दुः प्रतप्तेहिङ्गुर्गन्धं त्यजति चनिजं तिक्ततां निम्बकन्दः ।तप्तं दुग्धं भवति शिखराकारकं नैति भूमिंकृष्णाङ्गः स्यात् सजलचणकः कान्तलोहंतदुक्तम्
गुल्मोदरार्शःशूलाममामवातं भगन्दरम् ।कामलाशोथकुष्ठानि क्षयं कान्तमयो जयेत्
प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम् ।सर्व्वान्रोगान् विजयते कान्तलोहं संशयः ।बलं वीर्य्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्द्धयेत्
”अथ किट्टी ।“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।लोहसिंहानिका किट्टी सिंहानञ्च निगद्यते
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम्
”अथ लोहस्याशुद्धस्य दोषमाह ।“षण्डत्वकुष्ठामयमृत्युकारिहृद्रोगशूलौ कुरुतेऽश्मरीञ्च ।नानारुजानाञ्च तथा प्रकोपंकुर्य्याच्च हृल्लासमशुद्धलोहम्
”अथ लोहस्य दोषशान्तये शोधनमभिधीयते ।“पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत् ।निषिञ्चेत्तप्ततप्तानि तैले तक्रे काञ्जिके
गोमूत्रे कुलत्थानां कषाये त्रिधा त्रिधा ।एवं लोहस्य पत्राणां विशुद्धिः संप्रजायते
”अथ लोहस्य मारणविधिः ।“शुद्धलोहभवं चूर्णं पातालगरुडीरसैः ।मर्द्दयित्वा पुटेद्वह्रौ दद्यादेवं पुटद्धयम्
पुटत्रयं कुमार्य्याश्च कुठारच्छिल्लिकारसैः ।पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत्
”अन्यच्च ।“क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः ।मर्द्दयेत् कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् ।एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्
सत्योऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारणे ।कथ्यते रामराजेन कौतूहलधियाधुना
सूतकाद्द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् ।द्वयोः समं लौहचूर्णं मर्द्दयेत् कन्यकाद्रवैः
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ।घर्म्मे धृत्वा रूवुकस्य पत्रैराच्छादयेद्बुधः
यामद्बयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः ।दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत्
पिष्ट्वा गालयेद्वस्त्रादेवं वारितरं भवेत् ।दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा
तद्रसेनायसश्चूर्णं सन्नीयात् प्लावयेदपि ।आतपे शोषयेत्तच्च पुटेदेव पुनः पुनः ।एकविंशतिवारैस्तत्म्रियते नात्र संशयः ।एवं सर्व्वाणि लोहानि स्वर्णादीन्यपि मारयेत्
”एवं मारितलोहस्य गुणाः ।“लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु ।रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्
कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः ।मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि
गुञ्जामेकां समारभ्य यावत् स्युर्नवरक्तिकाः ।तावल्लोहं समश्नीयाद्यथादोषानलं नरः
कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा ।मद्यमम्लरसञ्चैव वर्जयेल्लोहसेवकः
”इति भावप्रकाशः
लोहपात्रे भक्षणनिषेधो यथा, --“यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः ।स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते
”इति मत्स्यसूक्ततन्त्रम्
अपि ।“अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव ।भृष्टादिकं मधु गुडं नारिकेलोदकन्तथा
फलं मूलञ्च यत्किञ्चिदभक्ष्यं मुनिरब्रवीत्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम्
(अश्मन एवास्य उत्पत्तिः श्रूयते यथा, मनुः ।९ ३२१ ।“अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुत्थितम् ।तेषां सर्व्वत्रगं तेजः स्वासु योनिषु शाम्यति
”पुं, छागः तु लक्षणान्वितः कृष्णवर्णो रक्त-वर्णो वा यथा, मनुः २७२ ।“कालशाकं महाशल्काः खड्गलोहामिषं मधु ।आनन्त्यायैव कल्पन्ते मुन्यन्नानि सर्व्वशः
”पार्व्वत्यजातिविशेषः यथा, महाभारते ।२७ २५ ।“लोहान् परमकाम्बोजानृषिकानुत्तरानपि ।सहितांस्तान् महाराज व्यजयत् पाक-शासनिः
”रक्तवर्णे, त्रि यथा, महाभारते १३६ २३ ।“भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।पञ्चबाणान् सुसंयुक्तान् मुमोचैकबाणवत्
”)