| YouTube Channel

लोलुठकः-ठिका (loluThakaH-ThikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लुठ उपघाते”@} 2 ‘श्लेषालस्योपघातेषु प्रतिघाते क्रमाल्लुठेत्।
लुण्ठेत्, लोठति लोठेत किन्तु गत्यां लुण्ठति।।’ 3 इति देवः।
“अत्र मैत्रेयः ‘उठेत्यप्येके’ इति।
4 धनपाल- शाकटायनौ रुठ लुठेत्येव पेठतुः।
क्षीरस्वामी तु उठिं पठित्वा ‘रुठ लुठ इत्यपि दौर्गाः’ इत्याह” इति मा।
धा।
वृत्तिः।
लोठकः-ठिका, लोठकः-ठिका, लुलुठिषकः-लुलोठिषकः-षिका, लोलुठकः-ठिका
लोठिता-त्री, लोठयिता-त्री, लुलुठिषिता-लुलोठिषिता-त्री, लोलुठिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुकतिवत् 5 ऊह्यानि।
6
प्रासङ्गिक्यः
01
=>
(१५०३)
02
=>
(१-भ्वादिः-३३७। सक। सेट्। पर।)
03
=>
(श्लो। ७८)
04
=>
[लुंड इत्येके इति च।]
05
=>
(१९७)
06
=>
[पृष्ठम्११७१+ २४]
1 {@“लुठ प्रतीघाते”@} 2 क्षीरस्वामी त्वेवं पठित्वा ‘लुट इत्येके’ इत्याह।
‘श्लेषालस्योपघातेषु प्रतिघाते क्रमाल्लुठेत्।
लुण्ठेत्, लोठति लोठेत किन्तु गत्यां लुण्ठति।।’ 3 इति देवः।
लोठकः-ठिका, लोठकः-ठिका, लुलुठिषकः-लुलोठिषकः-षिका, लोलुठकः-ठिका
लोठिता-त्री, लोठयिता-त्री, लुलुठिषिता-लुलोठिषिता-त्री, लोलुठिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुकतिवत् 4 बोध्यानि।
कर्तरि क्तप्रत्यये 5 लुठितम्-लोठितम् 6 इति।
प्रासङ्गिक्यः
01
=>
(१५०४)
02
=>
(१-भ्वादिः-७४९। सक। सेट्। आत्म।)
03
=>
(श्लो। ७८)
04
=>
(१९७)
05
=>
[[१। ‘उदुपधात्--’ (१-२-२१) इति निष्ठायाः कित्त्वविकल्पेन रूपद्वयं भवति।]]
06
=>
[[आ। ‘श्रिया समग्रं द्युति तं मदेनेव प्रलोठितम्।।’ भ। का। ७-१०४।]]