| YouTube Channel

लोलार्कः (lolArkaH)

 
शब्दकल्पद्रुमः
Sanskrit
लोलार्कः,
पुं,
(लोलनामा अर्कः ।) सूर्य्यः यथा, पुलस्त उवाच ।“ततः सुकेशिवचनात् सर्व्व एव निशाचराः ।तेनोदितन्तु ते धर्म्मं चक्रुर्मुदितमानसाः
ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः ।पुत्त्रपौत्त्रार्थसंयुक्ताः सदाचारसमन्विताः
तज्ज्योतिस्तेजसा तेषां राक्षसानां महात्मनाम् ।गन्तुं नाशक्नुवन् सूर्य्यो नक्षत्राणि चन्द्रमाः
ततस्त्रिभुवनं ब्रह्मन् निशाचरपुरोऽभवत् ।दिवा सूर्य्यस्य सदृशः क्षणदायाञ्च चन्द्रवत्
ततः क्रोधाभिभूतेन भानुना विप्रभेदिभिः ।भानुभी राक्षसपुरं तद्दृष्टञ्च यथेच्छया
तद्भानुना तदा दृष्टं क्राधाध्मातेन चक्षुषा ।निपपाताम्बराद्दृष्टः क्षीणपुण्य इव ग्रहः
पतमानं समालोक्य पुरं शालङ्कटङ्कटः ।नमो भवाय सर्व्वाय इदमुच्चैरधीयत
तेषां क्रन्दितमाकर्ण्य चारणा गगनेचराः ।हाहेत्युच्चुक्रुशुः सर्व्वे हरभक्तः पतत्यसौ
तच्चारणवचः शर्व्वः श्रुतवान् सर्व्वतोऽव्ययः ।श्रुत्वा चिन्तयामास केनासौ पात्यते भुवि
ज्ञातवान् देवपतिना सहस्रकिरणेन तत् ।पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः
क्रुद्धस्तु भगवान् दृग्भिर्भानुमन्तमपश्यत ।दृष्टमात्रस्त्रिनेत्रेण निपपात ततोऽम्बरात्
ततो ब्रह्मा सुरपतिः सुरैः सार्द्धं समभ्ययात् ।रम्यं महेश्वरावासं मन्दरं रविकारणात्
गत्वा दृष्ट्वा देवेशं शङ्करं शूलपाणिनम् ।प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत्
ततो दिवाकरं भूयः पाणिनादाय शङ्करः ।कृत्वा नामास्य लोलेति रथमारोपयत् पुनः
आरोपिते दिनकरे ब्रह्माभ्येत्य सुकेशिनम् ।सबान्धवं सनगरं पुनरारोपयद्दिवि
”इति श्रीवामनपुराणे सुकेशिचरिते लोलार्क-जननं नाम १५ अध्यायः