| YouTube Channel

लोमहर्षणः (lomaharSaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
लोमहर्षणः,
पुं,
(विचित्रपुराणकथाश्रवणात्लोम्नां हर्षणं उद्गमो यस्मात् ।) सूतः यथा, “पुराणसंहितां चक्रे पुराणार्थविशारदः ।प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोभहर्षणः
पुराणसंहितां तस्मै ददौ व्यासो महामुनिः
”इति विष्णुपुराणे अंशे अध्यायः
*
बलरामेण हतः यथा, --“तथा क्षेत्रे सूतपुत्त्रो निहतो लोमहर्षणः ।बलरामास्त्रयुक्तात्मा नैमिषेऽभूत् स्ववाञ्छया
”इति कल्किपुराणे २७ अध्यायः