| YouTube Channel

लोमशातनं (lomazAtanaM)

 
शब्दकल्पद्रुमः
Sanskrit
लोमशातनं,
क्ली,
(लोम्नां शातनम् ।) लोम-पातनम् तस्यौषधानि यथा, --“हरितालं शङ्खचूर्णं कदलीदलभस्मना ।एतद्द्रव्येण चोद्बर्त्त्य लोमशातनमुत्तमम्
लवणं हरितालञ्च तण्डुल्याश्च फलानि ।लाक्षारससमायुक्तं लोमशातनमुत्तमम्
सुधा हरितालञ्च शङ्खञ्चैव मनःशिला ।सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ।तत्क्षणोद्बर्त्तनादेव लोमशातनमुत्तमम्
”इति गारुडे १८५ अध्यायः
(तथाच ।“भल्लातकं बिडङ्गञ्च यवक्षारञ्च सैन्धवम् ।मनःशिला शङ्खचूर्णं तैलपक्वं तथैव ।लोमानि शातयत्येव नात्र कार्य्या विचारणा
”इति वैद्यके भैषज्यधन्वन्तरौ वशीकरणाद्यधि-कारे
*
)