| YouTube Channel

लोमपादः (lomapAdaH)

 
शब्दकल्पद्रुमः
Sanskrit
लोमपादः,
पुं,
(लोमानि पादयोर्यस्य ।) अङ्ग-देशीयराजविशेषः तु ऋष्यशृङ्गमुनि-श्वशुरः इति रामायणम्
(अयं हि सूर्य्य-वंशावतंसस्य दशरथस्य सखा विप्रावमान-नात एवास्य राष्ट्रे बहुकालं अवग्रहः सम्बभूवतत एवासौ काश्यपं ऋष्यशृङ्गं स्वराष्ट्रेआनीय शान्तां नाम दशरथकन्यामस्मै दत्त-वान् एतद्वृत्तान्तन्तु महाभारते वनपर्व्वणि११० अध्यायतो विशेषतो द्रष्टव्यम्
)