| YouTube Channel

लोध्रः (lodhraH)

 
Apte Hindi
Hindi
लोध्रः
पुं*
- "रुनद्धि औष्ण्यम्, रुध्+रन्"
लाल या सफेद फूलों वाला वृक्ष विशेष
Wordnet
Sanskrit
Synonyms:
लोध्रः, गालवः, शाबरः, तिरीटः, तिल्वः, मार्जनः, लोधवृक्षः, भिल्लतरुः, तिल्वकः, काण्डकीलकः, लोध्रकवृक्षः, शम्बरः, हस्तिरोध्रकः, तिलकः, काण्डनीलकः, हेमपुष्पकः, भिल्ली, शावरकः
noun
वृक्षविशेषः।
"लोध्रस्य चर्म एवं काष्ठं औषधाय उपयुज्यते।"
वैजयन्तीकोषः
Sanskrit
Word: लोध्रः
Root: लोध्र
Gender: पुं
Number: all
अर्थः
Meaning(s):
Lodh
Symplocus of which there are three kinds white
red and black
Tamil Vel̤alotti
Shloka(s):
3|3|52|1 सिते लोध्रे महालोध्रः शवरश्चाथ लोहिते। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|52|1 लोध्रः (लोध्र) (पुं) Lodh
Symplocus of which there are three kinds white
red and black
Tamil Vel̤alotti
Related word(s):
परा_अपरासंबन्धः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
लोध्रः,
पुं,
(रुणद्धीति रुध + बाहुलकात् रन् ।रस्य लः ।) लोधवृक्षः (यथा, शिशुपाल-वधे ४६ ।“अधरेष्वलक्तकरसः सुदृशांविशदं कपोलभुवि लोध्ररजः ।नवमञ्जनं नयनपङ्कजयो-र्विभिदे शङ्खनिहितात् पयसः
”)तत्पर्य्यायः गालवः शावरः तिरीटः ४तिल्वः मार्जनः इत्यमरः
षट् लोध्र-मात्रे लोध इति ख्याते षट् श्वेतलोध्र इतिसुभूतिः
आद्यपादः श्वेतलोध्रे शेषो रक्तलोध्रइति स्वामी
तस्य पर्य्यायान्तरं यथा लोध्रः ७भिल्लतरुः तिल्वकः काण्डकीलकः १०लोध्रकवृक्षः ११ शम्बरः १२ हस्तिरोध्रकः १३तिलकः १४ काण्डनीलकः १५ हेमपुष्पकः १६भिल्ली १७ शावरकः १८ अस्य गुणाः ।कषायत्वम् शीतत्वम् वातकफास्रनाशित्वम् ।चक्षुष्यत्वम् विषहृत्त्वम् तत्र विशिष्टो वल्क-लोध्रकः इति राजनिर्घण्टः
अपि ।“लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा ।द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः
जीर्णपत्रो बृहत्पत्रः पट्टीलाक्षाप्रसादनः ।लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् ।कषायो रक्तपित्तासृग्वातातीसारशोथहृत्
”इति भावप्रकाशः
(तथा ।“तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः ।तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्ज्जिताम्
चूर्णयेत्तु त्रिधा कृत्वा द्बौ भागौ श्च्योतयेत्ततः ।लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्
भागं तं दशमूलस्य पुनः क्वाथेन भावयेत् ।शुष्कं चूर्णं पुनः कृत्वा तत ऊर्द्धं प्रयोजयेत्
दधितक्रसुरामण्डमूत्रैर्वदरशीधुना ।रसेनामलकानां वा ततः पाणितलं पिबेत्
”“सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्
”इति चरके कल्पस्थाने नवमेऽध्याये
)