| YouTube Channel

लोटकः-टिका (loTakaH-TikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लुट विलोटने”@} 2 ‘णौ लोटयति भाषार्थे लुट्येल्लोटति लोटने।।’ लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-लुलोटिषकः-षिका, लोलुटकः-टिका
लुटिता-त्री, लोटयिता-त्री, लुलुटिषिता-लुलोटिषिता-त्री, लोलुटिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुकतिवत् 4 ऊह्यानि।
“लुड-- इति टवर्गतृतीयान्तः इति कौशिककाश्यपनन्दिद्रमिडाः” इति मा।
धा।
वृत्तौ।
‘-- विलोडने’ इति दुर्गः।
‘लुट--’ इत्यत्र ‘लुल-- इति अन्ये’ इति धा।
का।
व्याख्याने 5।
“भूवादिसूत्रे 6 सुधाकरः- ‘लुल--’ इति लान्तोऽपि दृश्यते, ‘आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्- भुजाकारबृहत्तरङ्गम्’ शि।
व।
7 इति।
डलयोरेकत्वस्मरणमिति वा प्रतिविधेयम्” इति मा।
धा।
वृत्तौ।
इत्युक्तमत्र स्मरणीयम्।
8 लोलमानः 9।
10
प्रासङ्गिक्यः
01
=>
(१४९७)
02
=>
(१-भ्वादिः। ३१४। सक। सेट्। पर।)
03
=>
(श्लो। ७३-७४)
04
=>
(१९७)
05
=>
(२-१)
06
=>
(१-३-१)
07
=>
(३-७२)
08
=>
[[१। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-२९) इति ताच्छील्ये चानश्प्रत्यये रूपमेवम्।]]
09
=>
[[आ। ‘आमृशद्भिरभितो वलिवीचीर्लोलमानवितताङ्गुलिहस्तैः।’ शि। व। १०-५९।]]
10
=>
[पृष्ठम्११६९+ २५]
1 {@“लुट प्रतीघाते”@} 2 ‘लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
अयं पाठो देवमैत्रेयादीनाम्।
क्षीरस्वामी तु द्वितीयान्तं पठित्वा ‘लुट’ इत्येके, इति वदति।
लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-लुलोटिषकः-षिका, लोलुटकः-टिका
लुटिता-त्री, लोटयिता-त्री, लुलुटिषिता-लुलोटिषिता-त्री, लोलुटिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककुकतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१४९८)
02
=>
(१-भ्वादिः-७४९। सक। सेट्। आत्म।)
03
=>
(श्लो। ७४)
04
=>
(१९७)
1 {@“लुट विलोडने”@} 2 ‘-- विलोटने’ इति क्षीरस्वामी।
‘लुठ--’ इति द्वितीयान्तः पठितः सि।
कौमुद्याम्।
धातुकाव्येऽपि 3 एवमेव।
शतरि-लुठ्यन् इति अस्य प्रयोगोऽपि दृश्यते।
‘णौ लोटयति भाषार्थे, लुट्येल्लोटति लोटने।।’ 4 इति देवः।
लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-लुलोटिषकः-षिका, लोलुटकः-टिका
लोटिता-त्री, लोटयिता-त्री, लुलुटिषिता-लुलोटिषिता-त्री, लोलुटिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकगुध्यतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१४९९)
02
=>
(४-दिवादिः-१२२२। सक। सेट्। पर।)
03
=>
(२-६६)
04
=>
(श्लो। ७३)
05
=>
(४०५)
1 {@“लुट संश्लेषणे”@} 2 कुटादिः।
‘लुठ--’ इति धा।
का।
व्याख्याने 3, ‘लुड इत्येके’ इति तत्रोपात्तम्।
क्षीरतरङ्गिण्यां धातुरयं पठितः।
अपि तु ‘पुट संश्लेषणे’ इत्यत्र ‘लुट विलोडने इति दुर्गः’ इत्युपात्तम्।
तत्र टिप्पन्यां “कातन्त्र- धातुपाठे ‘लुट संश्लेषणे’ इति पाठः, काशकृत्स्ने लुठ--” इत्येवं दृश्यते।
‘णौ लोटयति भाषार्थे लुट्येत् लोटति लोटने।।’ 4 इति देवः।
लोटकः-टिका, लोटकः-टिका, लुलुटिषकः-षिका, लोलुटकः-टिका
लुटिता-त्री, लोटयिता-त्री, लुलुटिषिता-त्री, लोलुटिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिककुटतिवत् 5 बोध्यानि।
6
प्रासङ्गिक्यः
01
=>
(१५००)
02
=>
(६-तुदादिः-१३८१। सक। सेट्। पर।)
03
=>
(२-८१)
04
=>
(श्लो। ७३)
05
=>
(२०४)
06
=>
[पृष्ठम्११७०+ २६]
1 {@“लुट भाषार्थः”@} 2 आस्वदीयः।
‘णौ लोटयति भाषार्थे लुट्येल्लोटति लोटने।।’ 3 इति देवः।
लोटकः-टिका, लुलोटयिषकः-षिका
लोटयिता-त्री, लुलोटयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककोटयतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१५०१)
02
=>
(१०-चुरादिः-१७५५। सक। सेट्। उभ।)
03
=>
(श्लो। ७३)
04
=>
(२०५)