| YouTube Channel

लोचनं (locanaM)

 
शब्दकल्पद्रुमः
Sanskrit
लोचनं,
क्ली,
(लोचतेऽनेनेति लोच + ल्युट् ।)चक्षुः इत्यमरः
तस्य शुभाशुभलक्षणंयथा, --“वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः ।मार्जारलोचनैः पापो महात्मा मधुपिङ्गलैः
क्रूराः केकरनेत्राश्च हरिणाक्षाः सकल्मषाः ।जिह्मैश्च लोचनैः क्रूराः सेनान्यो गजलोचनाः
गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः ।नीलोत्पलाक्षा विद्वांसः सौभाग्यं श्यावचक्षु-षाम्
स्यात् कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल ।मण्डलाक्षाश्च पापाः स्युर्निःस्वाः स्युर्दीर्घ-लोचनाः
दृक् स्निग्धा विपुला भोगे अल्पायुर्नाभि-रुन्नता ।विशालोन्नता सुखिनो दरिद्रा विषमभ्रुवः
”इति गारुडे ६५ अध्यायः