| YouTube Channel

लोकितुम् (lokitum)

 
Kridanta Forms
Sanskrit
लोक् (लो꣡कृँ॒ दर्शने - भ्वादिः - सेट्)
ल्युट् = लोकनम्
अनीयर् = लोकनीयः - लोकनीया
ण्वुल् = लोककः - लोकिका
तुमुँन् = लोकितुम्
तव्य = लोकितव्यः - लोकितव्या
तृच् = लोकिता - लोकित्री
क्त्वा = लोकित्वा
ल्यप् = प्रलोक्य
क्तवतुँ = लोकितवान् - लोकितवती
क्त = लोकितः - लोकिता
शानच् = लोकमानः - लोकमाना
लोक् (लो꣡कृँ꣡ भाषार्थः - चुरादिः - सेट्)
ल्युट् = लोकनम्
अनीयर् = लोकनीयः - लोकनीया
ण्वुल् = लोककः - लोकिका
तुमुँन् = लोकयितुम् / लोकितुम्
तव्य = लोकयितव्यः / लोकितव्यः - लोकयितव्या / लोकितव्या
तृच् = लोकयिता / लोकिता - लोकयित्री / लोकित्री
क्त्वा = लोकयित्वा / लोकित्वा
ल्यप् = प्रलोक्य
क्तवतुँ = लोकितवान् - लोकितवती
क्त = लोकितः - लोकिता
शतृँ = लोकयन् / लोकन् - लोकयन्ती / लोकन्ती
शानच् = लोकयमानः / लोकमानः - लोकयमाना / लोकमाना
कृदन्तरूपमाला
Sanskrit
1 {@“लोकृ दर्शने”@} 2 ‘दर्शने लोकते लोकेर्भाषार्थे णौ तु लोकयेत्।।’ 3 इति देवः।
लोककः-किका, लोककः-किका, लुलोकिषकः-षिका, लोलोककः-किका
लोकिता-त्री, लोकयिता-त्री, लुलोकिषिता-त्री, लोलोकिता-त्री
लोकन्-न्ती, लोकयन्-न्ती, लुलोकिषन्-न्ती
-- लोकिष्यन्-न्ती-ती, लोकयिष्यन्-न्ती-ती, लुलोकिषिष्यन्-न्ती-ती
-- लोकमानः, लोकयमानः, लुलोकिषमाणः, लोलोक्यमानः
लोकिष्यमाणः, लोकयिष्यमाणः, लुलोकिषिष्यमाणः, लोलोकिष्यमाणः
लोक्-लोग्-लोकौ-लोकः
-- -- -- लोकितम्-तः, लोकितः, लुलोकिषितः, लोलोकितः-तवान्
लोकः, आलोकः, अवलोकः
-- -- -- 4 उलूकः, लोकनः, विलोकः, प्रलोकी, भयलोकी, लोकः, लुलोकिषुः, लोलुकः
लोकितव्यम्, लोकयितव्यम्, लुलोकिषितव्यम्, लोलोकितव्यम्
लोकनीयम्, लोकनीयम्, लुलोकिषणीयम्, लोलोकनीयम्
लोक्यम्, लोक्यम्, लुलोकिष्यम्, लोलोक्यम्
ईषल्लोकः-दुर्लोकः-सुलोकः
-- -- -- लोक्यमानः, लोक्यमानः, लुलोकिष्यमाणः, लोलोक्यमानः
लोकः, लोकः, लुलोकिषः, लोलोकः
5 लोकितुम्, लोकयितुम्, लुलोकिषितुम्, लोलोकितुम्
लोका, लोकना, लुलोकिषा, लोलोका
लोकनम्, आलोकनम्- 6 अवलोकनम्, लोकनम्, लुलोकिषणम्, लोलोकनम्
लोकित्वा, लोकयित्वा, लुलोकिषित्वा, लोलोकित्वा
7 आलोक्य, आलोक्य, आलुलोकिष्य, आलोलोक्य
लोकम् २, लोकित्वा २, लोकम् २, लोकयित्वा २, लुलोकिषम् २, लुलोकिषित्वा २, लोलोकम्
लोलोकित्वा २।
प्रासङ्गिक्यः
01
=>
(१५२०)
02
=>
(१-भ्वादिः-७६। सक। सेट्। आत्म।)
03
=>
(श्लो। ४०)
04
=>
[[१। ‘उलति नेत्राभ्यां दहति उलूकः। ऊर्ध्वालोकनादिति निरुक्तम्’ इति अमर- टीकायां क्षीरस्वामिना उक्तम्। द। उ। वृत्तौ तु (३-४६) ‘उत्क्रम्य दृष्टि- विषयमालोकयतीति उलूकः कौशिकः’ इत्येवं दृश्यते। अत्राहोज्ज्वलदत्तः-- ‘सर्वस्वे तु ऊर्ध्वौ कर्णावस्येति पृषोदरादित्वात् उलूक इत्यपि साधितम्’ इति।]]
05
=>
[पृष्ठम्११७९+ २३]
06
=>
[[आ। ‘अक्लिन्दनीयान् शुधितात्मनो जनान् प्रशीकते यः करुणावलोकनैः।’ धा। का। १-११।]]
07
=>
[[B। ‘आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।’ शि। वि। ९-८४।]]
1 {@“लोकृ भाषार्थः”@} 2 आस्वदीयः।
‘दर्शने लोकते लोकेर्भाषार्थे णौ तु लोकयेत्।।’ 3 इति देवः।
‘-- भामार्थः’ इति क्षीरस्वामी।
आस्वदीयत्वात् णिज्विकल्पः।
शुद्ध-ण्यन्त-सन्नन्त-यङन्तरूपाणि सर्वाणि पूर्वोक्तभौवादिकलोकतिवत् 4 ऊह्यानि।
लोककः-किका, लुलोकयिषकः-षिका
लोकयिता-त्री, लुलोकयिषिता-त्री
5 लोकन्-न्ती, लुलोकयिषन्-न्ती
लोकयिष्यन्-न्ती-ती, लुलोकयिषिष्यन्-न्ती-ती
लोकयमानः, लुलोकयिषमाणः, लोकयिष्यमाणः, लुलोकयिषिष्यमाणः
लोक्- लोकौ-लोकः
लोकितः, लुलोकयिषितः-तम्-तवान्
लोकः, लुलोकयिषुः
लोकयितव्यम्, लुलोकयिषितव्यम्
लोकनीयम्, लुलोकयिषणीयम्
लोक्यम्, लुलोकयिष्यम्
लोक्यमानः, लुलोकयिष्यमाणः
ईषल्लुलोकयिषः-दुर्लुलोकयिषः-सुलुलोकयिषः
-- -- लोकः, लुलोकयिषः
लोकितुम्, लुलोकयिषितुम्
लोकना, लुलोकयिषा
लोकनम्, लुलोकयिषणम्
लोकयित्वा, लुलोकयिषित्वा
विलोक्य, विलुलोकयिष्य
लोकम् -लोकयित्वा
लुलोकयिषम् -लुलोकयिषित्वा
इति ण्यन्ते तत्प्रकृतिकसन्नन्ते रूपाणीति विशेषः।
6
प्रासङ्गिक्यः
01
=>
(१५२१)
02
=>
(१०-चुरादिः-१७७७। अक। सेट्। उभ।)
03
=>
(श्लो। ४०)
04
=>
(१५२०)
05
=>
[[१। आस्वदीयत्वात् णिजभावपक्षे शतरि परस्मैपदमेव।]]
06
=>
[पृष्ठम्११८०+ २७]