| YouTube Channel

लेपनं (lepanaM)

 
शब्दकल्पद्रुमः
Sanskrit
लेपनं,
क्ली,
(लिप् + ल्युट् ।) लेपः लेपा इतिभाषा यथा, --“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।तत्र मां लेपयेद्गन्धलेपनैरतिशोभितम्
”इति तिथ्यादितत्त्वम्
विष्णुगृहलेपनफलं यथा, --वराह उवाच ।“शृणु तत्त्वेन मे देवि ! लिप्यमानस्य यत् फलम् ।सर्व्वं ते कथयिष्यामि यथा प्राप्नोति मानवः
गोमयं गृह्य वै भूमे मम वेश्मोपलेपयेत् ।न्यस्तानि तत्र यावन्ति पदानि विलिम्पतः
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ।यदि द्बादश वर्षाणि लिप्यते मम कर्म्मसु
जायते विपुले शुद्धे धनधान्यसमाकुले
दिव्यैर्नमस्कृतो देवि ! कुशद्वीपाय गच्छति ।कुशद्वीपमनुप्राप्य सहस्रं जीवते दश ।मद्भक्तश्चैव जायेत महिमागुणवान् शुचिः
कुशद्वीपात् परिभ्रष्टो मम कर्म्मपरायणः ।राजा वै जायते सुभ्रु सर्व्वधर्म्मेषु निष्ठितः
लेपनस्य प्रभावेण मम कर्म्मपरायणः ।भक्त्या व्यवस्थितश्चापि सर्व्वशास्त्राणि गच्छते
देवि ! कारयते सर्व्वं मम चायतनानि
कारयित्वा यथान्यायं मम लोकाय गच्छति
गोमयस्य तु वक्ष्यामि तच्छृणुष्व वसुन्धरे ।गोमयन्तु समासाद्य यावल्लोकोऽनुगच्छति
समीपे यदि वा दूरे गत्वानयति गोमयम् ।यावन्ति तत्पदान्यस्य तावद्बर्षसहस्रकम् ।गोमयानयिता चैव स्वर्गलोके महीयते
एकादशसहस्राणि एकादशशतानि ।ततः शाल्मले द्वीपे रमते मुदा युतः
शाल्मलात्तु परिभ्रष्टो राजा भवति धार्म्मिकः ।मद्भक्तश्चैव जायेत सर्व्वधर्म्मविदांवरः
अथ द्वादशवर्षाणि मच्चित्तः सुदृढव्रतः ।वहते गोमयं सुभ्रु मम लोकाय गच्छति
”इति वराहपुराणम्
देवीगृहलेपनफलं यथा, --“देव्या गृहन्तु यः शुक्र गोमयेनानुलेपयेत् ।स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त-रम् ।स लभेदीप्सितान् कामान् देव्या लोकञ्चगच्छति
”देवीपुराण ४२ अध्यायः
(रात्रौ लेपननिवधो यथा, --“न रात्रौ लेपनं कुर्य्यात् शुष्कमाणं धार-येत् ।शुष्कमाणमुपेक्षेत प्रदेहे पीडनं प्रति
”इति मध्यखण्डे त्रयोविंशेऽध्याये शार्ङ्गधरे-णोक्तम्
)