| YouTube Channel

लूञ् (lUJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लू
मूलधातुः:
लूञ्
धात्वर्थः:
छेदने
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
लुनाति-लुनीते
अनुबन्धादिविशेषः:
प्वादिः ल्वादिः
धातुप्रदीपः
Sanskrit
लूञ् छेदने
- लुनाति लुनीते लविता अलावीत् अलविष्ट अलाविष्ट अलविध्वम् अलविढ्वम् लूत्वा लूनः लूनिः लवित्रम् 11
क्षीरतरङ्गिणी
Sanskrit
लूञ् छेदने
- लुनाति, लुनीते लविता सनि नेट् (द्र0 7212)-लुलूषति अलीलवत् लिलावयिषति ओः पुयण्ज्यपरे (7480) इत्यभ्यासस्येत्त्वम् ल्वादिभ्यश्च (तु0 8244) इति -निष्ठानत्वम् -लूनः ऋकारल्वादिभ्यः क्तिन् निष्ठावत् (8244वा0)-लूनिः अर्तिलूधू (तु0 32184 इत्रन्) इतीत्रन्-लवित्रम् आणक लूशिङ्घ (तु0 दश0 उ0 327) इति लवाणकः लूता हसनमृगॄ (उ0 386) इति तन्-लोतः प्रुसृल्वः समभिहारे वुन् (31149) लवकः नामन्-सामन् (दश0 उ0 679) इति लोम निरभ्योः पूल्वोः (3328) घञ् अभिलावः 11
धातुवृत्तिः
Sanskrit
लूञ् (अर्थः) छेदने
( लुनाति लुनीते ) इत्यादि पुनातिवत् ( लवित्रम् ) "अर्तिलू''इति इत्रः ( लूत्वा लूनः ) "ल्वादिभ्य'' इति निष्ठानत्वम् ( लूनिः ) "ऋल्वादिभ्यः क्तिन्निष्ठावत्'' इति नत्वम् ( लवकः ) "प्रुसृल्वः समभिहारे वुन्'' इति वुन् ( अभिलावः ) "निरभ्योः पूल्वोः'' इति घञ् अपोऽपवादः ( लोत्रम्, ) करणे ष्ट्रन् (लोतः) "हसिमृग्रिण्वाऽमिदमिलूपूधुर्विभ्यस्तन्'' इति तन् उभयत्र "तितुत्र'' इतीण्निषेधः 11
कृदन्तरूपमाला
Sanskrit
1 {@“लूञ् छेदने”@} 2 प्वादिः, ल्वादिश्च।
लावकः-विका, लावकः-विका, लुलूषकः-षिका, लोलूयकः-यिका
लविता-त्री, लावयिता-त्री, लुलूषिता-त्री, लोलूयिता-त्री
लुनन्-ती, लावयन्-न्ती, लुलूषन्-न्ती
-- लविष्यन्-न्ती-ती, लावयिष्यन्-न्ती-ती, लुलूषिष्यन्-न्ती-ती
-- लुनानः, लावयमानः, लुलूषमाणः, लोलूयमानः
लविष्यमाणः, लावयिष्यमाणः, लुलूषिष्यमाणः, लोलूयिष्यमाणः
कंसलूः-ल्वौ-ल्वः
-- -- -- 3 विपक्षलावः, 4 5 सकृल्लूः, 6 लुलुवुषः पश्य, लुलविवान्, 7 शत्रुलावो व्रजति, 8 लोलूया 9, 10 लवकः, 11 12 लूत्वा, 13 लूनः, 14 लूनिः, 15 अभिलावः, 16 17 खङ्गलावं 18 19 खङ्गेन लावं वा, 20 लवित्रम् 21 22 लवः, 23 लवणः, 24 लिलावयिषुः, लिलावयिषा, 25 लवाणकम्, 26 लुवा, 27 लोम, 28 त्रप्रत्यये रूपमेवम्
छन्दसि विषये।
लुनाति लूयते वा लोत्रम् = शरीरम्।]] लोत्रम्, इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिकपुनातिवत् 29 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१५१६)
02
=>
(९-क्र्यादिः-१४८३। सक। सेट्। उभ।)
03
=>
[[आ। ‘विपक्षलावस्य निजस्य शत्रोः अह्नाय भूत्वा लवको बहूनि।’ वा। वि। २-३९।]]
04
=>
[[१। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययः।]]
05
=>
[[२। ‘क्विप् च’ (३-२-७६) इति सोपपदात् कर्तरि क्विप्।]]
06
=>
[[३। कर्तरि क्वसुप्रत्ययः। काशिकायां (६-४-२२) प्रत्युदाहृतत्वात् भाषायामपि धातोरस्मात् क्वसुरिति ज्ञेयम्। अत्र ‘न शसदद--’ (६-४-१२६) इत्यादिना एत्वाभ्यासलोपौ न।]]
07
=>
[[४। क्रियार्थक्रियायामुपपदे ‘अण् कर्मणि च’ (३-३-१२) इति भविष्यत्यर्थेऽण्प्रत्ययः।]]
08
=>
[[B। ‘तस्याः सासद्यमानाया लोलूयावान् रघूत्तमः।’ भ। का। ४-३१।]]
09
=>
[[५। यङन्तात् ‘अ प्रत्ययात्’ (३-३-१०२) इत्यकारप्रत्ययः। स्त्रियां टाप् भवति।]]
10
=>
[[६। ‘प्रुसृल्वः समभिहारे वुन्’ (३-१-१४९) इति कर्तरि वुन्प्रत्ययः। समभिहारो नाम (लक्षणया) साधुकारित्वम्
\n\n अतश्च यः सकृदपि सुष्ठु करोति उच्यते लवक इति।]]
11
=>
[[C। ‘लवकौ शत्रुशक्त्रीनामृष्यमूकमगच्छताम्।।’ भ। का। ६-८६।]]
12
=>
[[७। ‘श्रयुकः क्किति’ (७-२-११) इतीण्निषेधः। एवमेव क्तक्तिन्प्रभृतिष्वपि इण्निषेधो बोध्यः।]]
13
=>
[[८। ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठातकारस्य नकारः।]]
14
=>
[[९। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वक्तव्यः’ (वा। ३-३-१०८) इति तकारस्य नकारः।]]
15
=>
[[१०। ‘निरभ्योः पूल्वोः’ (३-३-२८) इति अभिपूर्वकात् भावे घञ्। अप्प्रत्ययापवादः।]]
16
=>
[[ड्। ‘वनाभिलावान् कुर्वन्तः स्वेच्छया चारुविक्रमाः।।’ भ। का। ३-७७।]]
17
=>
[[११। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति तृतीयान्त उपपदे णमुल्।]]
18
=>
[पृष्ठम्११७७+ ३३]
19
=>
(रिपुं मारयति)
20
=>
[[१। ‘अर्तिलूधू--’ (३-२-१८४) इति करणे इत्रप्रत्ययः। केचित्तु लुवित्रमिति रूपमाहुः। तन्मते गुणाभावश्चिन्त्यः। कल्पसूत्रप्रयोगास्तु छान्दसत्वेन साधवः।]]
21
=>
[[आ। ‘वयं शत्रुलवित्रेषोर्दूता रामस्य भूपतेः।।’ भ। का। ७-८७।]]
22
=>
[[२। ‘ऋदोरप्’ (३-३-५७) इति अप्प्रत्ययः। घञोऽपवादः।]]
23
=>
[[३। नन्द्यादित्वात् शुद्धादपि धातोः कर्तरि ल्युप्रत्यये, तत्रैव (३-१-१३४) गणे पाठात् णत्वमिति ज्ञेयम्। लवणः--एतन्नामकोऽसुरः। लवणम् इति तु अविवक्षित- प्रकृतिप्रत्ययार्थः शब्दः रसविशेषे रूढो लुडन्तः।]]
24
=>
[[B। ‘दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति।।’ रघुवंशे १५-५।]]
25
=>
[[४। ‘आणको लूञ्--’ (द। उ। ३-२७) इति आणकप्रत्ययः। लवाणकम् = दात्रम्।]]
26
=>
[[५। औणादिके (द। उ। ६-५१) कनिन्प्रत्यये रूपमेवम्।]]
27
=>
[[६। औणादिके (द। उ। ६-७९) मनिन्प्रत्यये लकारस्य रत्वं विकल्पेन निपात्यते
\n\n लो(रो)म = केशाः। ‘रुहे रुचेश्च रौतेश्च रुदिरुध्यो रुषेरपि। षण्णामेव धातूनां रोमशब्दं निपातयेत्।।’ इति (क्वाचित्कः) श्वेतवनवासिग्रन्थः।]]
28
=>
[[७। औणादिके [द। उ। ८-९०]
29
=>
(१०३५)