| YouTube Channel

लुलुम्बयिषकः-षिका (lulumbayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लुबि अदर्शने”@} 2 ‘लुम्बयेद् तुम्बयेदर्दे शपि लुम्बति तुम्बति।।’ 3 इति देवः।
क्षीरतरङ्गिण्यां ‘--अर्दने’ इत्युक्तम्।
देवमैत्रेयौ ‘अर्दने’ इत्येव पठतः।
चुरादिपाठादेव इदित्करणात् लुम्बयति-लुम्बति इति सिद्धेः अर्दनेऽर्थे भ्वादौ पाठोऽस्य व्यर्थः स्यात्।
इह 4 अदर्शनेऽर्थे तु अर्थभेदात् सोऽपि 5 सार्थकः स्यात्।
अत एव ‘अदर्शने’ इत्येव समञ्जसमिति भाति।
लुम्बकः-म्बिका, लुलुम्बयिषकः-षिका, लुम्बकः-म्बिका, लुलुम्बिषकः-षिका, लोलुम्बकः-म्बिका
लुम्बयिता-त्री, लुलुम्बयिषिता-त्री, लुम्बिता-त्री, लुलुम्बिषिता-त्री, लोलुम्बिता-त्री
इत्यादीनि रूपाणि भाषार्थकचौरादिककुंशयतिवत् 6 ऊह्यानि।
कर्मणि क्तप्रत्यये 7 लुम्बितम्-तः इति।
प्रासङ्गिक्यः
01
=>
(१५१३)
02
=>
(१०-चुरादिः-१६५७। अक। सेट्। उभ।)
03
=>
(श्लो। १३९)
04
=>
[चुरादौ]
05
=>
[भ्वादौ पाठः]
06
=>
(२३२)
07
=>
[[B। ‘किं कुम्ब्यते सदसि लुम्बितवैभवोऽहम्…।’ धा। का। ३-२९।]]