| YouTube Channel

लुलुण्ठयिषिता-त्री (luluNThayiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लुण्ठ स्तेये”@} 2 ‘… स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
धातुकाव्ये 4 ‘--अनादरे द्रुमे’ इत्युपात्तम्।
‘लुण्ठ लुण्ट’ इति टवर्गप्रथमान्तः, द्वितीयान्त इति चात्र मतद्वयम्।
‘लुण्ड’ इत्यपि शाकटायनः।
पुरुषकारे टान्तपाठ एव साधुः, ठान्तो- ऽप्रामाणिक इति साग्रहं क्षीरस्वामिमतनिरासपूर्वकं प्रतिपादितम्।
माधव- प्रभृतयः ठान्तपाठमेव न्यासादिग्रन्थसंवादपुरस्सरं स्थापयामासुः।
‘जल्पभिक्ष- कुट्टलुण्ट--’ 5 इत्यत्र सूत्रकारैः टान्तोऽथ वा ठान्तः पठितोऽयं धातुरित्यत्र नियामकं किमपि दृश्यते।
उभयेऽपि स्वस्वमतानुसारेण टान्तं ठान्तं सूत्रेऽपि पठन्ति।
ईदृशस्थलेषु ‘प्रयोग एव भगवान् तान् व्यवस्थापयेत् पथि’ इत्युक्तदिशा शिष्टप्रयोगस्योभयधाऽप्युपलम्भाद् वयं तूष्णीकाः।
लुण्ठकः-ण्ठिका, लुलुण्ठयिषकः-षिका, लोलुण्ठकः-ण्ठिका
लुण्ठयिता-त्री, लुलुण्ठयिषिता-त्री, लोलुण्ठिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिक- कुस्मयतिवत् 6 बोध्यानि।
7--’ 8 इति षाकन्प्रत्यये रूपमेवम्।
षित्त्वात् स्त्रियां ङीषि लुण्ठाकी इति रूपम्।]] लुण्ठाकः-ठाकी, लुण्टाकः- 9 टाकी।
प्रासङ्गिक्यः
01
=>
(१५०७)
02
=>
(१०-चुरादिः-१५६३। सक। सेट्। उभ।)
03
=>
(श्लो। ७४)
04
=>
(३-१६)
05
=>
(३-२-१५५)
06
=>
(२३६)
07
=>
[[१। तच्छीलादिषु कर्तृषु ‘जल्पभिक्षकुट्टलुण्ठ[ट]
08
=>
(३-२-१५५)
09
=>
[[आ। ‘त्रिभुवनतमोलुण्टाकीनामहो मिहिरत्विषा…।’ अनर्घराघवे २-७७।]]