| YouTube Channel

लुलितः (lulitaH)

 
शब्दकल्पद्रुमः
Sanskrit
लुलितः, त्रि, (लुल + क्तः ।) आन्दोलितः यथा, “प्रेङ्क्षोलितस्तरलितो लुलितान्दोलितावपि
”इति भूरिप्रयोगः
(यथा, कथासरित्सागरे ३७ ७० ।“हत्वा रथाश्वांश्चिच्छेद शिरो लुलितकुण्ड-लम्
”विकीर्णः इति श्रीधरः
यथा, भागवते ।९ ३४ ।“युधि तुरगरजो विधूम्रविष्वक्कचलुलितश्रमवार्य्यलङ्कृतास्ये
”व्याप्तः यथा, रामायणे ६५ १९ ।“न स्म विभ्राजते देवी शोकाश्रुलुलितानना
”ग्लानः यथा, आर्य्यासप्तशत्याम् ।“प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहै-रङ्गैः ।जामातरि मुदितमनास्तथा तथा सादराश्वश्रूः
”उन्मूलितः यथा, भागवते १९ २४ ।“विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतत्यथा नगेन्द्रो लुलितो नभस्वता
”खण्डितः यथा, तत्रैव १० ।“किम्बन्तकासिलुलितात् पततां विमानात्
”विध्वस्तः यथा, तत्रैव २३ ।“येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू-विस्फूर्ज्जितेन लुलिताः तु ते निरस्तः
”)