| YouTube Channel

लुभ (lubha)

 
Wilson
English
लुभ r. 4th cl. (लुभ्यति) To desire, to covet. r. 6th cl.
(लुभति) To bewilder, to perplex or delude.
With प्र or सं, To attract or allure.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लुभ्
मूलधातुः:
लुभ
धात्वर्थः:
गार्ध्ये (आकाङ्क्षा)
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लुभ्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुः:
लुभ्
मूलधातुः:
लुभ
धात्वर्थः:
विमोहने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लुभति
धातुप्रदीपः
Sanskrit
लुभँ लुभ गार्ध्ये
- लुभ्यति लुलोभ लोभिता लोब्धा अलुभत् लोभित्वा लुभित्वा लुब्ध्वा लुब्धः लोभः 131
लुभँ लुभ विमोहने
- लुभति लुलोभ लोभिता लोब्धा लुभित्वा लोभित्वा विलुभितः (6) लुभ्यतीति तु लुभ गार्ध्ये इत्यस्य 25
शब्दकल्पद्रुमः
Sanskrit
लुभ, इर् गार्ध्ये इति कविकल्पद्रुमः
(दिवा०-पर०-सक०-सेट् ।) गार्ध्यमाकाङ्क्षा य, लुभ्यति धनं लुब्धः इर्, अलुभत् अलोभीत् ।अस्मात् पुषादित्वात् नित्यं इत्यन्ये इतिदुर्गादासः
लुभ, विमोहने इति कविकल्पद्रुमः
(तुदा०-पर०-अक०-सेट् ।) श, लुभत्यात्मनि कामे ।इति हलायुधः
लोभिता लोब्धा इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
लुभ विमोहने तु०
पर०
अक० सेट् लुभति अलोभीत्
लुभ आकाङ्क्षायां दि०
पर०
सक०
सेट् लुभ्यति इरित्अलुभत्--अलोभीत्
क्षीरतरङ्गिणी
Sanskrit
लुभँ लुभ गार्द्ध्ये
- गार्द्ध्यम् अभिकाङ्क्षा लुभ्यति अलुभत् तीषु सह (तु0 7248) इति लोब्धा लोभिता लुभो विमोहने (7254) इट् विलुभिताः केशाः, लुब्धोऽन्यः 126
लुभँ लुभ विमोहने
-(अर्थविवरणम्) विमोहनं व्याकुलीकरणम्
लुभति तीषुसह (तु0 7248) इति लोब्धा लोभिता लुभो विमोहने ( 7254) इट्-विलुभिताः केशाः दिवादौ लुभ गार्द्ध्ये (4129)-लुभ्यति, लुब्धः 26
धातुवृत्तिः
Sanskrit
लुभँ लुभ (अर्थः) गार्ध्ये
(अर्थविवरणम्) गार्ध्यमाकाङ्क्षा
( लुभ्यति लुलोभ, लुलोभिथ लोभिता, लोब्धा, लोभिष्यति लुभ्यतु अलुभ्यत् लुभ्येत्, लुभ्यात् अलुभत् लुलुभिषति लुलोभिषति लोलुभ्यते लुलोब्धि लोभयति अलूलुभत् लुभित्वा, लोभित्वा, लुब्ध्वा लुब्धः ) तादौ "तीषसह'' इतीड्विकल्पः सेटोःक्त्वासनोः "रलोव्युपधात्''इति कित्वविकल्पः"यस्य विभाषा'' इति निष्ठायां नेट् "लुभो विमोहने' इतिक्त्वानिष्ठयोर्नित्यं सेट्त्वं विमोहनार्थस्य तौदादिकस्यैव भूवादेरवृतृकृतत्वाल्लोभत इति भवतीत्यात्रेयः 129
लुभँ लुभ (अर्थः) विमोहने
(अर्थविवरणम्) विमोहनमाकुलीकरणम्
( लुभति लुलोभ लोब्धा ) "तीषसह'' इतीड्विकल्पः ( लोभिष्यति लुभतु अलुभत् लुभेत् लुभ्यात् अलोभीत् लुलुभिषति लुलोभिषति लुभित्वा लोभित्वा ) "रलो व्युपधात्'' इति कित्वविकल्पः ( लोलुभ्यते लोलोब्धि लोभयति अलूलुभत् विलुभिताः ) केशाः "लुभो विमोहन'' इति क्त्वानिष्ठयोर्नित्यमिट् गार्ध्ये तु लुभ्यतीति गतम् 25
कृदन्तरूपमाला
Sanskrit
1 {@“लुभ गार्ध्ये”@} 2 ‘भूवादेरवृत्कृतत्वात् लोभते इति भवति इति आत्रेयः’ इति मा।
धा।
वृत्ति- रिहानुसन्धेया।
‘गार्ध्यम् = आकाङ्क्षा’ इति तत्र वृत्तिः।
‘गार्ध्ये लुभ्यति मोहार्थे तुदादेर्लुभतीति शे।’ 3 इति देवः।
4 लोभकः-भिका, लोभकः-भिका, 5 लुलुभिषकः-लुलोभिषकः-षिका, लोलुभकः-भिका
6 लोभिता-लोब्धा-ब्ध्री, लोभयिता-त्री, लुलुभिषिता-लुलोभिषिता-त्री, लोलुभिता-त्री
लुभ्यन्-न्ती, लोभयन्-न्ती, लुलुभिषन्-लुलोभिषन्-न्ती
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 7 ज्ञेयानि।
निष्ठायाम्- 8 लुब्धम्-लुब्धः-लुब्धवान्
क्त्वायां- 9 लुभित्वा-लोभित्वा-लुब्ध्वा, इति अस्य धातोः विशेषः।
प्रासङ्गिक्यः
01
=>
(१५१४)
02
=>
(४-दिवादिः-१२३८। सक। सेट्। पर।)
03
=>
(श्लो। १४१)
04
=>
[पृष्ठम्११७५+ २५]
05
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सेटः क्त्वासनोः कित्त्वविकल्पः। तेन सन्नन्ते सर्वत्र क्त्वाप्रत्ययेऽपि रूपद्वयं बोध्यम्।]]
06
=>
[[२। तृचि ‘तीषसहलुभ--’ (७-२-४८) इति तादेरार्धधातुकस्य इड्विकल्पनात् रूपद्वय- मिति ज्ञेयम्।]]
07
=>
(२२४)
08
=>
[[३। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः। तेन एकमेव रूपम्।]]
09
=>
[[४। क्त्वायाम् ‘रलो व्युपधात् --’ (१-२-२६) इति कित्त्वविकल्पः। ‘तीषसहलुभ--’ (७-२-४८) इत्यादिना इड्विकल्पः। तेन रूपत्रयमिति ज्ञेयम्।]]
1 {@“लुभ विमोहने”@} 2 ‘विमोहनम् = व्याकुलीकरणम्’ इति क्षीरस्वामी।
‘गार्ध्ये लुभ्यति मोहार्थे तुदादेर्लुभतीति शे।’ 3 इति देवः।
लोभकः-भिका, लोभकः-भिका, लुलुभिषकः-लुलोभिषकः-षिका, लोलुभकः-भिका
लोभिता-त्री, लोब्धा-ध्री, लोभयिता-त्री, लुलुभिषिता-लुलोभिषिता-त्री, लोलुभिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 4 ऊह्यानि।
निष्ठायाम्- 5 विलुभितः 6 विलुभिताः केशाः], शतरि-लुभन्, क्त्वायां 7 लुभित्वा-लोभित्वा, इमानि रूपाणि अस्य धातोः विशेषः।
8 लोभनीयम्।
9
प्रासङ्गिक्यः
01
=>
(१५१५)
02
=>
(६-तुदादिः-१३०५। सक। सेट्। पर।)
03
=>
(श्लो। १४१)
04
=>
(२२४)
05
=>
[[आ। ‘दधत् विलुभितं वातैः केसरं वह्निपिङ्गलम्।।’ भ। का। ९-४०।]]
06
=>
[ [[५। ‘लुभो विमोहने’ (७-२-५४) इति निष्ठायामिडागमो भवति। विलुभिताः = केशाः। विलुभितः = सीमन्तः। अन्यत्र लुब्धो वृषलः, शीतेन पीडित इत्यर्थः।]]
07
=>
[[B। ‘लुभो विमोहने’ त्विट् स्यात् वा कित्त्वं रल इत्यपि। लोभित्वा वा लुभित्वा वा केशान्नृत्यति (?) बालिका।।’ इति प्र। सर्वस्वम्।]]
08
=>
[[C। ‘दिग्व्यापिनीर्लोचनलोभनीयाः मृजान्वयाः स्नेहमिव स्रवन्तीः।’ भ। का। २-१३।]]
09
=>
[पृष्ठम्११७६+ २९]