| YouTube Channel

लुपॢ (luplR)

 
धातुप्रदीपः
Sanskrit
लुपॢँ लुपॢ छेदने
- लुम्पति लुम्पते लुलोप लुलुपे लोप्ता लोप्स्यति लोप्स्यते अलुपत् अलुप्त लोलुप्यते लोपः 157
क्षीरतरङ्गिणी
Sanskrit
लुपॢँ लुपॢ छदने
- लुम्पति, लुम्पते अलुपत्, अलुप्त लुपसदचर (3124) इति यङ्-लोलुप्यते 149
धातुवृत्तिः
Sanskrit
लुपॢँ लुपॢ (अर्थः) छेदने
( लुम्पति लुम्पते ) इत्यादि मुञ्चतिवत् ( लोलुप्यते ) "लुपसद'' इत्यादिना भावगर्हायामेव यङ् लुप्तनिर्दिष्ट इत्यत्रापूर्वकालस्यापि लुप्तशब्दस्य भाष्यकारप्रयोगात्पूर्वनिपातः ( लोपयति अलूलुपत् अलुलोपत् ) काण्यादित्वातह्रस्वविकल्पः 147
कृदन्तरूपमाला
Sanskrit
1 {@“लुपॢ छेदने”@} 2 मुचादिः।
लोपकः-पिका, लोपकः-पिका, लुलुप्सकः-प्सिका, लोलुपकः-पिका
लोप्ता-त्री, लोपयिता-त्री, लुलुप्सिता-त्री, लोलुपिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकमुञ्चतिवत् 3 ज्ञेयानि।
शतरि- 4 लुम्पन्-न्ती, यङन्तात् शानचि-लोलुप्यमानः, 5 णिनिप्रत्यये 6 भयलोपी इति अस्य धातोः विशेषः।
7
प्रासङ्गिक्यः
01
=>
(१५११)
02
=>
(६-तुदादिः-१४३१। सक। अनि। उभ।)
03
=>
(१२७५)
04
=>
[[२। ‘तुदादिभ्यः शः’ (३-१-७७) इति विकरणप्रत्यये शे ‘शे मुचादीनाम्’ (७-१-५९) इति नुमि लुम्पन् इति रूपम्। एवं शानजन्तेऽपि प्राक्रेया ज्ञेया।]]
05
=>
[[३। ‘लुपसदचर--’ (३-१-२४) इति भावगर्हायां यङि रूपमेवम्। भावगर्हा धात्वर्थगर्हा। तु क्रियासमभिहारे यङ् इति ज्ञेयम्।]]
06
=>
[[B। ‘… गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन्।’ धा। का। २-८५।]]
07
=>
[पृष्ठम्११७४+ २४]