| YouTube Channel

लुन्च (lunca)

 
धातुप्रदीपः
Sanskrit
लुन्चँ लुञ्च अपनयने
- लुञ्चति लुलुञ्च लुञ्चित्वा लुचित्वा लुचितम् मृष्टलुचितम् लुक् लुक्काययति ।। 184 ।।
वाचस्पत्यम्
Sanskrit
लुन्च अपनयने
भ्वा०
पर०
सक०
सेट् लुञ्चति अलुञ्चीत्
क्षीरतरङ्गिणी
Sanskrit
लुन्चँ लुन्च अपनयने
- (अर्थविवरणम्) अनुपयुक्तापासने
लुञ्चति वञ्चिलुञ्च्यृतश्च (1224) इति क्त्वा निष्ठा वा कितौ-लुञ्चित्वा, लुचित्वा, लुञ्चितः, लुचितः 186
धातुवृत्तिः
Sanskrit
लुन्चँ लुञ्च (अर्थः) अपनयने
लुञ्चतीत्यादि पूर्ववत् ( लुञ्चित्वा "'वञ्चिलुञ्च्यृतश्च'' इति सेटः क्त्वःकित्त्वविकल्पनात् पक्षे नलोपः के चिदमुं "कुचितं पठन्ति तदनार्षं, राजदन्तादिषु लुचितमिति पाठाद्, उदित्त्वे हि क्त्वायाम् "उदितो वा '' इतीटो विकल्पनाद् निष्ठायां "यस्य विभषा'' इति प्रतिषेधाल्लुचितमिति स्यात् 185