| YouTube Channel

लुण्टिता-त्री (luNTitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लुटि स्तेये”@} 2 ‘लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत्।’ 3 इति देवः।
‘लुठि--’ इत्येके इति तरङ्गिण्याम्।
किन्तु पुरुषकारे, ‘लुण्ठेति क्षीरस्वामी’ इति उद्धृतम्।
शाकटायनस्तु तृतीयान्तं 4 पपाठ।
इति मा।
धा।
वृत्तिः।
धातुकाव्येऽपि 5 एवमेव।
लुण्टकः-ण्टिका, लुण्टकः-ण्टिका, लुलुण्टिषकः-षिका, लोलुण्टकः-ण्टिका
लुण्टिता-त्री, लुण्टयिता-त्री, लुलुण्टिषिता-त्री, लोलुण्टिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककुण्टतिवत् 6 ज्ञेयानि।
7 लुण्टाकः 8 -लुण्टाकी।
प्रासङ्गिक्यः
01
=>
(१५०२)
02
=>
(१-भ्वादिः-३२८। सक। सेट्। पर।)
03
=>
(श्लो। ७४)
04
=>
(लुडि)
05
=>
(२-६६)
06
=>
(२०९)
07
=>
[[१। तच्छीलादिषु कर्तृषु ‘जल्पभिक्षकुट्टलुण्ट--’ (३-२-१५५) इति षाकन्प्रत्यये रूपमेवम्। षित्त्वात् स्त्रियां ङीष्प्रत्यये लुण्टाकी इति।]]
08
=>
[[आ। क्षीरतरङ्गिण्याम् (भ्वादौ) उद्धृतत्वात् अत्र उपात्तम्। ‘जल्पभिक्षकुट्टलुण्ट--’ (३-२-१५५) इत्यत्र न्यासपदमञ्जर्योः ‘लुण्ट स्तेये चौरादिकः’ इत्युक्तत्वात् अत्र पाठः समीचीनः इति ज्ञायते।]]