| YouTube Channel

लिह (liha)

 
Capeller Eng
English
लिह
a.
=
prec.
(—°).
Wilson
English
लिह r. 2nd cl. (लेढि लीढे) To taste, to taste with the tongue, to
lick.
Apte
English
लिहः [lihḥ] लेढृ [lēḍhṛ], लेढृ
m.
Mild wind.
Monier Williams Cologne
English
2. लिह्
mfn.
(ifc. ) licking (cf. मधु-ल्°)
लिह (ifc. ) ‘licking’ or ‘being licked’ (See अभ्रं-ल्° and गो-ल्°).
Monier Williams 1872
English
लिह in गो-लिह, q. v.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लिह्
मूलधातुः:
लिह
धात्वर्थः:
आस्वादने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
लेढि-लीढे
धातुप्रदीपः
Sanskrit
लिहँ लिह आस्वादने
- लेढि लीढे लिलेह। लिलिहे लेढा अलेट् अलीढ अलिक्षत् अलिक्षत अलीढ अलीढाः अलिक्षथाः अलिक्षः अलीढ्वम् अलिक्षध्वम् अलिक्षथ अलिह्वहि अलिक्षावहि अलिक्षाव लीढः श्वलिट् ।। 6 ।।
शब्दकल्पद्रुमः
Sanskrit
लिह, स्वादे इति कविकल्पद्रुमः
(अदा०-उभ०-सक०-अनिट् ।) ञ, लेढिपुष्पाणि षट्पदः लीढे औ, अलिक्षत् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
लिह आस्वादने अदा०
उभ०
सक०
अनिट् लेढि लीढे ।अलिक्षत्
क्षीरतरङ्गिणी
Sanskrit
लिहँ लिह आस्वादने
-लेढि, लीढे अलिक्षत् क्सस्याचि (7372) अलिक्षाताम् लुग् वा दुह (7373) इत्यलीढ अलीढाः, अलिक्षत अलिक्षथाः श्याद्व्यध (31141) इति णः-लेहः वहाभ्रे लिहः (3232) खश्-वहंलिहः, अभ्रंलिहः घञ् (द्र0 3318, 19) लेहः आलीढः 6
धातुवृत्तिः
Sanskrit
लिहँ लिह (अर्थः) आस्वादने
( लेढि, लीढः, लिहन्ति लेक्षि, लीढः, लेह्मि लीढे लिहाते लिहते लिक्षे, लिहाथे लीढे लिहे, लिह्वहे ) झलि "हो ढः'' "झषस्तथोः'' इति तथोर्द्धत्वे "ष्टुना ष्टुः'' इति ष्टुत्वे तस्य चाश्रयासिद्धत्वाङ् ढो ढेर्लोपे "ढ्रलोपे पूर्व्वस्य दीर्घ0'' इति दीर्घः सकारादौ "षढोः'' इति कत्वं, तिपि ढत्वस्य पूर्वत्रासिद्धत्वात्पूर्वमेव गुणे ढत्वादि ( लिहन्ति ) लिहतइत्यत्राप्यसिद्धत्वादिना पूर्वमेवान्त्यदादेशयोझल्परत्वाभावाड् ढत्वं भवति (लिलेह लिलिहतुः लिलिहुः ( 1 ) ( 1 ) कुत्रचित्रास्ति लिलेहिथ लिलिहिव लिलिहे, लिलिहिषे लिलिहिढ्वे, लिलिहिध्वे, लिलिहिवहे ) क्रादिनियमादिट् ( लेढा लेढासे ( 2 ) ( 2 ) क्कचिन्नास्ति लेक्ष्यति, लेक्ष्यते लेढु, लीढात्, लीढाम्, लिहन्तु, लीढि, लेहानि लीढां, लिहाताम् लिक्ष्व, लीढ्वं लेहै ) हौ धित्वे ष्टुत्वादि ( अलेट अलीढाम्, अलिहन्, अलेट्, अलीढम्, अलीढ अलेहम्, अलिह्व, अलीढ, अलीहत अलीढाः, अलीढ्वम्, अलिहि, अलिह्वहि लिह्यात् लिह्याःलिह्यां लिहीत लिहीथाःलिहीय) अत्र अपित्सावेधातुकत्वान्न गुणः, आशिषि ( लिह्यात्, लिह्यास्तां, लिक्षीष्ट ) इत्यादि "लिङ् सिचौ'' इति तङि कित्त्वान्न गुणः, लिक्षीध्वमित्यत्र ढत्वे षत्वस्यासिद्धत्वान्न षीध्वमस्ति, कृते ढत्वे कत्वषत्वयोश्च नेणः परः षाध्वमिति नास्ति मूर्द्धन्यप्रसङ्गः ( अलिक्षत् अलिक्षताम् अलिक्षन् अलिक्षः अलिक्षम् अलिक्षाव अलिक्षतअलिक्षाताम् अलिक्षथाः, अलिक्षि, ) "लुग्वा दुह'' इत्यादिना दुहिवत् क्सस्य वा लुकि ( अलीढ अलीढाः अलीढ्वम्, अलिह्वहि ) इत्यपिभवति ( लिलिक्षति, लिलिक्षते, लेलिहीति, लेलेढि लेलिहान ) इति चानशि, (लेहयति अलीलिहत् लेहः ) "श्याद्व्यध'' इतीगुपधलक्षणस्य कस्यापवादो णः ( वहंलिहः अभ्रंलिहः ) "वहाभ्रे लिह'' इति वहाभ्रयोः कर्म्मणोरुपपदयोः खश् "अरुर्द्विषदजन्तस्य'' इति पूर्व्वपदस्य मुम्, खशः शित्त्वे नापित्सार्व्वधातुकत्वेन गुणः शपस्तु लुका लुप्तत्वान्न तदपेक्षाऽपि अत्रात्रेयः गणकार्यस्यानित्यत्वात् सृक्किण्योर्लिहति जिह्वया कदाचिदिति संज्ञापूर्वको विधिरनित्य' इति गुणाभावोऽपि, एवं वैद्यके अलिहदित्यादय इति, श्वलिड्ढौकत इत्यत्र हो ढेपदान्तरनिरपेक्षत्वेनान्तरङ्गत्वाज्जश्त्वमिति ढलापो भवति, (लिक्षा) बाहुलकात् क्सः यूकालिक्षं "क्षुद्रजन्तः'' इति नित्यं समाहारद्वन्द्वे नपुंसकत्वम् द्विषादयोऽनुदात्ताः स्वरितेतः 6
कृदन्तरूपमाला
Sanskrit
1 {@“लिह आस्वादने”@} 2 लेहकः-हिका, लेहकः-हिका, 3 लिलिक्षकः-क्षिका, लेलिहकः-हिका
4 लेढा-ढ्री, लेहयिता-त्री, लिलिक्षिता-त्री, लेलिहिता-त्री
लिहन्-ती, लेहयन्-न्ती, लिलिक्षन्-न्ती
-- लेक्ष्यन्-न्ती-ती, लेहयिष्यन्-न्ती-ती, लिलिक्षिष्यन्-न्ती-ती
-- लिहानः, लेहयमानः, लिलिक्षमाणः, लेलिह्यमानः
लेक्ष्यमाणः, लेहयिष्यमाणः, लिलिक्षिष्यमाणः, लेलिहिष्यमाणः
लिट्-लिड्-लिहौ-लिहः
-- -- -- 5 लीढम्-ढः-ढवान्, लेहितः-तम्, लिलिक्षितः, लेलिहितः-तवान्
6 लेहः, 7 लेहनः, 8 मधुलेही, 9 10 वहंलिहः-अब्भ्रंलिहः, 11 लेलिहानः, लेहः, लिलिक्षुः, लेलिहः
लेढव्यम्, लेहयितव्यम्, लिलिक्षितव्यम्, लेलिहितव्यम्
लेहनीयम्, लेहनीयम्, लिलिक्षणीयम्, लेलिहनीयम्
लेह्यम्, लेह्यम्, लिलिक्षिष्यम्, लेलिह्यम्
ईषल्लेहः-दुर्लेहः-सुलेहः
-- -- -- लिह्यमानः, लेह्यमानः, लिलिक्षिष्यमाणः, लेलिह्यमानः
लेहः, मधुलेहः, लेहः, लिलिक्षः, लेलिहः
लेढुम्, लेहयितुम्, लिलिक्षितुम्, लेलिहितुम्
लीढिः, लेहना, लिलिक्षा, लेलिहा
लेहनम्, लेहनम्, लिलिक्षणम्, लेलिहनम्
लीढ्वा, लेहयित्वा, लिलिक्षित्वा, लेलिहित्वा
संलिह्य, संलेह्य, संलिलिक्ष्य, संलेलिह्य
लेहम् २, लीढ्वा २, लेहम् २, लेहयित्वा २, लिलिक्षम् २, लिलिक्षित्वा २, लेलिहम्
लेलिहित्वा २।
प्रासङ्गिक्यः
01
=>
(१४९१)
02
=>
(२-अदादिः-१०१६। सक। अनि। उभ।)
03
=>
[[१। सन्नन्ते ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् गुणः। धातुहकारस्य ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे ‘इण्कोः’ (८-३-५७) ‘आदेशप्रत्यययोः’ (८-३-५९) इति प्रत्ययसकारस्य षकारे रूपम्। एवमुपर्यपि यथासम्भवं ज्ञेयम्।]]
04
=>
[[२। धातुहकारस्य ढत्वे, ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन धकारस्य ढकारे, ‘ढो ढे लोपः’ (८-३-११) इति धातुस्थढकारस्य लोपे रूपमेवम्। एवमेव तुमुनादिषु प्रक्रिया ज्ञेया।]]
05
=>
[[३। अत्रापि ढत्वधत्वष्टुत्वढलोपाः। प्रत्ययस्य कित्त्वान्न प्रकृतेर्गुणः।]]
06
=>
[[४। इगुपधलक्षणकप्रत्ययस्यापवादे ‘श्याद्व्यध--’ (३-१-१४१) इति णप्रत्यये गुणे रूपमेवम्।]]
07
=>
[[५। बाहुलकान्नन्द्यादित्वेन कर्तरि ल्युप्रत्ययेऽनादेशे रूपमेवम्।]]
08
=>
[[६। मधु लेढीति मधुलेही। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
09
=>
[पृष्ठम्११६४+ २४]
10
=>
[[१। वहं = स्कन्धं लेढीति वहंलिहः = वत्सः। अब्भ्रं लेढीति अब्भ्रंलिहः = वायुः सौधो वा। ‘वहाब्भ्रे लिहः’ (३-२-३२) इति खश्। ‘कर्तरि शप्’ (३-१-६८) इति शप्। तस्य ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति लुक्। खित्त्वात् ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुमागमः। प्रत्ययस्य शित्त्वेन सार्वधातुकत्वम्
\n\n तेन ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावान्न गुणः।]]
11
=>
[[२। यङन्तात् चानश्प्रत्यये रूपमेवम्। अन्यथा लेलिह्यमान इत्येव शानचि भवेत्।]]
Capeller
German
2. लिह (—°) leckend.
लिह dass.