| YouTube Channel

लिश (liza)

 
Wilson
English
लिश(औ)लिशौ r. 4th cl. (लिश्यते) To lessen or become less. r. 6th
cl. (लिशति) To go, to move, to approach.
Monier Williams Cologne
English
लिश See कु-लिश.
Monier Williams 1872
English
लिश, अस्, आ, अम्, (probably) tearing, injuring, &c.
(see कुलिश।)
Lanman
English
liśa, tearing, breaking, and so cutting, in
ku-liśa. [√liś.]
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लिश्
मूलधातुः:
लिश
धात्वर्थः:
अल्पीभावे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
लिश्यते
धातुः:
लिश्
मूलधातुः:
लिश
धात्वर्थः:
गतौ
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
लिशति
धातुप्रदीपः
Sanskrit
लिशँ लिश अल्पीभावे
- लिश्यते लिलिशे लेष्टा लेक्ष्यते अलिक्षत लेशो मात्रा लिशतीति तौदादिकस्य 65
लिशँ लिश गतौ
- लिशति लिलेश प्रलेष्टा अलिक्षत् लेशः 147
शब्दकल्पद्रुमः
Sanskrit
लिश, तौच्छ्ये इति कविकल्पद्रुमः
(दिवा०-आत्म०-अक०-अनिट् ।) तौच्छ्य-मल्पीभावः य, लिश्यते धर्म्मः कलौ ।औ, लेष्टा इति दुर्गादासः
लिश, गत्याम् इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-अनिट् ।) लिशति औ, अलिक्षत् लेष्टा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
लिश श्लेषे अल्पीभावे दि० अक० आत्म० अनिट् लिश्यतेअलिक्षत
लिश गतौ तु०
पर०
सक०
अनिट् लिशति अलिक्षत्
क्षीरतरङ्गिणी
Sanskrit
लिशँ लिश अल्पीभावे
- लिश्यते, लेष्टा, लेशः तुदादौ (6125) लिशति 67
लिशँ लिश गतौ
- लिशति लेष्टा भ्वादौ लिश अल्पीभावे लेशति, लेशः 140
धातुवृत्तिः
Sanskrit
लिशँ लिश (अर्थः) अल्पीभावे
( लिश्यते लिलिशे लेष्टा लेक्ष्यते ) ब्रश्चादिना षत्वे कत्वम् ( लिश्यताम् अलिश्यत लिश्येत, लिक्षीष्ट अलिक्षत अलिक्षाताम् ) "शल इगुपधात्'' इति क्सः "क्सस्याचि'' इत्यकारलोपः ( लिलिक्षते लेलिश्यतेलेलेष्टि लेशयति अलीलिशत् लिक्षा, ) बाहुलकात् क्सप्रत्ययः अयं गत्यर्थस्तुदादौ पदादयोऽनुदात्ता अनुदात्तेतो ण्यतिवर्जम् 71
लिशँ लिश (अर्थः) गतौ
( लिशति ) इत्यादि रिशतिवत् लिश्यते इति दैवादिकस्य 137
कृदन्तरूपमाला
Sanskrit
1 {@“लिश अल्पीभावे”@} 2 ‘लिश्यते लिशतीत्येवमल्पीभावे गतौ क्रमात्।।’ 3 इति देवः।
लेशकः-शिका, लेशकः-शिका, लिलिक्षकः-क्षिका, लेलिशकः-शिका
लेष्टा-ष्ट्री, लेशयिता-त्री, लिलिक्षिता-त्री, लेलिशिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकदिशतिवत् 4 बोध्यानि।
क्विपि-लिट्- लिड्-लिशौ-लिशः
शानचि-लिश्यमानः 5 इति विशेषः।
लिक्षा, अलिक्षम् = क्षुद्रजन्तुविशेषः।
6
प्रासङ्गिक्यः
01
=>
(१४८९)
02
=>
(४-दिवादिः-११७९। अक। अनि। आत्म।)
03
=>
(श्लो। १६५)
04
=>
(८४१)
05
=>
[[आ। ‘… शेषं व्यसृज्यत पटौघमलिश्यमानम्।।’ धा। का। २-६२।]]
06
=>
[पृष्ठम्११६३+ २७]
1 {@“लिश गतौ”@} 2 ‘लिश्यते लिशतीत्येवमल्पीभावे गतौ क्रमात्।।’ 3 इति देवः।
4 “तुदादिश्चायं 5 क्षीरस्वामिधनपालयोः।
‘लिश गतौ’।
तुदादिः तयोरनुमतोऽयं पाठः।
द्विष्पाठस्त्वेवमर्थमेदान्नूनम्।
एवं तु ‘लिश गत्यल्पीभावयोः’ इत्यनुक्तिर्वैचित्र्यार्था” इति पुरुषकारोक्तमिहानुसन्धेयम्।]] लेशकः-शिका, लेशकः-शिका, लिलिक्षकः-क्षिका, लेलिशकः-शिका
लेष्टा-लेष्ट्री, लेशयिता-त्री, लिलिक्षिता-त्री, लेलिशिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकदिशतिवत् 6 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१४९०)
02
=>
(६-तुदादिः-१४२१। सक। अनि। पर।)
03
=>
(श्लो। १६५)
04
=>
[[[अ]
05
=>
[‘--अल्पीभावे]
06
=>
(८४१)