| YouTube Channel

लिलासयिषकः-षिका (lilAsayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लस शिल्पयोगे”@} 2 शिल्पयोगे = कौशले इत्यर्थः इति बालमनोरमा।
“--शिल्पोपयोगे भ्रमादिना तक्ष्णोतीत्यर्थः” इति क्षीरस्वामी।
‘तालव्यान्त 3 इति कौशिकः’ इति तरङ्गिण्याम्।
“केचित् मूर्धन्यान्तं पठन्ति” इति स्वामी इत्याह” इति मा।
धा।
वृत्तौ।
पुरुषकारधातुवृत्तिकारप्रौढमनोरमाकारादयः स्वामिमते ‘लस’ इति दन्त्यं पठित्वा ‘लष’ इति मूर्धन्यान्तमिति केचित् इति पठन्ति।
प्रकृतक्षीरतरङ्गिण्यां तु ‘लष शिल्पोपयोगे’ इत्येव दृष्टः पाठः।
‘लासयेत् शिल्पयोगेऽर्थे श्लेषणे क्रीडने लसेत्।।’ 4 इति देवः।
लासकः-सिका, लिलासयिषकः-षिका, लासयिता-त्री, लिलासयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककालयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४७६)
02
=>
(१०-चुरादिः-१७२९। अक। सेट्। उभ।)
03
=>
[लश]
04
=>
(श्लो। १९०)
05
=>
(१७५)